________________
४६८ साहित्यदर्पणः।
षष्ठः४०१ कृतस्यानुनयः पुनः ॥ ३८८ ॥ स्यात्पर्युपासनं __ यथा रत्नावल्याम् 'विदूषकः-भो मा कुप्य एसा हि कदलीघरंतरं गदा । (भो मा कु० एषा हि कदलीगृहान्तरं गता । इति संस्कृतम् )।' इत्यादि।
४०२ पुष्पं विशेषवचनं मतम् । यथा तत्रैव 'राजा (सहर्षम् ) यथाऽह भवती (सागरिका हस्ते गृहीत्वा स्पर्शसुखं नाटयति) विदूषकः-भो वअस्स एसा क्खु तुए अपुव्वा सिरी समासाहिदा (भो वयस्त एषा खलु अपूर्वा त्वया श्रीः समासादिता इति संस्कृतम्) । राजा वयस्य ! सत्यम् । श्रीरेषा पाणिरप्यस्याः पारिजातस्य पल्लवः।कुतोऽन्यथा स्रवत्येष स्वेदच्छामृतद्रवः॥३५५॥'
४०३ प्रत्यक्षनिष्ठुरं वज्रम् । यथा तत्रैव 'राजा । सुसङ्गते कथमिहस्थोऽहं भवत्या ज्ञातः । सुसङ्गता । ण केन्चलं देवो, चिनफलएण समं सव्वो वि वुत्तंतो मए विण्णादो ता देवीए गंदुअ णिवेदइस्सं । (न केवलं देवः, चित्रफकेन समं सर्वोऽपि वृत्तान्तो मया विज्ञातः तद्देव्यै गत्वा निवेदयिष्ये । इति संस्कृतम् )
४०४ उपन्यासः प्रसादनम् ॥ ३८९ ॥ यथा तत्रैव 'सुसङ्गता-भट्टण ! अलं संकाए मया वि भट्टिणो पसाएण कीलिदं जेव्व ता किं कण्णाहरणेन पसाओ जं कीस तुए एत्थ अहं आलिंहिदेत्ति कुविदा मे पिअसही सारिआ चिट्ठदि ता गदुअ एसा पसादीअदु।' भर्तः। अलं शङ्कया मयाऽपि भर्नुः प्रसादेन क्रीडितमेव तत् किं कर्णाभरणेन एष मे गुरुप्रसादः, यत् कथं त्वयाऽत्र (चित्रफलके) अहमालिखितेति कुपिता मे प्रियसखी सागरिका तदत्वैषा प्रसाद्यताम् । इति संस्कृतम् ।
पर्युपासन लक्षयति-४०१ कृतम्य 'अपराधस्येति शेषः । अनुनयः समापनम् । पुनः । पयुवासनम् । स्यात् ॥ ३८८॥
उदाहरति-यथेत्यादिना । स्पष्टम् । अत्र हि सागरिकाऽपयापनापराधस्य क्षमापणम् ।
पुष्प लक्षयति ४०२ विशेषवचनं विशेषस्यानुरागस्याद्यात्मकबीजोद्भावकत्वरूपस्योत्कर्षस्य वचनम् । पुष्पम् । मतम् ।
उदाहरति-यथा। तत्र रत्नावल्याम् । एव । “राजा (सहर्षम् ) 'सुसङ्गतां प्रत्याहेति शेषः।यथाभवती सुसज्ञता । आह । सागरिकायाः यादृशाः गुणा अभिहितास्तादृशा एवास्यामुपलभ्यन्ते इति भावः । स्पष्टमन्यत् । विदूषकः 'राजानं प्रत्याहे ति शेषः । भो । वअस्स वयस्य । एसा एषा सागारका । क्खु तुप खलु स्वया । अपव्वा सिरी अपूर्वा श्रीः । समासाहिदा समासादिता । राजा । वयस्य। सत्यम् । . एषा सागरिका । श्रीलक्ष्मीः । अस्याः । पाणिः । अपि । पारिजातस्य देववृक्षविशेषस्य । पल्लवः कोमलपत्रम् । अन्यथा तथाऽस्वीकारे । एषः । स्वेदच्छामृतद्रवः' स्वेदश्छद्म यस्य तादृशोऽमृतद्रवः । कुतः । स्त्रवति । अत्र हि रत्नावल्यामनुरागरूपस्य बीजस्य रत्नावल्याः श्रीत्वाद्यभिधानेन विशेषोऽभिहितः ॥ ३५५॥"
वज्रं लक्षयति-४०३ प्रत्यक्षनिष्ठुरमित्यादिना । स्पष्टम् ।
यथा । तत्र रत्नावल्याम्। एव । राजा । 'सुसङ्गतां प्रत्याहेति शेषः । स्पष्टम् । सुसता 'राजानं प्रत्याहे'ति शेषः। ण न। केबलं केवलम् । देवो भवानिति यावत् । किन्तु-चित्तपलपण चित्रफलकेना सागरिका तत्रभवतो'रिति शेषः । समम् । सव्वो रत्नावल्यां देवस्यानुरागादिरूपः । वि अपि । वुत्तंतो वृत्तान्तः । विण्णादो विज्ञातः । ता तत् । गदुअ गत्वा । देवीए देव्यै वासवदत्तायै इति यावत् । णिव्वेदइस्सं निवेदयिष्ये ।' अत्र हि सुसङ्गताया वत्सराजं प्रति प्रत्यक्षं प्रतिकूल वचनम् ।
उपाय लक्षयति-४०४ प्रसादनं प्रसन्नता प्रत्यानयनम् । उपन्यासः॥ ३८९ ॥
यथा। तत्र रत्नावल्याम् । एव । 'सुसङ्गता ( राजानं प्रत्याह )। भट्टुण भतः ! संकाए शङ्कया देव्यै वासवदत्तायै ममानुराग सूचयिष्यतीयमिति भीत्येति भावः । अलम् । स्पष्टमन्यत् । वत्सराजस्य चित्र पश्यन्त्याः सागरिकाया हस्तादाच्छिद्य तत्समीपे राज्ञश्चित्रं सुसङ्गतया लिखितमिति कुपितेति पूर्वतः प्रसक्तमप्यत्रावधेयम् ।