________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
४६७
यथा रत्नावल्यां "सुसङ्गता सहि जस्स किदे तुमं आअदा सो अयं दे पुग्दो चिट्ठदि । सागरिका ( साभ्यसूयम् ) कस्स किदे अहं आअदा । सुसङ्गता-अलं अण्णसंकिदेण णं चित्तलअस्स ( सखि यस्य कृते त्वमागता सोऽयं ते पुरतस्तिष्ठति । कस्य कृतेऽहमागता । अलमन्यशङ्कितेन, ननु चित्रफलकस्य ) ।
३९८ द्युतिस्तु परिहासजा ॥ ३८७ ॥
नर्मद्युतिः
यथा तत्रैव 'सुसङ्गता- सहि, अदक्खिणा दाणिं, खि, तुमं जा एव्वं भट्टिणा हत्थावलम्विदा वि कोण मुञ्चसि । ( सखि अदक्षिणा इदानीमसि त्वं, या एवं भर्त्रा हस्तावलम्बिताऽपि कोपं न मुञ्चसि ) सागरिका ( सभ्रूभङ्गमीषद्विहस्य ) सुसङ्गदे ! दाणिं वि कीडिदं ण विरमसि ( सुखङ्गते ) इदानीमपि क्रीडितं न विरमयसि ) । केचित्तु दोषस्याच्छादनं हास्यं नर्मद्युति' रिति वदन्ति । ३९९ प्रगमनं वाक्यं स्यादुत्तरोत्तरम् ।
यथा विक्रमोर्वश्याम्, 'उर्वशी - जअदु जअदु महाराओ ( जयतु जयतु महाराजः ) राजा• या नाम जितं यस्य त्वया जय उदीर्यते । जयशब्दः सहस्राक्षादागतः पुरुषान्तरम् ॥ ३५४ ॥' ४०० विरोधो व्यसनप्राप्तिः
यथा चण्डकौशिके, “राजा - नूनम समीक्ष्यकारिणा मयाऽन्धेनेव स्फुरच्छिखाकलापो ज्वलनः 'पद्भ्यां समाक्रान्तः । इति ।
'उदाहरति यथा । रत्नावल्याम् । 'सुसंगता 'रत्नावलीं प्रत्याहे 'ति शेषः । हे सहि सखि । जस्स यस्य । किदे कृते प्रसादनायेति यावत् । तुमं त्वम् । आअदा आगता । सो सः । अयं वत्सराज इत्यर्थः ।
नया इति भावः । पुरदो पुरतः । चिट्ठदि तिष्ठति । सागरिका रत्नावली 'सुसङ्गतां प्रत्या हे 'ति शेषः । साभ्यसूयम् ) कस्स कस्य । किदे कृते । अहं अहम् आअदा आगता | सुसंगता 'उत्तरयती 'ति शेषः । अण्णसंकिदेण अन्यशङ्कितेनान्य ( सपत्न्यादि ) - शङ्कयेति यावत् । अलं अलं पर्याप्तमिति यावत् । णं ननु । चित्तपलअस्त चित्रफलकस्य । इदं केवलं नर्मवचः नायकार्थागमनस्यापवनात् । इति लक्षणसमन्वयः ।
नर्मद्युतिं लक्षयति- ३९८ परिहासजा परिहासकृता । ह्यतिः शोभा । तु । नर्मद्युतिः ॥ ३८७ ॥
उदाहरति - यथा । तत्र तस्यां रत्नावल्याम् । अदक्खिणाऽदक्षिणा मूढेति यावत् । दाणिं इदानीं परसङ्कटावसरे इति यावत् । स्पष्टमन्यत् ।
भरतानुयायिनाम्मतं दर्शयति केचित् 'दोषप्रच्छादनार्थन्तु नर्मद्युतिरिति स्मृतम् ।' इति भरतमतानुमन्तारः । तु । स्पष्टमन्यत् । एतन्मते - उदाहरणं तु यथा रत्नावल्याम् 'विदूषकः ण किदो कहं पसादो, ज अजबि अक्खदसरीरा चिह्न ( न कृतः कथं प्रसादः, यदद्यापि अक्षतशरीरास्तिष्ठामः )' इति ।
प्रगममनं लक्षयति-३९९ उत्तरोत्तरमुत्तरादुत्कृष्टादुत्तरमत्कृष्टम् । वाक्यम् । प्रगमनं तदाख्यं सन्ध्यङ्गम् । उदाहरति यथेत्यादिना । स्पष्टम् । अत्र उर्वश्या उक्तय क्षया पुरूरवस उक्तिरुत्कृष्टा ॥ ३५४ ॥ विरोध लक्षयति - ४०० व्यसनप्राप्तिर्यतो व्यसनं स्यात् सः । विरोधः ।
उदाहरति- यथा । चण्डकौशिके । राजा हरिश्चन्द्रः । ' अन्तः शोचती 'ति शेषः । नूनं निश्चितम् । असमीक्ष्यकारिणा कर्तव्याकर्त्तव्यमसमीक्ष्य तत्कर्त्रा । मया । अन्धेनेव । स्फुरच्छिखाकलापः स्फुरन् जाज्वल्यमानः शिखाकलापो ज्वालापुञ्जो यस्य तथोक्तः । ज्वलनोऽग्निस्तद्रूपः कौशिको मुनिः । पद्भयां चरणाभ्यां तद्रूपेणातिथ्येन । समाक्रान्तो दलितः तथाऽङ्गीकृत इति यावत् । प्रज्वलतोऽमेः पद्भयामाक्रमणमित्र मयाऽऽतिथ्येनाभ्यर्थितः कौशिक इति भावः । स्फुटाऽत्र तथा व्यसनप्राप्तिः ।