________________
४५६
तल्लक्षणमाह
साहित्यदर्पणः ।
यथा रत्नावल्यां प्रथमेऽङ्के
३७१ अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति ।
एकेन प्रयोजनेनान्वितानां कथां शानामवान्तरैकप्रयोजन सम्बधः सन्धिः । तद्भेदानाह३७२ मुखं प्रतिमुखं गर्भो विमर्श उपसंहृतिः ॥ ३७१ ॥ इति पञ्चास्य भेदाः स्युः ३७३ क्रमाल्लक्षणमुच्यते ।
३७४ यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा ॥ ३७२ ॥ प्रारम्भेण समायुक्ता तन्मुखं कीर्ति ततम् ।
षष्ट:
३७५ फलप्रधानोपायस्य मुखसन्धिनिवेशितः ॥ ३७३ ॥ लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखश्च तत् ।
इतिवृत्तस्य । पञ्चधा । एव भागाः । स्युः । त एव इति शेषः । पञ्च । सन्धयः । स्यु' रिति देहलीदीपकन्यायेनानुषज्यते ॥ ३७० ॥
ननु को नाम सन्धिरित्याशङ्कामपनेतुं प्रतिजानीते - तल्लक्षणमित्यादिना ।
तल्लक्षणं तस्य सन्धेः लक्षणं तत् । आह - ३७१ अन्तरैकार्थेत्यादिना ।
३७१ एकान्वये एक एवान्वयः सम्बन्धस्तस्मिन् । सति । अन्तरैकार्थसम्बन्धोऽन्तर एकोऽसाधारणोऽसावर्थ:प्रयोजनं तस्य सम्बन्धः । खन्धिः । तथोक्तम्- 'मुख्य प्रयोजनवशात्तथाङ्गानां समन्वये । अवान्तरार्थसम्बन्धः सन्धिः सन्धानरूपतः ॥ ' इति ।
एतदेव तात्पर्येण निर्दिशति - एकेनेत्यादिना । स्पष्टम् ।
एतस्य नामनिर्देशपुरःसरं भेदान् वक्तुं प्रतिजानीते- तद्भेदानित्यादिना । तद्भेदांस्तस्य सन्धेर्भेदास्तानाह - ३०२ मुखमित्यादिना ।
३७२ अस्य सन्धेः । मुखम् । प्रतिमुखम् । गर्भः । विमर्शः । तथा - उपसंहृतिः निर्वहणम् । इति । पञ्च । भेदाः । स्युः । इदम्बोध्यम् - ३७० यथासङ्ख्यमित्युक्त दिशा कार्यस्यारम्भावस्था मुखं यत्नः प्रतिमुखम्, प्रायाशा गर्भः, नियताप्तिविंमर्शः, फलागमो निर्वहणश्चेति सन्धिपञ्चकम् । भेदहेतुश्च ३७१ इत्यनेन दर्शितपूर्वः । इति ।
अथैषां लक्षणानि मालक्षयितुं प्रतिजानीते - ३७३ क्रमादित्यादिना ।
३७३ क्रमादुद्देशक्रममनुसृत्य । लक्षणमेषामिति शेषः । उच्यते । वक्ष्यते सामान्यभविष्यत्त्वमादाय वर्तमा नत्वेन निर्देशः ।
तत्र तावन्मुखमाह - ३७४ यत्रेत्यादिना ।
३७४ यत्र यस्मिन्निति भावः । नानार्थरससम्भवा नाना अर्थरसास्तेषां सम्भवो यत्र तादृशी । प्रारम्भेण तदाख्यया कार्यावस्थया । समायुक्ता । बीजसमुत्पत्तिः । तत् । मुखं । परिकीर्तितम् | ॥ ३७२ ॥ उदाहरति यथेत्यादिना । अत्र हि सागरिकावत्सराजयोरनुरागोत्पत्तिः । अन्यत् स्पष्टम् ।
प्रतिमुखं लक्षयति- ३७५ फलेत्यादिना ।
३७५ यत्र यस्मिन्वाक्ये । च । मुखसन्धिनिवेशितः मुखसन्धौ निविशते इति तस्य तथोक्तस्य । फलप्रधानोपायस्य फलस्य मुख्यप्रयोजनस्य लाभे यः प्रधानोपायस्तस्य वीजस्येत्यर्थः । लक्षालक्ष्यइव । किञ्चिलक्ष्य इव । उद्भेदोsरितो भूत्वाऽवस्थानम् । तत् । प्रतिमुखम् ॥ ३७३ ॥
S