________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
४६३ इत्यत्र “स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः" इत्यादिवीजस्य प्रधाननायकाभिमतत्वेन सम्यगाहितत्वात् समाधानम् ।
३८७ सुखदुःखकृतो योऽर्थस्तद्विधानमिति स्मृतम् ॥ ३८१ ॥ यथा बालचारते 'परशुरामःउत्साहातिशय वत्स ! तव बाल्यं च पश्यतः । मम हर्षविषादाभ्यामाकान्तं युगपन्मनः ॥ ३४९ ॥' . यथा वा, मम प्रभावत्याम्,-.
" नयनयुगासेचनकं मानसवृत्त्याऽपि दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥ ३५०॥"
३८८ कुतूहलोत्तरा वाचः प्रोक्ता तु परिभावना । यथा वेण्यां-द्रौपदी 'युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरम् ।
'णाह ! किं दाणी एसो पलअजलहरघणथणिदमंसलो क्खणेक्खणे चंडघोसो समरदुन्दुही ताडीअदि।'
इत्यत्र "स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः" इत्यादिवीजस्य भीमसेनोत्साहबीजस्य। प्रधान नायकाभिमतत्वेन प्रधाननायकस्य युधिष्ठिरस्याभिमतत्वं तेन । सम्यक् । आहितत्वात् स्थापितत्वात् । समा• धानम् ।
विधानं लक्षयति-३८७ यः। सुखदुःखकृतः सुखदुःखाम्यां कृतो मिश्रितः। अर्थः। तत् । विधानम्।इति । स्मृतम् ॥ ३८१ ॥
उदाहरति- यथा । बालचरिते बालस्य रामचन्द्रस्य चरितं बाल्यं नाटयम् इति यावत्, तत्र तत्प्रधाने कस्मिश्चिद् रूपके । 'परशुरामः "रामचन्द्रं प्रत्याहे"ति शेषः। वत्स! तव। उत्साहातिशयं मयाऽपि समं योद्धं हर्षस्यातिशयस्तम् । बाल्यम् चापश्यतः। मम । मनः। हर्षविषादाभ्याम्। युगपत्। आक्रान्तं योद्धुं तवोत्साहं पश्यतो ममान्तहर्षः, बाल्येनाज्ञात्वैव पतङ्गस्येवाग्नौ मम परशौ जीवितं त्यक्तं तव प्रवृत्तिं पश्यतो मम विषादश्चेति भावः ॥३४९॥'
उदाहरणान्तरं दशयति,-यथा । वा । मम। प्रभावत्यां प्रभावतीनामिकायां नाटिकायाम् । 'नयनयुगासेचनकम् ( इति व्याख्यातपूर्वम् ) उदाहरणान्तरं निर्दिशति-अत्र हि रूपस्य मनोहरतया हर्षांधायकत्वं मदनोद्दीपकतया च विषादाधायकत्वं चेति लक्षणसमन्वयः ॥ ३५० ॥'
परिभावनां लक्षयति-३८८ कुतूहलोतराः कुतूहलमौत्सुक्यमुत्तरस्मिन् यासां ताः । वाचः । वचनानि । तु। परिभावना । तन्नाममुखसन्धेरङ्गम् । प्रोक्ता।
___ उदाहरति-यथा । वेण्या वेणीसंहारे । 'युद्धम् । स्यात् । न । वा।' इति । संशयाना संशयं कुर्वाणा । द्रौपदी । तूर्यशब्दानन्तरं तूर्यवाद्यस्य शब्दश्रवणानन्तरं तूर्येत्यत्र दुन्दुभीति सुपाठः । 'णाह नाथ । किंदाणी - ‘किमिदानीम् । एसो एषः। पलअजलहरघणस्थणिदमंसलो प्रलयजलधरघनस्तनितमांसलः । प्रलये ये
जलधरा मेघास्तेषां घनं यत्स्तनितं गर्जितशब्दस्तद्वन्मांसलः पुष्टः । चण्डघोसो चण्डघोषः । तन्नामेतिभावः । समर. दुन्दुही समरदुन्दुभिः । क्खणेक्खणे क्षणेक्षणे । ताडीअदि ताडयते ('घनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । नामुस्ताब्दौघदाढथेषु' इति मेदिनी। 'स्तनितं गर्जितं मेघनिर्घोषो रसितादि चे'त्यमरः) । अत्र हि द्रौपद्या झटिति समरौत्सुक्यार्था वाचः ।
. १ 'नाथ । किमिदानीमेष प्रलयजलधिघनस्तनितमांसलः क्षणेक्षणे चण्डघोषः समरदुन्दुभिस्ताडयते ।' इति संस्कृतम्।