________________
५७० . साहित्यदर्पणः।
[पष्ट:अथ गर्भाङ्गानि- .
४०६ अभूताहरणं मार्गों रूपोदाहरणे क्रमः ॥ ३९० ॥
सङ्ग्रहश्चानुमानं च प्रार्थना क्षिप्तिरेव च ।
तोटकाधिबलोदेगा गर्भ स्युर्विद्रवस्तथा ॥ ३९१ ॥
४०७ तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम् । यथाश्वत्थामाङ्के"अश्वत्थामा हत इति पृथासूनुना स्वष्टमुक्तक्त्वा-स्वैरं शेषे गज इति पुनहितं सत्यवाचा। तच्छत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञःशस्त्राण्याजी नयनसलिलं चापि तुल्यं मुमोच॥३५७॥',
४०८ तत्त्वार्थकथनं मार्गः यथा चण्डकौशिके 'राजा...भगवन? अलमन्यथा सम्भावितेनगृह्यतामर्जितमिदं भार्यातनयविक्रयात् । शेषस्याथै करिस्यामि चण्डालेऽप्यात्मविक्रयम् ॥३५८॥'
एवं प्रतिमुखाङ्गानि निरूप्य गर्भाङ्गानि निरूपयितुमुपक्रमते-अथेत्यादिना । अथ । गर्भाङ्गानि गर्भस्य सन्धेरङ्गानि उच्यन्ते इति शेषः। ४०६ गर्भे तदाख्ये सन्धौ। अभूताहरणं मभुतस्याहरणम् । मार्गः। रूपोदाहरणे । रूपं चोदाहरणं चेत्यर्थः । सङ्कहः। क्रमः। च तथा। अनुमानम् । च । प्रार्थना । क्षिप्तिः । एव । च । तोटकाधिबलोढेगास्तोटकमधिबलमुद्वेगश्च । तथा। विद्रव 'इत्येते त्रयोदशाङ्गानी'ति शेषः । स्युः ॥ ३९० ॥ ३९१ ॥
क्रमादेतानि लक्षयितुं प्रवृत्तोऽभूताहरणं लक्षयति-४०७ तत्रेत्यादिना ।
४०७ तत्र तेषु त्रयोदशखङ्गेसु मध्ये इत्यर्थः । व्याजाश्रयं व्याजश्छलमाश्रयो यस्य तादृशम् । छलेनोच्चारतमिति • भावः । वाक्यम् । अभूताहरणम् । मतम्।
उदाहरति-यथा। अश्वत्थामाङ्के अश्वथामचरितप्रधाने वेणीसंहारस्य तृतीयेऽके इति भावः । . . "अश्वत्थामा। हतो नष्टः । इत्येवम् । सत्यवाचा । पृथासूनुना पृथायाः कुन्त्याः सूनुस्तेन युधिष्टिरेण । स्पष्टम् । उक्त्वा कथयित्वा। शेषेऽन्ते स्वैरं मन्दम् । 'स्वैरः स्वच्छन्दमन्दयो रिति मेदिनी। गजः । इति । व्याहृतमुचरितम् । तत्सत्यवाचा स्पष्टमुक्तमित्यर्थः । श्रुत्वा । असौ। पुनः । दयिततनयः प्रियपुत्रः । द्रोणाचार्य इत्यर्थः। तस्य सत्यवक्तयुधिष्ठिरस्येति यावत् । राज्ञः। प्रत्ययात विश्वासात् । आजौ सङ्ग्रामे। शस्त्राणि। नयनसलिलं पुत्रमरणशोकोत्थमश्रु । च । अपि । तुल्यमेककालावच्छेदेन । मुमोच । अयम्भावः-यावदश्वत्थामा तावदहं योत्स्ये इति प्रतिज्ञाय योद्धं प्रवृत्ते शत्रंश्च संहरति अश्वत्थानश्च चिरजीवित्वे तदसम्भवोऽसम्भवएवेति, अथापि सन्त्रस्ताः पाण्डवाः-'अश्वत्थामा हत'इति मुहुरुजगुः, किन्तु भगवता द्रोणेन शस्त्रण्यमोचयित्वा सर्वे यूयं मिथ्यावादिनो नाहं युष्माकं वच आददे अथ यदि युधिष्ठिर एवं वदेत्तदा विरमिष्यामि इति प्रत्युक्तास्ते अश्वत्थामानं गजं निहत्य युधिष्टिरं कथमपि तथा वक्तुं प्रोत्साहितवन्तः । राजा च सत्यवागपि च्छलेन अश्वत्थामा हत इत्युच्चैरुच्चार्यावस्थितः पाण्डवेषु च हर्षनादेन रोदसी प्रतिनादयमानेषु मन्दं स्वं सत्यवाक्त्वं साधयितुं गज इत्येवं युधिष्ठिर उच्चारितवान् । 'अश्वत्थामा गजो हत'इति वाक्यं सङ्गमयन्निव तथोवाच अजातशत्रुरिति तात्पर्य्यम् । वस्तुतस्तु तथात्वाभावात् व्याजादेवेदमुक्तमिति । मन्दाक्रान्ता छन्दस्तलक्षणं यथा-'मन्दाक्रान्ता जलधिषडगैम्भॊ नतोताद् गुरू चेदिति ॥ ३५८ ॥'
मार्ग लक्षयति-४०८ तत्त्वार्थेत्यादिना । ४०८ तत्त्वार्थकथनं यथार्थवचनं । मार्गः। उदाहरति-यथेत्यादिना। यथा । चण्डकौशिके । आर्यक्षेमीश्वरविरचितनाटके तृतीयेऽके । 'राजा हरिश्चन्द्रः । 'विश्वामित्र प्रत्याहे'ति