________________
परिच्छेद )
रुचिराख्यया व्याख्यया समेतः। यथा वेणीसंहारे-"कञ्चुकी (उपसृत्य सहर्षम् ) महाराज वर्धसे अयं खलु भीमसेनो दुर्योधनक्षतजारुणीकृतसर्वशरीरो दुर्लक्ष्यव्यक्तिः।" इत्यादिना द्रौपदीकेशसंयमनादिमुखसन्ध्यादिवीजानां निजनिजस्थापनोपक्षिप्तानामेकार्थयोजनम् । एषामझान्याह३७९ उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ३७७ ॥
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदः करणं भेद एतान्यङ्गानि वै मुखे ॥ ३७८ ॥ यथोद्देशं लक्षणमाह
३८० काव्यार्थस्य सत्मुत्पत्तिरुपक्षेप इति स्मृतः।। काव्यार्य इतिवृत्तलक्षणप्रस्तुताभिधेयः । यथा वेणीसंहारे "भीमसेनः
लाक्षागृहानलावेषानसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहत्य । आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ३४२॥" .३८१ समुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरः पुनः ॥ ३८९ ।। यथा तत्रैव"प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुर्भिन तत्रार्यों हेतुर्न भवति किरीटी न च युवाम् । जरासन्धस्योरःस्थलमिव विरूढं पुनरपि क्रुधा भीमःसन्धि विघटयति यूयं घटयत॥३४३॥"
उदाहरति-यथेत्यादिना । क्षतजं रुधरम्-स्पष्टमन्यत् । एवं सन्धीन लश्यलक्षणाभ्यां निरूप्यैषामङ्गानि लक्षयितुं प्रतिजानीते-एषाभित्यादिना । एषां मुखादिपञ्च सन्धीनाम् । अङ्गानि । आह । ३७८ उपक्षेप इत्यादिना ।
३७८ मुखे मुखसन्धौ । उपक्षेपः । परिकरः । परिन्यासः । विलोभनम् । युक्तिः। प्राप्तिः । समा. धानम्। विधानम्। परिभावना। उद्भेदः। करणम् । तथा-भेदः । एतानि । द्वादशसंख्याकानि । अङ्गानि । वै । 'स्युरिति शेषः ॥ ३७७ ॥ ३७८ ॥
एवं सामान्यतोऽभिधाय विशेष जिज्ञासायामाह-यथेत्यादि ।
यथोद्देशमुद्देशं कारिकाया निर्देशमनतिक्रम्य । लक्षणमुपक्षेपादीनां स्वरूपम् । आह-३८० काव्यार्थस्ये. त्यादिना। ३८० काव्यार्थस्य सन्दर्भप्रतिपाद्यस्य प्रयोजनस्य । समुत्पत्ति'र्वर्ण्यमाने'ति शेषः । उपक्षेपः। इति । स्मृतः। कारिकाथै सुगमयितुं काव्यार्थपदं विवृणोति-काव्यार्थ इत्यादिना । स्पष्टम् । उदाहरति-यथेत्यादिना। व्याख्यातपूर्वमिदं पद्यम् ॥ ३४३ ॥ परिकरं लक्षयति- ३८१ समुत्पन्नार्थेत्यादिना।
३८१ समुत्पन्नार्थवाहुल्यम् समुत्पन्नः समुदतोऽसावर्थः प्रयोजनं तस्य बाहुल्यम् । पुनः । परिकर. स्तदाख्यसन्ध्यङ्गमित्यर्थः । ज्ञेयः ॥ ३७९ ॥ - उदाहरति-यथेत्यादिना ।
यथा। तत्र । वेणीसंहारे इत्यर्थः । एव । “कुरुभिर्धार्तराष्ट्ररिति भावः । सहार्थे तृतीया । मम भीमसेनस्य । शिशोः । एव । यत् । वैरम् । खलु निश्चितमनिवार्यमिति यावत् । प्रवृद्धम् । तत्र तस्मिन्वैरे। न । आर्यः पूज्यो युधिष्ठिर इति यावत् । हेतुः कारणम् । न । किरीटी अर्जुनः । 'न हेतु'रिति पूर्वतोऽन्वेति । भवति । न ।