________________
४५८
अथ विमर्श:--
साहित्यदर्पणः ।
३७७ यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः ॥ ३७५ ॥ शापाद्यैः सान्तरायश्च स विमर्श इति स्मृतः ।
[ षष्टः
यथाsभिज्ञानशाकुन्तले चतुर्थाङ्कादौ - अनसूया - "पिअंवदे ! जइवि गंधवेण विहिणा णिव्वुतकल्लाणा पिअसही सबंदला अणुरुवभत्तुगामिणी संवुत्तेत्ति णिव्वदं मे हिअअं तहवि एत्तिअं चिन्तणिज्जं ।" इत्यत आरभ्य सप्तमाङ्गोपक्षिप्तात् शकुन्तलाप्रत्यभिज्ञानात् प्राकू अर्थसञ्चयः शकुन्तलाविस्मरणरूपविघ्नालिङ्गितः ।
अर्थ निर्वहणम्
३७८ बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ ३७६ ॥ एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत् ।
विमर्श क्षयितुं प्रतिजानीते - अथेत्यादिना ।
अथ गर्भसन्ध्युदाहरणानन्तरम् । विमर्शः 'लक्ष्यते इति शेषः । ३७७ यत्रेत्यादिना ।
३६७ यत्र यस्मिन्वाक्ये । गर्भतो गर्भसन्ध्यपेक्षया । अधिकः । उद्भिन्नः प्रकटीभूतः । च पुनः । शापाद्यैः । सान्तरायो विनितः । 'विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः । मुख्यफलोपायः । स्यादिति शेषः । खः । विमर्शः । इति । स्मृतः ॥ ३७५ ॥
उदाहरति यथेत्यादिना ।
यथा । अभिज्ञानशाकुन्तले । चतुर्थाङ्कादौ । “अनसूया (नेयमत्रिपत्नी किन्तु कापि सखी, कण्वाश्रमे तस्या असम्भवात् ) प्रियंवदां प्रत्याहेति शेषः । पिअंवदे प्रियंवदे ! जइवि यद्यपि । गंधव्वेण गान्धर्वेण " इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयः । " इत्युक्तेनेति यावत् । विहिणा विधिना । णिवित्तकल्लाणा निरृतकल्याणा | पिअसही प्रियसखी । सउंदला शकुन्तला । अणुरूपभन्नुगामिणी अनुरूपभर्तृगामिनी । संवृत्तेति संवृत्तेति । गिब्बुदं निर्वृत्तम् । मे मम । हिअअं हृदयम् । तहवि तथाऽपि । एत्तिअं एतावत् । वितणिज्जं चिन्तनीयम् । इत्यतः । आरम्य । सप्तमाङ्गोपक्षिप्तात् सप्तमाङ्के उपक्षिप्त उपसंहृतस्तस्मात् । शकुन्तलाप्रत्यभिज्ञानात् शकुन्तलायाः दुर्वं ससः शापाद्विस्मृतपरिणयसम्बन्धायाः प्रत्यभिज्ञानमङ्गुलीयकदर्शनोत्तरं दुष्यन्तकर्तृकं स्मरणं तस्मात् । प्राक् । शकुन्तलाविस्मरणरूपविघ्नालिङ्गितः शकुन्तलाया विस्मरणं तद् रूपयति निरूपयति असौ विघ्नस्तेन आलिङ्गितः । अर्थसञ्चयः फलसमुदायः । तथा च - अत्र शकुन्तलायामनुराग उद्भिन्नोऽपि दुर्वाससः शापेन कियन्तं समयं विनित इति तथावर्णनाद्विमर्श इति बोध्यम् ।
अथ निर्वहणं लक्षयितुं प्रतिजानीते - अथेत्यादिना ।
अथ विमर्शोदाहरणानन्तरम् । निर्वहणं 'लक्ष्यते ' इति शेषः । ३७८ बीजवन्त इत्यादिना ।
३७८ यत्र यस्मिन्वाक्ये । हि । बीजवन्तः प्रधानफलसहिताः । यथायथम् । विप्रकीर्णाः अनेकत्र सूचिताः । मुखाद्यर्था मुखादीनां मुखप्रतिमुखादिसन्धीनामर्थाः । एकार्थे समुदितप्रयोजनरूपताम् । उपनीयन्ते तत् । निर्वहणम् । सुधाकरेणाप्युक्तम्- 'मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः । महाप्रयोजनं यान्ति तन्निर्वहण - मुच्यते इति ॥ ३७६ ॥
"प्रियंवदे ! यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा में प्रियसखी शकुन्तला तथाप्यनुरूपभर्तृगामिनी संवृत्तेति निवृत्त में हृदयमिति संस्कृतम् ।