________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः ।
कैचित्तु 'उपपत्तिकृतो योऽर्थ उपन्यासः स कीर्तितः ।' इति वदन्ति उदाहरन्ति च तत्रैव 'विदूषकः-भो वअस्त सव्वं संहावीअदि मुहरा क्खु एसा गम्भदासी ता परितोसे हिणं ।'
४०५ चातुर्वर्योपगमनं वर्णसंहार इष्यते । यथा महावीरचरिते "परिषदियमृषीणामेषवीरो युधाजित् सह नृपतिरमात्यै रामपादश्च वृद्धः। अयमविरतयज्ञो ब्रह्मवादी पुराणः प्रभुरपि जनकानामङ्ग भो याचकस्ते ॥ ३५६ ॥", इत्यत्र ऋषिक्षत्रियादीनां वर्णानां मेलनम् ।
अभिनवगुप्तपादास्तु-वर्णशब्देन पात्राण्युपलक्ष्यन्ते तत्संहारो मेलनम्। इति व्याचक्षते । उदाहरन्ति च 'एसो एव्व मे गुरुओपसादो.. ता गदुअ एसा पसादीअ?' ! राजा कासौ दर्शय दर्शय' इत्याग्भ्य-'सुसङ्गता भट्टा अतिकोवणाखु एसा अग्गहत्थेण गेडिअ पसादे हिणं" इत्यादि ।
मतान्तरं दशयति-केचित्त्वित्यादिना ।
केचिन पुनः । 'यः । उपपत्तिकृतः उपपत्त्या कारणेन कृतः । अर्थः । सः । उपन्यासः । कीर्तितः।' इति । वदन्ति । उदाहरन्ति । च । तत्र रत्नावल्याम् । एव । 'विदूषकः । 'राजानं प्रत्याहेति शेषः । एसा एपा सुसङ्गता । गम्भदासी गर्भदासी । दास्या गर्भाजाता दासी न तु कर्मत इति भावः । स्पष्टमन्यत् ।
वर्णसंहारं लक्षयति-४०५ चातुर्वण्येति ।
४०५ चातुर्वण्र्योपगमनं चत्वार एव वर्णाश्चातुर्वण्य तस्योपगमनं समुपस्थितिः । चतुर्वादीनां स्वार्थे उपसंनव्यानमिति व्यञ् । वर्णसंहारः । इष्यते।
यथा । महावीरचरिते । तृतीयेऽङ्के । वसिष्टो जामदग्न्यं प्राह-"इयं ऋषीणां सत्यवचसां दिव्यज्ञानानामिति भावः । परिषत संभा । अथास्यां सभायाम--[षः। वीरः। युधाजित कैकेयीभ्राता । च तथा अमात्यमत्रिभिः । सह । वृद्धः । समपादस्तदाख्यः । नपतिः । अयं दशरथ इति भावः । अविरतयज्ञोऽविरतो यज्ञी यस्य स तादृशः । ब्रह्मवा वेदतत्त्वोपदेष्टा । पुराणः। जनकानाम् । प्रभुः । अपि 'अत्रत्येष' इति शयः । भो अङ्ग प्रिय ! 'अझं प्रिये प्रतीके चे'ति गोपालः । ते तव । याचकः । मालिनीच्छन्दः ॥ ३५६ ॥"
लक्ष्य सङ्गमयते-इत्यत्रेत्यादिना ।
इत्यत्र । ऋषिक्षस्त्रियादीनाम । वर्णानाम । मेलनम। ऋषयो ब्राह्मणनृपतयः क्षत्रिया अमात्याः पुनः सर्वे ज्ञानिन इति चातुर्वर्ण्य बोध्यम् ।
आचार्यान्तरमतं दर्शयति-अभिनवगुप्तपादेत्यादिना ।
अभिनवगुप्तपादाः नाट्यालोकप्रणेतारः । तु । 'वर्णशब्देन । पात्राणि । उपलक्ष्यन्ते । वर्णसंहार इत्यत्र-तत्संहारस्तेषां संहार इति । मेलनम।' इति । व्याचक्षते । एसो एषः । एव्व एव । मे मम । गुरुओ पसादो गुरुः प्रसादः । ता तद् । गदुअ गत्वा । एसा एषा । पसादीअदु प्रसाद्यताम् ।' इति सुसङ्गतावचः श्रुत्वेति शेषः । राजा 'सागरिका प्रत्याहे 'ति शेषः । असौ सागरिका । वास्तीति शेषः । दर्शयदर्शय ।' इत्यारभ्य'मुसङ्गता। भट्टाभतेः ! अतिकोवणा अतिकोपना। क्खु खलु। एसा एषा। अग्गहत्थेण अग्रहस्तेन । गेहि
।। णं एनाम् । प्रसादेहि प्रसादय ।' इत्यादि। उदाहरन्ति । च । अत्र हि सुसङ्गताया राज्ञो विदुषकस्य सागरिकायाश्चेति त्रयाणां पात्राणां सम्मेलनम् । एवं च विदूषकस्य ब्राह्मणस्य राज्ञः क्षत्त्रस्य सुसङ्गतायाः शदायाश्चेति त्रयाणामेव वर्णानामपि मेलने वर्णसंहार इति द्योतितम् ।
१ भो वयस्य ! सर्व सम्भाव्यते मुखरा (वाचाला) खल्वेषा गर्भदासी तत् परितोषयनाम् । इतिसंस्कृतम् । २ एष एव मे गुरुःप्रसादः तद्गत्वैषा प्रसाद्यताम् । ३ भर्तः ! अति कोपना खल्वेषाऽग्रहस्तेन गृहीत्वा प्रसादयनाम् ।