________________
४८७
पारच्छेदः )
रुचिराख्यया व्याख्यया समेतः। तथा च यो वेणीसंहारे दुर्योधनभानुमत्या सह विप्रलम्भो दर्शितस्तत्तादृशेऽवसरेऽत्यन्तमनुचितम् ।
४५४ अविरुद्धं तु यद्वृत्तं रसादिव्यक्तयेऽधिकम् ।
. तदप्यन्यथयेद् धीमान्न वदेवा कदाचन ॥ ४१८ ॥ अनयोरुदाहरणं तत्प्रबन्धेष्वभिव्यक्तमेव । अथ वृत्तयः४५५ शृङ्गारे कौशिकी वीरे सावत्यारभटी पुनः ।
रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती ॥ ४१९ ॥ चतस्रो वृत्तयो ह्येताः सर्वनाट्यस्य मातृकाः । स्यु यकादिव्यापारविशेषा नाटकादिषु ॥ ४२० ॥
स्याप्यकिञ्चित्करत्वमित्याह-नतु । केवलया रसव्यक्तिहीनया । शास्त्रस्थितिसम्पादनेच्छया शास्त्रमर्यादारक्षणमात्राभिप्रायेणेति भाव : ॥ ४१६॥
एतेन किं सिद्धमित्याशङ्कायामाह-तथा चेत्यादिना ।
तथा । च । वेणीसंहारे तृतीयेऽके इति शेषः । स्पष्टमन्यत् । अयम्भावः-सङ्ग्रामे वीरस्यैवौचित्यं तदन्तश्च शृङ्गारस्योद्भावनेन प्रधानरसाभिव्यक्ती सर्वथा तिरोभाव आपततीति रसस्येवमनौचित्य किं पुनस्तदा सन्ध्यगादीन, निवेशे । तस्मात् यथा प्रधानरसः समभिव्यज्येत यथा वा तस्यौचित्यं सम्भवेत् तथैव सन्ध्यज्ञादिनिवेशः साधीयान्प्रतिभासते । उक्तं च-"अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् इति। 'सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षया । नतु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥' इति च ।
पुनस्तदेव प्रकारान्तरेण विवृणोति-४५४ अविरुद्धमित्यादिना ।
४५४ अविरुद्धमनुकूलताऽनालिङ्गितप्रतिकूलताविरहितम् । तु अपीत्यर्थः । यत्। वृत्तम् । अधिकमनुपयोगि अनुकूलताशून्यमिति यावत् । तत् । अपि । धीमान् सहृदयः । रसाभिव्यक्तये रसभावतदाभसाादिव्यक्तये इति भावः । अन्यथयेत्-प्रकारान्तरं नयेत् । वा ( इदं पक्षान्तरम् ) कदाचन । न । वदेत् । अयं भावः यदविरुद्ध सदनुपयोगि तद्यथोपयोगि स्यात्तथा सक्षिप्य वर्णयेत् यच्च सक्षिप्य वर्णमानमपि नोपयोगि तद्यदि सर्वथाऽपि न वयेत तदाऽपि न क्षतिः । प्रत्युत युज्यत एव काव्यसंसारे कवेः स्वतंत्रविधातृत्वादिति ॥ १८ ॥
नन्वेवं व दृष्टमित्याशङ्कयाह-अनयोरित्यादि । .. अनयो रसानुपयोगित्वे वृत्तस्य सक्षेपेण वर्णनस्य सर्वथा वा तदवर्णनस्येति भावः । उदाहरणम् । सत्प्र. बाधेषु महाकविप्रबन्धषु अभिव्यक्तम् । एव । अयं भावः महाभारतादिषु यथोपलभ्यते न तथा सर्वथा नाटकेषु किमपीतिवृत्तं न वा सङ्क्षिप्तमपि सर्वमिति वेणीसंहारबालरामायणादि दृष्टवतां प्रत्यक्षमिति ।
अथ वृत्तीरभिधातुं प्रतिजानीते-अथेत्यादिना । अथ । वृत्तय 'उच्यन्ते'इति शेषः । ४५५ शृङ्गार इत्यादिना ।
४५५ शृङ्गारे कौशिकी वृत्तिरिति परतोऽध्याहृत्य योज्यम् । एवं-वीर । सात्वती । रौद्रे रसे । च तथ । बीभत्ल । पुनः । आरभटी। सर्वत्र सर्वेषु 'अन्येषु' इति शेषः । हास्यकरुणाद्भुतभयानकशान्तेषु इति भावः । भारती । वृत्तिः । एताः कौशिक्याद्याः। हि। चतस्त्रो । वृत्तयः । सर्वनाट्यस्य सर्वेषां रूपकाणामिति भावः। मातृका उपकारिकाः । अत एव-नाटकादिषु । नायकादिव्यापारविशेषाः । स्युः ॥ ४१९ ॥ ४२० ॥