________________
१७३
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। यथा रत्नावल्या "राजा (उपमृत्य) प्रिये ! सागरिक !
शीतांशुर्मुखमुत्पले तव दृशौ पद्मपुकारौ करौ रम्भास्तम्भनिभं तथोरुयुगलं बाहू मृणालोपमौ । इत्यालादकराऽखिलाङ्गि ! रभसानिःशङ्कमालिङ्गय मा
मङ्गानि त्वमनङ्गतापविधुराण्येोहि निर्वापय ॥ ३६३ ॥" इदं च प्रार्थनाऽऽख्यमङ्गं यन्मते निर्वहणे भूतावसरत्वाभावात् प्रशस्तिनामाङ्गं नास्ति तन्मतानुसारेणोक्तम् । अन्यथा पञ्चषष्टिसङ्ख्यत्वप्रसङ्गात सम्प्रदायविरोधः ।
४१५ रहस्यार्थस्य तूझेदः क्षिप्तिः स्यात् यथाऽश्वत्थामाड़े "कृपः (सोद्वेगं निःश्वस्य)... एकस्य तावत्पाकोऽयं दारुणो भुवि वर्तते। केशग्रहे द्वितीयेऽस्मिन्नूनं निःशेषिताः प्रजाः॥३६॥ ४१६ तोटकं पुनः।
संरब्धवाक्
उदाहरति-यथेत्यादिना।
यथा। रत्नावल्यां तृतीयेऽङ्के । 'राजा । ( उपसृत्य सागरिका समीपं प्राप्य ) प्रिये ! सागरिक ! तव । मुखम् । शीतांशुश्चन्द्रः। दृशौ नेत्रे । उत्पले कमले। करौ हस्तौ। पद्मानुकारौं पद्मऽनुकारोऽनुकरणं ययोस्तौ। तथा । ऊरुयुगलं जङ्घायुगम् । रम्भास्तम्भनभं कदलीस्तम्भसदृशम् । बाहू । मृणालोपमो मृणाले कमलमूले उपमा ययोस्तो तथोक्तौ । इत्यस्मात् । आलादकराखिलागि आह्लादकराण्यखिलान्यङ्गानि यस्यास्तादृशि ! एोहि आगच्छागच्छ (अत्राभीक्ष्ण्ये विर्भावः )। माम् । रभसाद्वेगात्, हर्षाद्वा । निःशङ्कम् । आलिय । अनइतापविधुराणि अनङ्गतापः कामकृतसन्तापस्तेनविधुराणि दुःखितानि यान्यङ्गानि तानि। ममेति शेषः । निर्वापय प्रशमिततापानि विधेहि । शार्दूलविक्रीडितं वृत्तम् ॥ ३६३॥
निर्वहणाङ्गभूतप्रशस्त्यस्वीकार एव प्रार्थनाख्यस्याङ्गस्य स्वीकार इति व्यवस्थापयति-इदमित्यादिना ।
यन्मते । निर्वहणे तदाख्यसन्धौ । भूतावसरत्वाभावात् भूतो जातोऽवसरी यस्यास्तस्या भावस्तत्त्वं' तस्याभावस्तस्मात् प्राप्ताधिकारत्वाभावादिति भावः । अभूतावसरत्वादिति पाठान्तरेऽप्ययमेवार्थः प्रशस्तिनामाङ्गम् । नास्ति । तन्मतानुसारेण । इदम् । च । प्रार्थनाख्यम् । अङ्ग गर्भसन्ध्यम् । उक्तम् । अन्यथैवमस्वीकारे । पश्चषष्टिसङ्ख्यत्वप्रसङ्गात् । अङ्गानां पञ्चषष्टिसङ्ख्याकत्वमापयेत। पञ्चषष्ठिसङ्ख्याकत्वे को दोष इत्याशङ्कचाहसम्प्रदायविरोधः । सम्प्रदायश्च 'चतुःषष्टिर्बुधैयान्येतान्यङ्गानि सन्धिषु ।' इति मुनिना निर्दिष्टः ।
क्षिप्तिं लक्षयति-४१५ रहस्यार्थस्येत्यादिना । ४१५. रहस्यार्थस्य गोप्यस्य कारणस्य । तु । उद्भेदः प्रकटनम् । क्षिप्तिः। स्यात् । उदाहरति-यथेत्यादिना।
यथा । अश्वत्थामाङ्के वेणीसंहारतृतीयेऽङ्के । “कृपः। (सोद्वेगं निःश्वस्य)-एकस्य एकवार जातस्य द्रौषदिसम्बन्धिनः दुःशासनकर्तृकस्य केशग्रहस्येत्यर्थः । तावत् । अयम् । कुरुपाण्डवसंहननरूपः । दारुणः। पाकः । फलम् । वर्तते । एकस्य विपाकोऽयमिति पाठान्तोऽप्ययमेवार्थः । द्वितीये द्वितीयवारं कृते । अस्मिन द्रोणाचार्यसम्बन्धिनि धृष्टद्युम्नकर्तृक इति भावः । केशग्रहे । सत्यर्थेय सप्तमी । नूनं निश्चितम् । प्रजाः प्राणिनः । निःशेषिताः निरवशेषत्वं गता इति भावः । अत्र हि द्रौपदीकेशनहरूपस्य रहस्यार्थस्योद्भेदः ॥ ३६४॥" - तोटकं लक्षयति-४१६ तोटकमित्यादिना ।
४१६ संरब्धवाक संरब्धस्य क्रुद्धस्य या (क्रुद्धा क्रोधविषया ) वाक् सा । पुनः । तोटकम् ।