________________
• ४७४
साहित्यदर्पणः। मक्षा चण्डकौशिके-कौशिकः-आः कथमद्यापि न मे सम्भृताः स्वर्णदक्षिणाः ?' .४१७ अधिबलं चाभिसन्धिच्छन यः ॥ ३९५ ॥
यथा रत्नावल्याम्-'काश्चनमाला भट्टिणि ! इअं सा चित्तसालिआ। ता इध जेव चिट्ट अहं वि वसंतअस्स सणं देमि ।' इत्यारभ्य वासवदत्तायाः परिचयान्तम् ।
४१८ नृपादिजनिता भीतिरुद्वेगः परिकीर्तितः। यथा वेणीसंहारे 'सूतः-आयुष्मन् ! प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः। स कर्णारिःस च क्रूरोवृककर्मा वृकोदरः॥३६५॥'
४१९ शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः ॥ ३९६ ॥ 'कालान्तककरालास्यं क्रोधोद्भूतं दशाननम् । विलोक्य वानरानीके सम्भ्रमः कोप्यजायत ॥३६६॥'
उदाहरति-यथेत्यादिना।
यथा । चण्डकौशिके तृतीयेऽके । 'कौशिको विश्वामित्रः। 'हरिश्चन्द्रं प्रत्याहेति शेषः । कथम् । अद्य स्मिन् दिने । अपि । सुवर्णदक्षिणाः। अवशिष्टा इति शेषः । न । मे मह्यम् । सम्भृताः। कुतोऽप्यानीय सम्पूर्णता नीता इति भावः । अत्र हि स्फुटा विश्वामित्रस्य कोपोक्तिः ।
अधिबलं लक्षयति-४१७ अधिबलमित्यादिना। ४१७ यः। छलेन । अभिसन्धिरनुसन्धानादिः। 'स' इति तदिति'वा शेषः । अधिबलम् ॥ ३९५॥ उदाहरति-यथेत्यादिना । यथा। रत्नावल्यां तृतीयेऽङ्के। 'काञ्चनमाला 'वासवदत्तां प्रत्याहेति शेषः। भट्टिणि भत्रि! स्वामिनीति यावत् इअं इयम् । सा। चित्तसालिआ चित्रशालिका। ता तत्। इध इह। जेव्व एव। चिट्ट तिष्ठ। अहं वि अहमपि वसंतभस्स वसन्तकस्य । सणं सज्ञामनुसन्धानमिति यावत् । देमि ददामि ।' इत्यारभ्य। वासवदत्ताया देव्याः। परिचयान्तम्। 'राना (दृष्टा सवैलक्ष्यम् ) हा धिक् कथं कष्टं देवी वासवदत्ता? वयस्य ! किमेत'दिति राज्ञोऽपि विस्मयपर्यन्तमिति भावः । अत्रेदं बोद्धव्यम्-काश्चनमाला वासवदत्ताया वेषेण सुसङ्गतासागरिकाभ्यां चेष्टितस्य सुसङ्गता. सागरिकावेषेणैव च्छलेन काञ्चनमालावासवदत्ताभ्यां वसन्तक (विदूषक ) वत्सराजयोरभिप्रायस्य चानुसन्धानम् । इति ।
उद्वेगं लक्षयति-४१८ नृपादि..इत्यादिना । ४१८ नृपादिजनिता । आदिपदेन प्रबलप्रतिपक्ष्यन्तरादिग्रहणम् । भीतिर्भयम् । उद्धेगः। परिकीर्तितः । उदाहरति-यथा। वेणीसंहारे ‘पञ्चमाङ्के'इति शेषः । 'सुतः'इत्यादिना । 'सूतः सारथिः । आयुष्मन् प्रशस्तजीवित !
त्वां दुर्योधनम् । इतस्ततः सर्वत इत्यर्थः । पृच्छन्तौ । एकरथारूढी एकस्मिन् रथे स्थितौ । प्राप्ती ('कश्च कश्चेति राज्ञः पृच्छाऽनन्तरं सूत उत्तरयती'ति शेषः) स प्रसिद्धपराक्रमः । कर्णारिः कर्णस्य निहन्ताऽर्जुन इति
न भवतां प्रसिद्धः शत्रुरिति भावः । अत एब-रो निष्ठुरः। वृककर्मा वृको व्याघ्रविशेषस्तद्वत् कर्मकारीत्यर्थः । वृकोदरो भीमसेनः । अत्र हि भीमार्जुनयोरागमनजन्या भीतिरिति लक्षणसमन्वय इति बोध्यम् ॥ ३६५ ॥
विद्रवं लक्षयति-४१९ शङ्के इत्यादिना ।
४१९ शङ्काभयत्रासकृतः । त्रास उद्वेगः । सम्भ्रमः किम्मयाऽद्य प्रतिकर्तव्यमिति चाञ्चल्यविशेषः । विद्रवः । मतः ॥ ३९६ ॥
उदाहरति-'कालान्तक..'इत्यादिना ।
'कालान्तककरालास्यं कालेन (प्राप्तः) अन्तकस्तद्वत्करालमास्यं मुखं यस्य तम् तादृशम् । ननु कुत इत्याहक्रोधोद्भुतं प्रवृद्धकोपम् । दशाननं रावणम् । विलोक्य। 'स्थिते'इति शेषः। वानरनीके वानरसेनायाम् । कोऽपि अनिर्वचनीयः । सम्भ्रमः वानराणां सन्त्रासः । अजायत ॥ ३६६॥