________________
४६६
साहित्यदर्पणः।
अभ्युनता पुरस्तादवगाढा जघनगौरवात् पश्चात् ।
द्वारेऽस्य पाण्डुसिकत पदपतिदृश्यतेऽभिनवा ॥ ३५३ ॥"
३९५ कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ॥ ३८६ ॥ यथा तत्रैव "शकुन्तला-हला अलं वो अंतउरविरहपज्जुस्सुएण राएसिण उवरुद्धेणे।” केचित्तु 'विधुतं स्यादरति'रिति वदन्ति ।
३९६ उपायादर्शनं यच्च तपनं नाम तद्भवेत् । यथारत्नावल्यां"सागरिका...
दुल्लहजणाणुराओ लज्जा गुरुई परअसो अप्पा। पिअसहि ! विसमं पेम्म मरणं सरणं णवरि एवं ॥ ३५४॥"
३९७ परिहासवचो नर्म "पुरस्तात् पादाग्रभागे। अभ्युनता। शकुन्तलायाः-पश्चात पाणिभागे । जघनगौरवान्नितम्बभारात्"जघनं कटौ । स्त्रियः श्रोणिपुरोभागे" इति हैमः । अवगाढा निम्ना । अस्य लतामण्डपस्य । पाण्डसिकते पाण्डः सिकता यत्र तादृशे द्वारे। अभिनवा । पदपक्तिः । दृश्यते । अतोऽत्र शकुन्तलाया अन्वेषणम् । आर्याछन्दः ॥३५३॥"
विधुतं लक्षयति-३९५ कृतस्येत्यादिना। ३९५ बिधुतम् । तु पुनः । आदौ प्रथमम् । कृतस्य । अनुनयस्य । अपरिग्रहः ॥ ३८६ ॥
उदाहरति-यथा। तत्राभिज्ञानशाकुन्तले। एव । “शकुन्तला प्रियंवदा प्रत्याह-हला सखि! 'हण्डे हजे हलाह्याने नीचा चेटी सखी प्रति' इत्यमरः । अंतेउरविरहपजसुएणा अन्तः पुरविरहपर्यत्सुकेन अन्तपुरविरहोत्कण्ठितेन । उवरुद्धण उपरुद्धेनाग्रहेण सन्निधापितेनेति यावत् । राएसिणा राजर्षिणा। अलम्। वो पुष्माकमिति यावत्॥३५४॥"
अत्र परमतं दर्शयति-केचित्त्वित्यादिना।
केचित् दशरूपकारादयः । 'अरतिर्वैरस्यम् । विधुतम् । स्यात् ।' इति । वदन्ति । तत्कृतस्यानुनयस्यादौ परिग्रह' इति मुनिवचनविरोधादुपहेयमिति शेषः ।
तपनं लक्षयति-३९६ उपायेत्यादिना । ३९६ यत् । च । उपायादर्शनमुपायाभावः । तत् । तंपनम् नाम । भवेत् । उदाहरति- यथारत्नावल्याम् । द्वितीयेऽङ्के । “सागरिका । 'सुसङ्गतां प्रत्याहेति शेषः ।
दलहजणणुराओ दुर्लभजनानुरागो । वत्सराजे ममानुरागः स च दुर्लभ इति भावः । लज्जा । गुरुई गुवी। अतः-अप्पा आत्मा। परवसो परवशः । लज्जाऽतिशयेन स्वयमपि स्वात्मानं समर्पयितुं न शक्नोमीति भाषः। पिअसहि प्रियसखि ! विसमं विषमम् । अननुरक्ते तत्रानुरक्तत्वान्मम वा दीनत्वात्तस्य च राजेन्द्रत्वादसमानभूमिकमिति यावत् । पेम्मं प्रेम । एवं सति एवं एकम् । णवरि केवलम् । मरणं । सरणं शरणम् । मरणमन्तरा नेदं दुःखं निवर्त्यते इति भावः । आया॑वृत्तम् । अत्र हि स्फुटं सागरिकाया अन्तःसन्तप्तत्वम् । अत्रेदम्बोध्यम्-येषां मते अरतेः शमनाच्छमस्तन्मते "असंशयं क्षत्रपरिप्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरफप्रवृत्तयः ॥” इत्यभिज्ञानशाकुन्तलीयं पद्यमुदाहरणीयम् । दुष्यन्तस्य शकुन्तलायां मुनिदुहितृत्वेन रतरुपशमः । इति ॥ ३५४ ॥
नर्म लक्षयति-३९७ परिहासेत्यादिना । स्पष्टम् । 'हला अलं वोऽन्तः पुरविरहपर्युत्सुकेन राजर्षिणोपरुद्धेने ति संस्कृतम् । दलभजनानुरागो लजा गुवीं परवश आत्मा। प्रियसखि! विषम प्रेम मरणं शरणं केवलमैक'मिति संस्कृतम् ।