________________
साहित्यदर्पणः ।
यथा वेणीसंहारे - ' पाञ्चालकः 'अहं दैवेन' इत्युपक्रम्य' कृतं सन्देहेन - पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णात्यन्तचिरोज्झिते तु कबरीबन्धे करोतु क्षणम् । रामे शातकुठारभास्वरकरे क्षत्रद्रुमोच्छेदिनि
क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ ३७६ ॥ ४३२ कार्यसङ्ग्रह आदानं
४८०
[ षष्ठ:
यथा वेणीसंहारे "भीमसेनः ( उद्धतं परिक्रामन्) भो भोः स्यमन्तपञ्चकसञ्चारिणः ! नाहं रक्षो न भूतो रिपुरुधिरजलाह्लादिताङ्गः प्रकामंनिस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भोभो राजन्यवीराः ! समर शिखिशिखामुक्तशेषाः कृतं वत्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ३७७ ॥" अत्र समस्त रिपुवधकार्यस्य सङ्ग्रहीतत्वादादानम् ।
उदाहरति यथा । वेणीसंहारे षष्टे । 'पाञ्चालको धृष्टद्युम्नः । ' युधिष्ठिरं प्रत्याहे 'ति शेषः ।... अहम् । देवेन चक्रपाणिना देवसकाशमनुप्रेषितः । आह् च देवो देवकीनन्दन इति शेषः । इत्युपक्रम्यारभ्य । सन्देहेन । कृतं पर्याप्तम् । " कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु" इति मेदिनी । ते । तव । राज्याभिषेकाय । सलिलेन जलेन । 'चतुर्णी समुद्राणा' मिति शेषः । रत्न कलशा रत्नघटिता कलशाः । पूर्यन्ताम् । अत्यन्तचिरोज्झिते अत्यन्तचिरेणोझितस्त्यक्तस्तादृशे । कबरीबन्धे कवर्याः केशानां बन्धो बन्धनं तत्र । तु पुनः । क्षणमुत्सवमभिलाषम् । कृष्णा द्रौपदी । करोतु । ननु यावद्दुर्योधनं तावत् किमेवमुच्यते इत्याशङ्कयाह - शातकुठारभास्वरकरे शातस्तीक्ष्णो यः कुठारः परशुस्तेन भास्वरः करो यस्य तादृशे । क्षत्रद्रुमोच्छेदिनि । रामे जमदग्निनन्दने । क्रोधान्धे । च पुनः । वृकोदरे भीमे | आजौ सङ्ग्रामे । परिपतति । कुतः कथम् । संशयो जयादौलभ्यमिति भावः । अत्र हि युद्धकार्येsसमाप्तेऽपि समाप्तप्रायत्वद्योतनम् । शार्दूलविक्रीडितं वृत्तम् ॥ ३७६ ॥
आदानं लक्षयति - ४३२ कार्येत्यादिना ।
४३२ कार्यसंग्रहः कार्यस्य मुख्यतयाऽनुष्ठेयस्य कर्मणः सङ्ग्रहः समाप्त्यनन्तरं फलात्मना सङ्ग्रहणम् । आदानम् ।
उदाहरति यथा । वेणीसंहारे 'षष्टेऽङ्के' इति शेषः । ' भीमसेनः । उद्धतम् । (परिक्रामन् परिभ्रमन् ) भोभोः स्यमन्तपञ्चकसञ्चारिणः स्यमन्तपञ्चकं कुरुक्षेत्रान्तर्वर्ती तीर्थविशेष उपचारात्तत्प्रान्तदेशस्तत्र सञ्चरन्तीति तत्सम्बुद्धौ तथोक्ताः ! अहम् । रक्षो राक्षसः । नास्मीत्यर्थः । भूतः प्रेतः । न । किन्तु प्रकामं यथेष्टम् । रिपुरुधिरजलाह्लादितः । रिपूणां दुर्योधनादीनां रुधिरमेव जलं तेनाहादितमासिक्त म यस्य तादृशः । निस्तीर्णो
प्रतिज्ञाजलनिधिगहमः निःशेषं कृत्वा तीर्णो उरुर्महान् प्रतिज्ञाजलनिधिः प्रतिज्ञारूपः सागरों येन अत एव गहनो 'दुरासदः । क्रोधनो क्रोधशीलः । क्षत्रियः । अस्मि । अन्यतो दृष्टिं निक्षिप्येति शेषः । भोभो राजन्यवीराराजन्येषु क्षत्रियेषु वीरास्तत्सम्बुद्धौ तथोक्ताः ! समरशिखिशिखामुक्तशेषाः समरः सङ्ग्राम एव शिखी अग्निस्तस्य शिखा ज्वाला तया मुक्तः शेषोऽवशेषो येषां तत्सम्बुद्धौ तथोक्ताः । समराग्नौ पतित्वा मृतास्तेभ्योऽवशिष्टा इति भावः । अनेन निलीयावस्थानतो व्यज्यमानेंनति भावः । वो युष्माकम् । श्रासेन । कृतमलम् । कथं त्रासो लक्षित इत्याह-यत् लीनैः । हतकरितुरगान्तर्हितै र्हता ये करितुरगा नागाश्वास्तेष्वन्तर्हितास्तैः । आस्यते स्थीयते । स्रग्धरा वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ ३७७ ॥ "
लक्ष्यं सङ्गमयति-अत्रेत्यादिना । स्पष्टम् ।