________________
परिच्छेदः ]
विराख्यया व्याख्यया समेतः ।
तत्र
४३३ तदाहुश्छादनं पुनः ।
कार्यार्थमपमानादेः सहनं खलु यद्भवेत् ॥ ४०४ ॥
यथा तत्रैव 'अर्जुनः- आर्य ! प्रसीद किमत्र क्रोधेन अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा । हताशतो दुःखी प्रलापैरस्य का व्यथा ॥ ३७८ ॥' अथ निर्वहणाङ्गानि -
४३४ सन्धिर्विबोधो ग्रथनं निर्णयः परिभाषणम् ।
कृतिः प्रसाद आनन्दः समयोऽप्युपगूहनम् ॥ ४०५ ॥ भाषणं पूर्ववाक्यं च काव्यसंहार एव च । प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः ॥ ४०६ ॥
४८१
४३५ बीजोपगमनं सन्धिः
यथा वेणीसंहारे 'भीमः स्मरति भवती यन्मयोक्तम्, "वञ्चद्भुज..." इत्यादि।' इत्यनेन मुखे क्षिप्तबीजस्य पुनरुपगमनमिति सन्धिः ।
४३६ विबोधः कार्यमार्गणम् ।
छादनं लक्षयति- ४३३ तदाहुरित्यादिना ।
४३३ यत् । कार्यार्थे कार्यसिद्धये । अपमानादेः । सहनम् । भवेत् । तत् । खलु पुमः - छादनम् । आहुः ४०४॥ उदाहरति-यथा । तत्र वेणीसंहारे पञ्च मेऽङ्के । एव अर्जुनः 'दुर्योधनवचः श्रवणेन कुपितं भीमसेनं प्रत्याहे' ति शेषः । आर्य ! प्रसीद प्रसन्नो भव । किम् । अत्रास्मिन् हतप्राये दुर्योधने इति भावः । क्रोधेन । मरणासन्ने क्रोधो न कर्तव्य इति भावः ।
तदेवाह - हतभ्रातृशतो हतं भ्रातृशतं यस्य तथोक्तः । अत एव दुःखी । एष दुर्योधन इत्यर्थः । वाचा | शक्तः वाङ्गात्रेणाप्रियाणि कर्त्तुं समर्थः । अप्रियाणि । करोति । कर्मणा पुनरिति शेषः । न । करोतीति पूर्वतोऽन्वेति । अतः अस्य । प्रलापैः । का । व्यथा न काऽपिव्यथेति भावः ॥ ३७८ ॥'
विमर्शाङ्गानि निरूप्य निर्वहणाङ्गानि निरूपयितुमुपक्रमते - अथेत्यादिना ।
ere विमर्शाङ्ग निरूपणानन्तरम् । निर्वहणाङ्गान्युच्यन्ते - ४३४ सन्धिरित्यादिना ।
४३४ संहारे निर्वहणे सन्धावित्यर्थः । सन्धि रित्यारभ्य प्रशस्तिः । इति ( इत्यन्तमुक्तानि ) चतुर्दश इति शेषः । अङ्गानि । नामतः । ज्ञेयानि । स्पष्टमन्यत् ॥ ४०५ ॥ ४०६ ॥
क्रमात्सन्ध्यादीन् लक्षयितुकाम आह-तत्र तेषु मध्ये । 'सन्धिर्लक्ष्यते' इति शेषः । ४३५ बीजोपगमनमित्यादिना ।
४३५ बीजोपगमनं बीजस्य प्रधानकारणस्योपगमनं समन्वयः । सन्धिः ।
उदाहरति-यथा । वेणीसंहारे षष्ठेऽङ्के । 'भीमः 'द्रौपदीं प्रत्याहे 'ति शेषः । यत् । चञ्चद्भुज... इत्यादि । मया । उक्तम् । तत्-भवती याज्ञसेनीत्यर्थः । स्मरति ।' इत्यनेन । मुखे युद्धारम्भे । क्षिप्तबीजस्य रोपितस्य कारणस्य । पुनरुपगमनं फलात्मनोद्भवनम् । इति । सन्धिः ।
विबोधं लक्षयति-४३६ विबोध इत्यादिना ।
४३६ कार्यमार्गणं कार्यस्य मार्गणमन्वेषणम् । विबोधः ।
६१