________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
४५७ यथा रत्नावल्यां द्वितीयेऽङ्के वत्सराजसागरिकासमागमहेतोरनुरागविषयस्य प्रथमाङ्कोपक्षिप्तस्य सुसङ्गताविदूषकाभ्यां ज्ञायमानतया किञ्चिल्लक्ष्यस्य वासवदत्तया चित्रफलकवृत्तान्तेन किश्चिदुन्नीयमानस्य उद्देशरूप उद्भेदः।
३७६ फलप्रधानोपायस्य प्रागुद्भिन्नस्य किश्चन ॥ ३७४ ॥
गी यत्र समुद्भेदो हासान्वेषणवान्मुहुः। फलस्य गर्भीकरणाद्गर्भः । यथा रत्नावल्यां द्वितीयेङ्के-"सुसङ्गता-सहि ! अदक्खिणा असि तुमं दाणी जा एवं भट्टिणा हत्थेण गहिदा वि कोबं ण मुंचर्सि" इत्यादौ समुद्भेदः । पुनर्वासवदताप्रवेशे हासः । तृतीयेऽङ्के "राजा-प्रेषितश्च मया तद्वान्वेिषणाय कथश्चिरयति वसन्तकः।" इत्यन्वेषणम् । “वसन्तकः (सपरितोषम् ) हीही भो कौसम्वीरजलभेणाविण तादिसो पिअवअस्तस्स हिमअपरितोसो आसी जादिसो मम सआसादो अज्ज पिअवअणं सुणिअ भविस्खदि।" इत्यादावुद्भेदः । पुनरपि वासवदत्ताप्रत्यभिज्ञानाद् ह्रासः । पुनः सागरिकायाः सङ्केतस्थानगमनेऽन्वेषणम् । पुनर्खतापाशकरणे उद्भेदः।
उदाहरति-यथेत्यादिना । अनुरागबीजस्येत्यर्थः । स्पष्टमन्यत् । गर्भ लक्षयति-३७६ फलप्रधानोपायस्येत्यादिना ।
३७६ यत्र यस्मिन्वाक्ये इति भावः । किश्चन। प्राक् पूर्वम् । उद्भिवस्य प्रकटितस्य । फलप्रधानोपायस्य फलस्य मुख्यफलस्य प्रधानोपायो मुख्यफलस्तस्य । मुहुः । हासान्वेषणवान् हासः स्थगनमन्वेषमुत्कण्ठयाऽनुसन्धानं चेति ते अत्रास्तीति, तथोक्तः । समुन्दः । गर्भः ॥ ३७४ ॥
गर्भव्याख्यामुदाहरति-फलस्येत्यादिना । स्पष्टम् । . उदाहरति-यथेत्यादिना।
यथा । रत्नावल्यां । द्वितीयेऽङ्क। “सुसङ्गता। सागरिका प्रत्याहेति शेषः । सहि सखि ! अदक्षिणा अदक्षिणाऽचतुरा । असि असि । तुमं त्वम् । दाणी इदानीम् । जा या। एवं एवम् । भट्टिणा भर्ना । हत्थेण हस्तेन । गहिदा गृहीता । वि अपि । कीब कोपम् । ण न । मुंचसि मुञ्चसि ।" इत्यादौ । समुद्भेदो 'विकाशोऽनुरागस्य ति शेषः । पुनः । वासवदत्ताप्रवेशे वासवदत्तायाः प्रवेशे सतीत्यर्थः । हासः । सागारकायामनुरागस्य तिरोभाव इत्यर्थः । अथ-तृतीयेऽङ्के । राजा।"प्रेषितः। च । मया । तद्धान्वेिषणाय तद्वार्ताया अन्वेषणायानुसन्धानार्थम् । कथम् । चिरयति । वसन्तकस्तदाख्यः सखा।" इति । अन्वेषणम् । “वसन्तकः "प्रविश्ये"ति शेषः । (सपरितोषम्) हीही (इति हास्यद्योतकमव्ययम् ) भो कौसम्बीरजलंभेणावि कौशाम्बीराज्यलाभेनापि । कौशाम्बी काचिद्राजधानी। पिअवअस्तस्स प्रियवयस्यस्य वत्सराजस्येति यावत् । ण न ।तादि. सो तादृशः । हिअअपरितोसो हृदयपरितोषः । आसी आसीत् । जदिसो यादृशः । मम । सआसादो सकाशात् । अज्ज अद्य । पिअवअणं प्रियवचनं सागरिकावृत्तान्तनिवेदनरूपं प्रियं वाक्यम् । सुणिअ श्रुत्वा । भविस्सदि भविष्यति।" इत्यादौ । उद्भेदः । अन्यत्स्पष्टम् । एवं मुहः सागरिकायामनुरागस्योद्भेदानुद्रेद्राभ्यां लक्ष्यालक्षत्वेन गर्भ इति भावः ।
१ 'सखि ! अदक्षिणाऽसि त्वमिदानीं यैवं भर्चा हस्तेन गृहीताऽपि कोपं न मुञ्चसि' इति संस्कृतम् । २ 'भो कौशाम्बीसज्यलाभेनापि न तादृशः प्रियवयस्यस्य हृदयपरितोष आसीद्यादृशो मम सकाशादद्य प्रियवचनं श्रुत्वा भविष्यति' इति संस्कृतम् ।