________________
४७२
साहित्यदर्पणः।
यथाभिज्ञानशाकुन्तले 'राजा स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतःउन्नमितैकधूलतमाननमस्याः पदानि रचयन्त्याः। पुलकाञ्चितेन कथयति मय्यनुराग कपोलेन ४६१॥' ।
४१२ सङ्ग्रहः पुनः॥ ३९३ ॥
सामदानार्थसम्पत्तिः यथा रत्नावल्यां 'राजा (सपरितोषम् ) साधु वयस्य इदन्ते पारितोषिकम् । इति कटकं ददाति ।'
४१३ लिङ्गाहोऽनुमानिता। यथा जानकीराघवे नाटके "रामःलीलागतैरपि तरङ्गयतो धरित्रीमालोकनैर्नमयतो जगतां शिरांसि । तस्याऽनुमापयति काश्चनकान्तिगौरकायस्य सूर्यतनयत्वमधृष्यतां च ॥३६२॥"
४१४ रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् ॥ ३९४ ॥
उदाहरति-यथा । अभिज्ञानशाकुन्तले तृतीयेऽथे । राजा दुष्यन्तः । शकुन्तलां पश्यन्नन्तराहेति शेषः । स्थाने युक्तम् । युक्ते द्वे साम्प्रतं स्थाने'इत्यव्ययवर्गेऽमरः । खलु । विस्मृतनिमेषेण विस्मृतनिमेषोन्मीलनेनेत्यर्थः । चक्षषा दृष्टया (अत्रैकवचनं योरप्यभेदचेष्टितत्वद्योतनार्थम् ) । प्रियां शकुन्तलाम् । अवलोकयामि ।'
कोऽत्र हेतुरित्याह-यतः-पदानि मुपतिडन्तरूपाणि । रचयन्त्या अस्याः शकुन्तलाया इत्यर्थः । उन्नमितकभ्रलतं उन्नमिता उत्क्षिप्ता एका भ्रूलता यस्य तादृशम् । आननं मुखम् (कर्तृपदम् )। पुलकाञ्चितेन कण्टकितेन रोमाञ्चितेन । कपोलेन (साधने तृतीयेयम्)। मयि । अनुरागम् । कथयति । आर्या वृत्तम् अत्र हि शकुन्तला. भावस्य यथार्थतयोपलब्धिः ॥ ३६१ ॥
सङ्ग्रहं लक्षयति-४१२ सङ्ग्रह इत्यादिना।
४१२ सामदानार्थसम्पत्तिः । साम सान्स्वनम् दान चेति ताम्यामर्थसम्पत्तिः । सम्पन्न इति पाठान्तरे तु भाव को बोध्यः । पुनः । सङ्ग्रहः ॥ ३९३ ॥
उदाहरति-यथा। रत्वावल्यां तृतीयेके । राजा वत्सराजः । विदूषकं प्रत्याहेति शेषः । स्पष्टमन्यत् । अत्र हिं सागरिकायाः कुशलमुपलब्धि च सूचयितुं प्रवृत्तं वसन्तकनामानं विदूषकं प्रति कटकदानेन राज्ञोऽर्थसम्पत्तिः ।
अनुमान लक्षयति-४१३ लिङ्गादित्यादिना ।
४१३ लिङ्गात् व्याप्तिपक्षधर्मताभ्यां साधनताज्ञानात् । ऊह उहापोहब्यापकतावगमः । अनुमानितानु. सानम् । यत्तु तर्कवागीशैरनुमानतेति पाठं स्वीकृत्य ताप्रत्ययः स्वार्थ इत्युक्तं तद्धान्तिमूलं स्वार्थे ताप्रत्ययविधायकसूत्रानुपलम्भात् ।
उदाहरति-यथेत्यादिना ।
यथा जानकीराघव नानकीराघवनामक । नाटक। रामः । 'लीलागलीलया गमन: । भावे क्तः । अपि किं पुनरुदतगमनैरिति शेषः । धरित्री पृथिवीम्। तरङ्यतः कम्पयतः कम्पितां कुर्वाणस्येति यावत् । आलोकन
त भावः । जगतां लक्षणया तदन्तर्वर्तिनामित्यर्थः । शिगंसि । नमयतोऽवनतानि कुर्वाणस्येत्यर्थः । काश्चनकान्तिगौरकायस्य सुवर्णसदृशशरीरस्य । तस्य लक्ष्मणस्येत्यर्थः । सूर्यतनयत्वं सूर्यवंशभवत्वम् । अघृष्यतां धर्षणीयताशून्यत्वम् । च । अनुमापयति । अत्र वसन्ततिलकं वृत्तम् । अत्र लीलागमनदृष्टिपातप्रयुक्तधरित्रीकम्पनजगच्छिरोनमनं साधनम् ॥ ३६२॥
प्रार्थनां लक्षयति-४१४ रतिहरेत्यादिना।
४१४ रतिहषोत्सवानां रतिः रमणं च हर्षः प्रमोद आनन्द इति यावत् चोत्सवश्व तेषाम् । तु। प्रार्थनं भिक्षा । प्रार्थना । भवेत् ॥ ३९४ ॥