________________
४७९
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। यथा मम प्रभावत्यां विदूषकं प्रति 'प्रद्युम्नः सखे कथमिह त्वमेकाकी वर्तले व नु पुनः प्रियसखी जनानुगम्यमाना प्रियतमा प्रभावती ? विदूषकः असुरवइणा आअरिअ कहिं वि नीदा। प्रद्युम्नः-(दीर्घ निःश्वस्य )। .
हा पूर्णचन्द्रमुखि ! मत्तचकोरनेत्रे ! मामानतानि ! परिहाय कुतो गताऽसि । गच्छ त्वमद्य ननु जीवित ! तूर्णमेव दैवं कदर्थनपरं कृतकृत्यमस्तु ॥३७४ ॥'
४३० कार्यात्ययोपगमनं विरोधनमिति स्मृतम् । यथा वेणीसंहारे 'युधिष्ठिरः (विचिन्त्य निःश्वस्य च)
तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निवृते कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् । भीमेन प्रियसाहसेन रभसात् स्वल्पावशेषेजये सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥ ३७५ ॥'
४३१ प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ॥ ४०२ ॥
उदाहरति-यथेत्यादिना।
यथा । मम 'कृताविति शेषः । प्रभावत्याम् । 'प्रद्युम्नः। विदूषकं प्रत्या'हे'ति शेषः । स्पष्टमन्यत् । विदूषकः । असुरवइणा असुरपतिना। आभरिअ आकार्य आहूयेति यावत् । कहिं वि। कुत्रापि । नीदा नीता। प्रद्युम्नः। (दीर्घम् । निःश्वस्य शोकं नाटयित्वेति भावः) हा कष्टम् । पूर्णचन्द्रमुखि पूर्णचन्द्रवन्मुखं यस्यास्ताहशि! मत्तचकोरनेत्रे मत्तो यश्चकोरस्तस्य नेत्रे इव नेत्रे यस्यास्तथोक्ते ! शाकपार्थिवादित्वान्मध्यमपदलो आनताडि आनताभि लज्जयाऽवनतानि अङ्गानि भृकुट्यादीनि यस्यास्ताशि ! माम् । परिहाय परित्यज्य । कुतः कुत्र । गता। असि । तदप्राप्तौ खिन्नः सन्नाह-हे जीवित ! त्वम् । अद्य । गच्छ निर्गच्छ। नन । मम गमनात् किं भविष्यतीति आशङ्कय जीवितं प्रत्याह-कदर्थनपरं सन्त्रासनपरायणम् । तूर्णम् झटिति । एव दैवं प्रारब्धम् । कृतकृत्यम् । अस्तु । अत्रेप्सितायाः प्रभावत्या असुरपतिकर्तृके हरणे व्याघातः । वसन्ततिलकं वृत्तम् ॥ ३७४॥'
विरोधनं लक्षयति-४३० कार्यात्ययेत्यादिना । ४३० कार्यात्ययोपगमनं कार्यस्यात्ययो वृथा यापनं तस्योपगमनं सूचनम्। विरोधनम् । इति । स्मृतम् ।
उदाहरति-यथा । वेणीसंहारे षष्टेऽङ्के । 'युधिष्ठिरः । विचिन्त्य 'राक्षसचरितमिति शेषः । अत एव तत्कृतवृथासन्तापेन निःश्वस्य । च । कथम् । अपि । भीष्ममहोदधौ भीष्मरूपे महासागरे । तीर्णे उत्तीर्णे सति। द्रोणानले द्रोणाचार्यरूपेऽनौ । कथमपीति पूर्वतोऽनुषज्यते । निर्वृते शान्तिमुपगते सतीत्यर्थः । कर्णाशीविषभोगिनि कर्ण एव आशीविषभोगी विषोद्गारी सर्पस्तस्मिन् । आशीस्तालुगता दंष्ट्रा तया दष्टो न जीवतीत्युक्तायां दंष्ट्रायां विषमस्येति आशीविषः । कथमपीति पूर्वतोऽन्वितम्। प्रशमिते । शल्ये । च । दिवं स्वर्गम् । याते गते सतीति भावः । प्रियसाहसेन प्रियं साहसं दुःशासनरुधिरपानादिनृशंसं कर्म यस्य तादृशेन । भीमेन । रभसात झटिति । स्वल्पावशेषे स्वल्पो दुर्योधनस्यावशिष्टत्वादवशेषो यस्य तादृशे । जये तद्विषये इति भावः । अमी वयम् । सर्वे । वाचा न तु कर्मणा । जीवितसंशयं जीवितसन्देहावस्थाम् । समारोपिताः । शार्दूलविक्रीडितं वृत्तम् ॥ ३७५ ॥'
प्ररोचना लक्षयति-४३१ प्ररोचनेत्यादिना।
४३१ प्ररोचना । तु संहारार्थप्रदर्शिनी संहारः कार्यसमाप्तिः स एवार्थः । प्रयोजनं तस्य प्रदर्शिनी प्रदर्शिका। विज्ञेया ॥ ४०२ ॥
१ असुरपतिनाऽऽकार्य कुत्रापि नीतेति संस्कृतम् ।