________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः ।
४०९ रूपं वाक्यं विकर्तवत् ॥ ३९२ ॥
४७१
यथा रत्नावल्यां "राजा....
मनश्चलं प्रकृत्यैव दुर्लक्ष्यं च तथापि मे । कामेन तत्कथं विद्धं समं सर्वैः शिलीमुखैः ॥ ३२९॥” ४१० उदाहरणमुत्कर्षयुक्तं रचनमुच्यते ।
यथाऽश्वत्थामाङ्के-
'योयः शस्त्रं बिभर्ति स्वभुजगुरुमदात्पाण्डवीनां चमूनाम् योयः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । योस्तत्कर्म्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ ३६० ॥' ४११ भावतत्त्वोपलब्धिस्तु क्रमः स्यात्
शेषः । भगवन् ! अन्यथा सम्भावितेन । अलं पर्याप्तम् । भार्थ्यातनयविक्रयात् भाय शैव्यां तनयं रोहिताश्वं च विक्रीय तन्मूल्यादिति भावः । इदम् । अर्जितं सगृहीतं धनमिति शेषः । गृह्यताम् । शेषस्य प्रतिज्ञातदानावशेषस्य । अर्थे निमित्तम् । चण्डाले चण्डालकुले । अपि । आत्मविक्रयम् । करिष्यामि । अत्र हि देयधनस्य निष्पत्तये यत् स्वानुष्ठेयं तत्सत्यमभिहितम् ॥ ३५८ ॥ '
रूपं लक्षयति-४०९ रूपमित्यादिना ।
४०९ वितर्कवत् तर्क्यमाणमिति भावः । वाक्यम् । रूपम् ॥ ४९२ ॥
उदाहरति यथा । रत्नावल्यां तृतीयेऽङ्के । 'राजा । सागारकां चिन्तयन्निति शेषः । मनः । प्रकृत्या स्वभावेन 'प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिने पौरखर्गे' इति मेदिनी । एवं चलमस्थिरम् । दुर्लक्ष्यं दुर्भेद्यम् । च । तथाऽपि पुनरपि । मे मम । एतन्मन इति शेषः । सममेकदा । सर्वैः पञ्चभिः । शिलीमुखैर्वाणैः (करणे तृतीया ) । 'अलिवाणे शिलीमुखावित्यमरः । कामेन मदनेन ( कर्त्रर्थे तृतीया) । कथम् । विद्धम् । अत्र हि नसो मदनकर्तृकवेधने वितर्कः ॥ ३५९ ॥
उदाहरणं लक्षयति-४१० उदाहरणमित्यादिना ।
४१० उत्कर्षयुक्तं खातिशयार्थम् । वचनम् । उदाहरणम् । उच्यते ।
उदाहरति-यथा । अखत्थामाङ्के तत्प्रधाने वेणीसंहारस्य तृतीयेऽङ्के अस्वत्थामा कर्ण सम्बोध्याहेति शेषः ।
'पाण्डवीनां पाण्डवसम्बन्धिनीनाम् । चमूनां सेनानाम्मध्ये । यो यः । स्वभुजगुरुमदात् स्वभुजयोर्गुरुमदतस्मात् । शस्त्रम् । बिभर्ति । पाञ्चालगोत्रे द्रुपदवंशे । योयः । शिशुः । अधिकवया अधिकं वयोवस्था यस्य तादृशः । वाऽथवा । गर्भशय्यां गर्भरूपां शय्यां गतः । यो यः । तत्कर्मसाक्षी तत्कर्मणस्तन्निहननरूपस्य धृष्टद्युम्न - कर्तृकस्य (मन्मरणस्य मृषासम्भावनया त्यक्तशस्त्रं समाहितं केशेषु प्रहृत्य ) नृशंसकार्यस्य साक्षी यः । च । यः । च । मयि अश्वत्थानि । रणे सङ्ग्रामात् । चरति सति । प्रतीपः प्रतिकूलः स्यादिति शेषः । तस्यतस्य तेषां सर्वेषामिति भावः । जगताम् | अन्तकस्यापि इति शेषः । इहास्मिन् रणक्षेत्रे अहम् । क्रोधान्धः । अन्तकोऽन्तकर्ता । स्रग्धराच्छन्दः । 'स्रग्धरा नौ नौ यौ य् त्रिः सप्तकैः' इति च तलक्षणम् ॥ ३६० ॥
क्रमं लक्षयति - ४११ भावेत्यादिना ।
४११ भावतत्त्वोपलब्धिः भावस्याभिप्रायस्य तत्त्वं यथार्थज्ञानं तस्योपलव्धिर्निष्पित्तिः । 'भावः सत्तास्वभावाभिप्रायrssत्मजन्मसु ' इति मेदिनी । तु । क्रमः । स्यात् ।