________________
साहित्यदर्पणः । इति सागरिका श्रुत्वा “(सहर्ष) कथं एसो सो उदअणणरिन्दो" इत्यादिरवान्तरार्थहेतुः ।
३५९ व्यापि प्रासङ्गिकं वृत्तं पताकेत्यभिधीयते ।। यथा महावीरचरिते सुग्रीवादेः, वेणीसंहारे भीमसेनादेः, अभिज्ञानशाकुन्तले विदूषकस्य वरितंच।
३६० पताका नायकस्य स्यान्न स्वकीयं फलान्तरम् ॥ ३६३ ॥
गर्भ सन्धौ विमर्श वा निर्वाहस्तस्य जायते । यथा सुग्रीवादे राज्यप्राप्त्यादि। यत्नु मुनिनोक्तम्-"आ गर्भाद्वा। विमर्शाद्वा ह्रताका विनिवर्तते।।
यस्मात्कस्मात्रिबन्धोऽस्याः परार्थः परिकीर्त्यते ॥"
सति । अस्तापास्तसमस्तभासि अस्ते अस्ताचले अपास्ता निक्षिप्ताः समस्ता भासो दीप्तयो येन तस्मिन् । नभसः आकाशस्य तद्रूपकस्य गन्तव्यस्याध्वन इति भावः । पारम् । प्रयाते। रवौ सूर्ये सति । अत एव-सायन्तने सायकालिके । समये। आस्थानी सभाम् । 'आस्थानी क्लीबमास्थानं स्त्री नपुंसकयोः सदः ।' इत्यमरः । स्म युगपत् । सम्पतन्-आगच्छन् । एषः। नृपजनः । सम्प्रति । सरोरुहद्युतिमुषः सरोरुहाणां कमलानां द्युति शोभां विकाशं वा मुष्णाति वामुष्णन्तितां तान्वा । प्रीत्युत्कर्षकृतः प्रसादवर्धकान् । तव। उदयनस्य इन्दोः। इव । पादान् चरणान किरणान् वा । आसेवितुम् । दशाम् । उद्दीक्षते । अत्र चक्षुश्चकोरसदृशत्वं व्यज्यते । इदं च नेपथ्ये वैतालिकैः पठितं पद्यम् । अत्र शार्दूलविक्रीडितं वृत्तम् ॥३४१॥'
इति । "श्रुत्वा । सागरिका (सहर्षम्) कधं कथम् । एसो एषः । सो सः । उदअणणरिंदो उदयननरेन्द्रः ।" इत्यादिः 'पुनर्यस्तस्या वाक्यसन्दर्भः स' इति शेषः । अवान्तरार्थहेतुरवान्तरार्थस्य आनुषङ्गिकप्रयोजनस्म सागरिकाया वत्सराजविषयकानुरागेण तस्यतस्यानुष्टानोद्भावनस्येति यावत् हेतुः कारणम् ।
पताकां लक्षयति ३५९ व्यापीत्यादिना ।
३५९ व्यापि निर्वहणसन्ध्यन्तमवस्थायीति भावः । प्रासद्भिकं प्रसङ्गानुप्रसक्तम् । तत्र भवः ४।३।५३ इति ठा । वृत्तं चरितम् । पाताका । इति । अभिधीयते। तथोक्तं मुनिना-'यवृत्तं हि परार्थ स्यात्प्रधानस्योपकारकम् । प्रधानवच्च कल्प्येत सा पताकेति कीर्त्यते ॥' इति ।
उदाहरति-यथेत्यादिना । स्पष्टम् । महावीरचरिते इत्यत्र रामचरिते इति पाठान्तरे तु तत्प्रधाने महावीरच. रितादादित्यर्थः ।
व्यापीत्यनेन व्यावर्तनीयमर्थ द्योतयति-३६० पताकानायकस्येत्यादिना ।
३६. पताकानायकस्य यस्य प्रासङ्गिक व्यापि. वृत्तं पताकेति प्रागुक्तं तस्येति भावः । स्वकीय स्वमात्रोपकारि । फलान्तरमन्यत्फलम् । न । 'पताके' ति पूर्वतोऽनुप्रसक्तम् । स्यात् । अतः-तस्य फलान्तरस्येत्यर्थः । गर्ने तदाख्ये । वाऽथवा। विमर्श तदाख्ये । सन्धौ । निर्वाहः सन्निवेशः । जायते ॥ ३६३ ॥
उहादरति-यथेत्यादिना।
यथा 'महावीरचरितादा' विति शेषः । सुग्रीवादेः । राज्यप्राप्त्यादि राज्यदारलाभादि । अयम्भावःसुग्रीवादे राज्यप्राप्त्यादि सुग्रीवादेरेवोपकारीत्यस्य निर्वहणान्तं व्याप्तित्वाभावान्न पताकात्वम् । यच्च तस्य तस्योत्साहादि तदेव पताकेति ।
खमत मुनिमताऽप्रतिकूलमिति सूचयितुमाह-यत्त्वित्यादि।
यत्नु। गर्भाद्गर्भसन्धेः । 'पञ्चम्यपापरिभिः । २।३।१० इति पञ्चमी। 'आइमर्यादाऽभिविध्योः।।२।१११३ इति समासाभावश्च । आ तमवधीकृत्येत्यर्थः । 'आङीषदर्थेऽभिव्याप्ती सीमार्थे धातुयोगजे' इत्यमरः । वा । विमर्शा
१ 'कथमेष स उदयननरेन्द्र' इति संस्कृतम् ।