________________
४६२ साहित्यदर्पणः।
[ षष्ठ:यथा तत्रैव__ "मथ्नामि कौरवशतं समरे न कोपाद्दुःशासनस्य रुधिर न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु नृपतिर्भवतां पणेन ॥३४८॥" इति श्रुत्वा द्रौपदी (सहर्षम्) जनान्तिकम्-“णाह ! अस्सुदपूवं क्खु दे एदिसं वअणं ता पुणोपुणो दाव भणादि।"
३८६ बीजस्यागमनं यच्च तत्समाधानमुच्यते ।' यथा तत्रैव "( नेपथ्ये कलकलानन्तरम् ) भोभो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयः ! अस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः ।
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपीहितं शमवता शान्ति कुलस्येच्छता । तद् द्यूतारणिसम्भृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥३४९॥"
उदाहरति-यथेत्यादिना।
यथा । तब वेणीसंहारे । एव 'मथ्नामीति'व्याख्यातपूर्वम्॥३४८॥इति । श्रुत्वा भीमप्रतिज्ञावचनमाकर्ण्य । द्रौपदी ( सहर्षम) जनान्तिक । सर्वेषां समक्षमिति भावः । 'अन्योऽन्यामन्त्रणं यत्स्यात्तजनान्ते जनान्तिक'मिति भरतः । “णाह। नाथ! दे तव । एदिसं ईदृशम् । वअणं वचनम् । अस्सुदपूव्वं अश्रुतपूर्वम् । क्खु खलु। ता तस्मात् । पुणोपुणो पुनःपुनः । दाव तावत् । भणाहि भण ।" अत्र हि भीमस्य वचनाकर्णनाद् द्रौपद्याः सुखागमः ।
समाधानं लक्षयति-३८६ बीजस्येयादिना ।
३८६ यत् । च । त्विति पाठान्तरम् । बीजस्य प्रधानकरणस्य । आगमनं प्रधानतया कीर्तनम् । तत् । समाधानम् । उच्यते ।
उदाहरति-यथेत्यादिना ।
यथा। तत्र वेणीसंहारे । एव । “(नेपथ्ये कलकलानन्तरम्) भोभोः सम्भ्रमे द्विरुक्तिः । अस्मदसौ. हिणीपतयः अस्माकं पाण्डवानामक्षौहिण्यः सेनाविशेषास्तेषां पतयः ! दुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयः दुपदश्च विराटश्च वृष्णयश्च अन्धकाश्च सहदेवप्रभृतयश्चति तत्सम्बुद्धौ तथोक्ताः! वृष्णयो वृष्णिवंश्या अन्धका अन्धकवंश्या इति लक्ष्योऽर्थः । अन्यत्स्पष्टम् । च तथा । कौरवचमूप्रधानयोधाः कौरवाणां चम्वः सेनाविशेषास्तेषां प्रधानाः प्रधानभूता योद्धार इति तत्सम्बुद्धौ तथोक्ताः ! एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । पत्त्यझै स्त्रिगुणः सर्वैः क्रमादाख्या यथोत्तरम् । सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी'त्यमरः । भवन्तः। शृण्वन्तु । सत्यव्रतभङ्गभीरुमनसा सत्यमवश्यमनुष्ठेयं यद्रत नियमस्तस्य द्वादशाब्दान्तं वने न्यूष्य पुनरेकाब्दं यत्र क्वाप्यज्ञाता नियत्स्याम इत्यात्मिकायाः प्रतिज्ञाया इति भावः भङ्गस्तेन भीरु भीतं मनो यस्य तेन। 'मयेति शेषः । यत्नेन । यत् । मन्दीकृतम्। तत् । द्यतारणिसम्भृतं द्यूतमेवारणिरग्न्युद्भावनदारु तेन सम्भृतमुत्पाद्य प्रत्यक्षतां नीतम् । नृपसुताकेशाम्बराकर्षणे नृपो द्रुपदराजस्तस्य या सुता तस्याः केशाश्चाम्बरं च तेषामकर्षणानि तैः । महत्प्रदीप्तमिति भावः । इदम् । यौधिष्ठिरं युधिष्ठिरस्य (मम ) इदमिति तथोक्तम् । क्रोधज्योतिः क्रोधाग्निज्वाला । कुरुवने 'कुरुकुले' इति पाठान्तरम् । जम्भते । अत्र शार्दूलविक्रीडितं वृत्तम् ॥३४९॥” .
१ "नाथ अश्रुतपूर्व खलु ते ईदृशं वचन तत्पुनः पुनर्मण ।” इति संस्कृतम् ।