________________
४७८
साहित्यदर्पणः।
[षष्ठइत्यनेन चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाहरुकीर्तनमिति प्रसङ्गः।
४२८ मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः। मनः समुत्पन्नो यथा मालतीमाधवे'दलति हृदयं गाढोद्वेगं द्विधा नतु भिद्यते वहति विकलः कायो मोहं न मुश्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥३७३॥' एवं चेष्टासमुत्पन्नोऽपि।
४२९ ईप्सितार्थप्रतीघातः प्रतिषेध इतीरितः ॥ ४०१॥
वावादिता व्यापादिता । चारुदत्तः ( सनिवेदनम् स्वगम् ) यत्-निबिडचैत्यब्रह्मघोषैः निबिडानि सभ्यजनैाप्तानि यानि चैत्यानि पूजाद्यायतनानि तेषु ब्रह्मघोषाः ब्रह्मणां वेदानां वा घोषा अन्योन्यं विचारहेतुका वादास्तैः । सदसि सभायाम्। पुरस्तात् । उद्भासितम् । मखशतपरिपूतं मखानां यज्ञानां शतं तेन परिपूतं परितः पवित्रम् । असदृशमनुष्यैः असदृशा ये मनुष्यास्तैः। पापैः पापप्रधान 'श्रण्डालैं'रिति भावः । निधनदशायां-निधनं मरणं तस्य दशाऽवस्था तस्याम् । वर्तमानस्य । मम । तत् । गोत्रम् । घोषणायाम् । घुष्यते । मालिनी. च्छन्दः ॥ ३७२ ॥
कथमुदाहरणसङ्गतिरित्याह-इत्यनेनेत्यादिना ।
चारुदत्तवधाभ्युदयानुकूलप्रसङ्गाचारुदत्तस्य वधः स एवाभ्युदयस्तस्यानुकूलप्रसङ्गस्तस्मात्तमधिकृत्येति भावः । त्यबर्थे पञ्चमी । गुरुकीर्तनं गुरूणां नामघोषणम् । इत्यत इत्यर्थः । प्रसस्तदाख्यं विमर्शाङ्गमिति भावः ।
खेदं लक्षयति-४२८ मनश्चेष्टेत्यादिना । ४२८ मनश्चेष्टासमुत्पन्नः मानसिकः शारीरिकश्च । श्रमः। खेदः । इति । स्मृतः । स्पष्टो भावः । उदाहरति-मनः समुत्पन्न इत्यादिना।
यथा । मनःसमुत्पन्नः 'खेद' इति शेषः । मालतीमाधवे नवमेऽथे । 'गाढोढेगं गाढ उद्वेगो यत्र तादृशम् । हृदयम् । दलति विदीर्यते इति भावः । नतु । द्विधा । भिद्यते । यदि द्विधा दलितमभविष्यत्तदा गाढोद्वेगमप्येतन्नाभविष्यदिति भावः । कायः शरीरम् । विकलः कर्तव्यताशून्यः सन्निति भावः । मोहम् । वहति । चेतनां जीवितत्वम् । न । मुश्चति । अन्तर्दाहोऽन्तनतु वहिः अतएवासावचिकित्स्यो दाहः । तनूं शरीरम् । ज्वलयति सन्तापयति । भस्मसात् कात्स्न्येन भस्मरूपम्। न । करोति । मर्मच्छेदी मर्माणि च्छिनत्तीति तथोक्तः । विधिदैवम् । प्रहरति । जीवितम् । न । कृन्तति च्छिनत्ति । अत्र यद्दलति तस्य द्विधाभवनं युक्तं नच तद्भवतीत्येवं विरोधः, किन्तु शोकादिना हृदयादेवस्तुतो दलनाद्यसम्भवात्तथा तर्कणमात्रमिति तस्याभासः । मालतीमनुपलभ्यान्तः खिद्यतो माधवस्य मकरन्दं सम्बोध्य आवेगोद्भावनमिदम् । अत एवात्र मालत्या अलाभे खिन्नस्य माधवमनसः श्रमः । हरिणीप्लुतं छन्दः ॥ ३७३ ॥'
चेष्टासमुत्पन्नः खेदस्त्वन्वेषणीय इत्याह-एवमित्यादिना। स्पष्टम् । स यथा वेणीसंहारे षष्ठाङ्के-'अरे रे मारुते ! किं भोन प्रलीनं दुर्योधनं मन्यते भवान् मूढ ! अनिहतपाण्डुपुत्रः प्रकाशं लजमानो विश्रमितुमध्यवसितवानस्मि पातालम्' इत्यत्र दुर्योधनस्य ।
प्रतिषेधं लक्षयति-४२९ ईप्सितार्थेत्यादिना।
४२९ ईप्सितार्थप्रतीघातः ईप्सित आकाङ्गक्षितो योऽर्थों वस्तु तस्य प्रतीघातो विघातः । 'उपसर्गस्यघश्यमनुष्येबहूलम् । ६।३।१२२ 'इति प्रतेरिको दीर्घत्वम् । प्रतिषेधः। इति । ईरितः कथितः ॥ ४०१ ॥