________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः । यत्नु भभिज्ञानशाकुन्तलादिषु
"ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः । पश्चार्धेन प्रविष्टः शरपतनभयाद्र्यसा पूर्वकायम् ॥ दभैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा ।
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुप्रयाति ॥३४६॥" इत्यादिमृगादिगुणवर्णनं, 'तद्धीजार्थसम्बन्धाभावान्न सन्ध्यङ्गम् । एवमङ्गान्तराणामप्यूह्यम् ।
३८४ सम्प्रधारणमर्थानां युक्तिः यथा वेणीसंहारे सहदेवो भीमं प्रति-'आर्य किं महाराजस्य सन्देशोऽयमार्येणाव्युत्पन्न इव गृहीतः।' इत्यतः प्रभृति
“युष्मान हेपयति क्रोधाल्लोके शत्रुकुलक्षयः । न लजयति दाराणांसभायां केशकर्षणम्॥३४७॥' इति भीमवचनं यावत् ।
३८५ प्राप्तिः सुखागमः ॥ ३८०॥ .
भ्रमापनोदायाह-यत् । अभिज्ञानशाकुन्तलादिषु-"अनुपतति पश्चादाधावनं कुर्वाणे । स्यन्दने रथे । प्रीवाभङ्गाभिरामं ग्रीवाया भङ्गः किञ्चिद्वक्रीकरण- तेनाभिरामो यस्मिन्कर्मणि तद्यथा भवेत्तथा । मुहः । बद्धदृष्टिदत्तनेत्रः । पूर्वकायम् । शरणतनभयात् शरपातजनितभीत्या । भूयसाऽधिकेन । पश्चार्धन अर्धेझेन । प्रविष्टः । अर्घावलीद्वैरर्धभक्षितैः। श्रमविवृतमुखभ्रंशभिः श्रमेण धावनायासेन विवृतं व्यात्तं यन्मुखंतस्मा इस्यन्तीति तथोक्तैः। भैः। कीर्णवमी कीर्णमितस्ततो दर्भक्षेपेण व्याप्तिं नीतं वर्त्म मार्गो येन तथोक्तः । उदग्रप्लुतत्वादुद्ग्रमुत्कटं प्लुतस्तस्य भावस्तत्त्वं तस्मात् । वियति आकाशे। बहतरमत्यधिकम् । उया पृथ्वीतले । पुनरिति शेषः। 'वसुधोर्वी
T' इत्यमरः । स्तोकमल्पम् । 'स्तोकाल्पक्षल्लकाः श्लक्ष्ण' मित्यमरः । मृग इति पूर्वतोऽनुषज्यते । प्रयाति । पश्य । “सूत ! दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि" इत्युक्त्वा मृगधावनं दर्शयतो महाराजदुष्यन्तस्य सूतं प्रत्युक्तिरियम् । स्रग्धरावृत्तम् । स्रग्धरा म्रौ नौ यो य त्रिःसप्तकौरति तल्लक्षणम् ॥३४६॥ ___ इत्यादिमृगादिगुणवर्णनमित्यादिना मृगादीनां गुणवर्णनम् । तदीजार्थसम्बन्धाभावात्तद्दजार्थस्य मुख्यार्थस्य सम्बन्धस्तस्यभावस्तस्मात् । सन्ध्यङ्गम् । न । ज्ञेयमिति शेषः । एवं यथा नेदं विलोभनसन्ध्यङ्गं तथेति भावः । अङ्गान्तराणामन्येषां सन्ध्यङ्गानामिति भावः । अपि । ऊह्यम् ।
युक्तिं लक्षयति-३५० सम्प्रधारणमित्यादिना।। ३५० अर्थानां सन्दर्भप्रयोजनानाम् । सम्प्रधारणं कर्तव्यरूपेण निश्चयनम् । युक्तिः। उदाहरति-यथेत्यादिना।
यथा । वेणीसंहारे । सहदेवः । भीमं 'प्रत्याहे' ति शेषः । 'आर्य ! “कर्तव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे यः स आर्य इति स्मृतः ।" इत्युक्तगुणसम्पन्न । किं प्रश्नार्थमिदम् । महाराजस्य युधिष्ठिरस्य । अयं युद्धे कुलक्षयो भविष्यति इति सन्धिरेव कर्तव्य इत्यभिप्रायावेदनरूप: । सन्देशः। आर्येण पूज्येन भवता । अव्युत्पन्नोऽनिर्धारितः । इव । गृहीतः । 'इत्यतः प्रभृत्यारभ्य ( इदमव्ययम् )' युष्मान्सन्ध्यर्थ यतमानान् पाण्डवानिति भावः । लोके संसारे । क्रोधात् । शत्रुकुलक्षयः शत्रणां कुरूणां कुलक्षयः । उपयति लज्जां नयति ।सभायां न तु रहसि । दाराणां द्रौपद्याः । अत्र "दाराः पुम्भूम्नी"त्यमरोक्त्या बहुवचनम् ।। शत्रुकृतमिति शेषः । न"पुन"रिति शेषः । लज्जयति लज्जायुक्तान्करोति॥ ३४७॥इति भीमवचनं यावत्पर्यन्तम् ।
प्राप्तिं लक्षयति-३५१ प्राप्तिरित्यादिना।.... ३५१ सुखागमः सुखस्यागमः केनापि कार्येण लाभः । प्राप्तिः ॥३९९ ॥