________________
परिच्छदः ]
रुचिराख्यया व्याख्यया समेतः। अथ प्रतिमुखाङ्गानि३९२ विलासः परिसर्पश्च विधुतं तपनं तया ॥ ३८३ ॥
नर्म नर्मद्युतिश्चैव तथा प्रगमनं पुनः । विरोधश्च प्रतिमुखे तथा स्थात्पर्युपासनम् ॥ ३८४ ॥
पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि । तत्र
३९३ समीहा रतिभोगार्थी विलास इति कीर्तितः ॥ ३८५ ॥ रतिलक्षणस्य भावस्य यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः। यथाऽभिज्ञानशाकुन्तले
"कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ ३५२ ॥"
३९४ इष्टनष्टानुसरणं परिसर्पश्च कथ्यते ।। यथाऽभिज्ञानशाकुन्तले 'राजा...अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे सन्निहितया तया भवितव्यम् । तथा हि-(अधो विलोक्य)
उदाहरति-यथेत्यादिना । इदानी मुखसन्धेरङ्गानि दर्शयित्वा प्रतिमुखसन्धेरशान्यभिधातुं प्रतिजानीते-अथेत्यादिना । अथ । प्रतिमुखाङ्गानि प्रतिमुखस्य सन्धेरङ्गानि । उच्यन्ते इति शेषः । ३९२ विलास इत्यादिना । ३९२ प्रतिमुखे विलासादयस्त्रयोदशाङ्गानि सम्भवन्तीति वर्तुलार्थः स्पष्टः ॥ ३८३ ॥ ३८४ ॥ क्रमाद्विलासादीलक्षयितुमुपक्रमते-तत्रेत्यादिना । तत्र तेषु । विलासो लक्ष्यते इति शेषः । ३९३ समीहा इत्यादिना ।
३९३ समीहा। रतिभोगार्था रतिभोगायेयमिति तथोक्ता । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्य. मिति नित्यसमासः । विलासः। इति । कीर्तितः॥ ३८५॥
तदेव विवृणोति-रतिलक्षणस्येत्यादिना ।. रतिलक्षणस्य रतिर्मनोनुकूलेऽर्थे मनसः प्रवणायितमित्यस्य । स्पष्टमन्यत् । उदाहरति-यथेत्यादिना । यथा । अभिज्ञानशाकुन्तले 'द्वितीयेऽक राजा' इति शेषः ।
"काममत्यन्तं सेति शेषः । प्रिया । न सलभा । मनः। तु पुनः । तद्भावदर्शनायासि तस्याः शकुन्तलाया भावदर्शने सव्याजमवलोकनादिना अभिप्रायावेदने आयासि तत्परम् । तद्भावदर्शनाश्वासीति पाठे तु तस्या भावः सव्याजमवलोकनादिनाऽऽवेद्यमानो मण्यनुरागावेदनार्थ इङ्गितविशेषस्तस्य दर्शनं ज्ञानं तेनाश्वासीत्यर्थः । 'दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु' इति मेदिनी । तथा हि मनसिजे कामे । अकृतार्थे भोग्यालाभादसम्पन्नकार्य। अपि । उभ. यप्रार्थना उभयोर्मम तस्याश्रान्योन्यं प्रार्थना । तिम् । कुरुते । आर्या वृत्तम् ॥ ३५२ ॥"
परिसर्प लक्षयति-३८४ इष्टेत्यादिना । ३८४ इष्टनष्टानुसरणं इष्टं यत्नष्टमष्टं तस्यानुसरणमन्वेषणम् । च। परिसर्पः। कथ्यते ।
उदाहरति-यथा । अभिज्ञानशाकुन्तले तृतीयेऽङ्के इति शेषः । 'राजा (परिक्रम्यावलोक्य ) अस्मिन वे. तसपरिक्षिप्ते । लतामण्डपे । तया शकुन्तलया। सन्निहितयाऽवस्थितया । भवितव्यम् । तथा हि (अधो विलोक्य)
५९