________________
४६४
साहित्यदर्पणः ।
•
[ षष्टः
३८९ बीजार्थस्य प्ररोहः स्यादुद्भेदः
यथा तत्रैव 'द्रौपदी अण्णञ्च णाह ! पुणोवि तुम्हे हिं समरादो आभच्छिभ अहं समासासइदव्वो ।" भीमसेनः । ननु पाञ्चालराजतनये ! किमद्यालीकाश्वाखनया
"भूयः परिभवक्लान्तिलज्जाविधुरिताननम् अनिःशेषित कौरव्यं न पश्यसि वृकोदरम् ॥ ३५१ ॥ " ३९० करणं पुनः ॥ ३८२ ॥ प्रकृतार्थसमारम्भः
यथा तत्रैव भीमसेनः । ' तत् पाञ्चालि ! गच्छामो वयमिदानीं कुरुकुलक्षयाय' । ३९१ भेदः संहतभेदनम् ।
यथा तत्रैव " भीमसेनः । एवमिदम्, अत एवाहमद्यप्रभृति भिन्नो भवद्भयः" इति । केचि 'द्भेदः प्रोत्साहने' ति वदन्ति ।
उद्भेदं लक्षयति-३८९ बीजार्थस्य मुख्यप्रयोजनस्य । प्ररोहः सिद्धयमानत्वम् । उद्भेदः । स्यात् ।
उदाहरति-यथा । तत्र वेणीसंहारे । एव । 'द्रौपदी' भीमं प्रत्याहे 'ति शेषः । णाह नाथ ! अण्णञ्च अन्यच्च 'वक्तव्य' मिति शेषः । पुणोवि पुनरपि । तुझेहिं त्वया । समरादो समरतः सङ्ग्रामभूमेरिति यावत् । आअच्छिभ आगत्य | अहं अहम् । समासासइदव्वा समाश्वासयितव्या तेषां संहननवृत्तान्त निवेदनामृत सिञ्चनेन सञ्जीवनीयेति यावत् । भीमसेनः 'द्रौपदीं प्रत्याहे 'ति शेषः । ननु । पाञ्चालराजतनये पाञ्चालदेशस्य राजा द्रुपदस्तस्य तनयेति तत्सम्बुद्धौ तथोक्त ! किम् । अद्य । अलीकाश्वासनया व्यर्थया आश्वासनया तावदकृत कार्यत्वादलीकत्वमा - वासनाया इति बोध्यम् । किन्तु -
परिभवक्कान्ति लज्जाविधुरिताननं परिभवस्तिरस्कारस्तेन क्लान्तिः हर्षक्षयस्तेनलज्जा तया विधुरितं विच्छाय माननं यस्य तम् । अनिःशेषित कौरव्यं न निःशेषिता मारिताः कौरव्या दुर्योधनादयो येन तम् । 'कुरुनादिभ्यो व्यः ।' ४ । १ । १७२ इति ण्यः । वृकोदरम् । न । पश्यसि द्रक्ष्यसि। 'वर्तमानसामीप्ये वर्तमानवद्वा' ३ । ३ । १३१ इति लट् । अत्र हि कुरुविनाशनार्थस्य प्ररोहः ॥ ३५१ ॥
करणं लक्षयति- ३९० प्रकृतार्थसमारम्भः प्रकृतार्थस्य प्रस्तुतस्य कार्यस्य समारम्भः सम्यगापादनम् । पुनः । करणम् । 'मत' मिति शेषः ॥ ३८२ ॥
उदाहरति यथा । तत्र तस्मिन् वेणीसंहारे । एव । " भीमसेनः " 'द्रौपदीम्प्रत्याहे 'ति शेषः । तत् यदेतत्कर्तव्यं तस्मात् कारणात् । हे पाञ्चालि पञ्चालराजपुत्रि ! इदानीम् । वयं 'वीरा' इति शेषः । कुरुकुलक्षयाय कुरुक्षयं कर्तुम् [ तुमर्थे चतुर्थीयम् ] गच्छामः समराङ्गणे प्रविशाम इति भावः ।
भेदं लक्षयति- ३९१ संहतभेदनं संहतानां सम्मिल्य किञ्चित् कार्ये कर्ते प्रवृत्तानामिति यावत् भेदनं द्वैधी करणम् । भेदः ।
उदाहरति यथा । तत्र तस्मिन् वेणीसंहारे । एव । भीमसेनः 'सहदेवादीन् प्रत्याहे 'ति शेषः । एवमिदम् । यथा ब्रूथ तथैवास्ति । अत एव । अहम् | अद्यप्रभृति अवारभ्य । भवद्भयो भवत उपेक्ष्य । भिन्नः पृथक्तया प्रवृत्तो भवामीति भावः ।
परेषां मतं निर्दिशति केचित् दशरूपकारादयः । 'प्रोत्साहनोत्साहं प्रत्यानयनम् । भेदः । इति । वदन्ति । एतन्मते - " अन्योन्यास्फाल भिन्नद्विपरुधिरवसासान्द्रमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ । स्फीता. सृकपानगोष्ठी रसद शिवशिवा तूर्यनृत्यत्कबन्धे सङ्ग्रामैकार्णवान्तः पयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ इत्युदाहरणं बोध्यम् ।
१ अन्यच्च नाथ ! पुनरपि त्वया समरत आगत्याहं समाश्वासयितव्या ॥ इति संस्कृतम् ।