________________
रुचिराख्यया व्याख्यया समेतः ।
३६७ उपायापायशङ्काभ्यां प्रात्याशा प्राप्तिसम्भवः ॥ ३६८ ॥ यथा रत्नावल्यां तृतीयेऽङ्के । वेषपरिवर्तनाऽभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणापायशङ्कथा चानिर्धारितैकान्तसङ्गमरूपफलप्राप्तिः प्राप्याशा ।
परिच्छेदः ]
एवमन्यत्र ।
३६८ अपायाभावतः प्राप्तिर्नियताप्तिश्च निश्चिता ।
अपायाभावान्निर्धारितैकान्तफलप्राप्तिर्नियताप्तिः ।
यथा रात्रावल्यां राजा देवीप्रसादनं मुक्त्वा नान्यमत्रोपायं पश्यामीति देवीलक्षणापायस्य प्रसादमेन निवारणान्नियत फलप्राप्तिः सूचिता ।
३६९ साऽवस्था फलयोगः स्याद्यः समग्रफलोदयः ॥ ३६९ ॥ यथा रत्नावल्यां- रत्नावलीलाभश्चक्रवर्तित्वलक्षणफलान्तरलाभसहितः । एवमन्यत्र ।
३७० यथासङ्ख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः ।
४५५
पञ्चधैवेतिवृत्तस्य भागाः स्युः पश्च सन्धयः ॥ ३७० ॥
प्राप्त्याशां लक्षयति- ३६७ उपायेत्यादिना ।
३६७ उपायापायशङ्काभ्यामुपाय उद्यमश्चापायशङ्का विघ्नशङ्का च ताभ्याम् । सहार्थेयं तृतीया । प्राप्तिसम्भवः । प्राप्त्याशा ॥ ३६८ ॥
उदाहरति-यथेत्यादिना ।
यथा । रनावल्याम् । तृतीयेऽङ्के । वेशपरिवर्त्तनाभिसरणादेस्तद्रूपादित्यर्थः । सङ्गमोपाया 'द्वत्सराजस्ये 'ति शेषः । वासवदत्तालक्षणापायशङ्कया वासवदत्ता लक्षणं खरूपं यस्य तादृशो योऽपायो विघ्नस्तस्य शङ्का तया । च । अनिर्धारितैकान्त सङ्गमरूपफलप्राभिरनिश्चितोऽसावेकान्तसङ्गमः सयस्य तद्रूपं फलं यस्य तस्य प्राप्तिः । प्राप्त्याशा । एवम् अन्यत्राभिज्ञानशाकुन्तलादाविति भावः ।
नियताप्तिं लक्षयति- ३६८ अपायाभावत इत्यादिना ।
३६८ अपायाभावतो विघ्नराहित्येनेत्यर्थः । च । निश्चिता । नतु सम्भावितेत्यर्थः । प्राप्तिः । नियताप्तिः । तदेव विवृणोति - अपायाभावादित्यादिना । स्पष्टम् ।
उदाहरति-यथेत्यादिना ।
यथा । रत्नावल्यां ‘तृतीयेऽङ्के' इति शेषः । राजा वत्सराजः । ' आहे'ति शेषः । देवीप्रसादनं देव्याः महाराज्ञीवासवदत्तायाः प्रसादनं कोपापनयपुरःसरमनुकूलीकरणं तत् । मुक्त्वा परित्यज्य । अत्रास्मिन् सागरिकासङ्गमे इति यावत् । अन्यम् | उपायम् । न । पश्यामि । इति । स्पष्टमन्यत् ।
फलागमं लक्षयति- ३६९ सेत्यादिना ।
३७० यः । समग्रफलोदयः समस्तफलानां सिद्धतया भानम् । सा । अत्र - 'सर्वादीनां पर्यायेण उद्देश्यविधेय 'लिङ्गभाक्त्वम्' । इति स्त्रीलिङ्गत्वेन निर्देश इति बोध्यम् । फलयोगः फलस्य योग आगमः । अवस्था कार्याङ्गम् | स्यात् । 'फलागम इति प्रोको यः समग्रफलोदयः । इति पाठः ॥ ३६८ ॥
उदाहरति यथेत्यादिना ।
यथा । रत्नावल्यां । 'चतुर्थेऽङ्के' इति शेषः । अन्य स्पष्टम् । उदाहरणविषये आह - एवमन्यत्र महावीरचरितादौ सीतादिलाभपूर्वकं रावणवधा दिरित्यूह्यम् ।
अथ सन्धि लक्षयितुमवतरणिकामुपस्थापयति- ३७० यथासङ्ख्यमित्यादिना ।
३७० आभिरुक्तखरूपाभिः। पञ्चभिः। अवस्थाभिरङ्गैः समम् । योगात् समन्वयात् । यथासङ्ख्यं यथोद्देशम् ।