________________
परिच्छेदः)
चिराख्यया व्याख्यया समेतः । ३५६ बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ॥ ३६० ॥
अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि । भर्थप्रकृतयः प्रयोजनसिद्धिहेतवः । तत्र बीजम्३५७ अल्पमात्रं समुद्दिष्टं बहुधा यद्विसर्पति ॥ ३६१॥
फलस्य प्रथमो हेतुः बीजं तदभिधीयते । यथा रत्नाषल्यां वत्सराजस्य रत्नावली प्राप्तिहेतुर्दैवानुकूल्यलालितो यौगन्धरायणव्यापारः। यथा वा वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधोपचितो युधिष्ठिरोत्साहः ।
३५८ अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम् ॥ ३६२ ॥ यथा रत्नावल्यामनङ्गपूजापरिसमाप्तौ कथाऽर्थविच्छेदे सति
"अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवावास्थानी समये समं नृपजनः सायन्तने सम्पतन् । सम्प्रत्येष सरोरुहातिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो दशामुदयनस्येन्दोरिवोद्धीक्षते ॥ ३४१ ॥"
बीजादीनां व्यवस्था दर्शयितुमपक्रमते-३५६ बीजमित्यादिना। . .
३५६ बीजम् । बिन्दः। पताका। च । प्रकरी। कार्यम् । एव । इत्येते इति शेषः । पञ्च । अर्थप्रकृतयोऽर्थस्य प्रकृतयो योनयस्तत्सिद्विकारणानीति भावः । “प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लि) पौरवर्ग'इति मेदिनी । यथाविधि यथा भरतादिशास्त्रम् । ज्ञात्वा । योज्याः ॥३६॥
कारिकाया दुर्बोधमंशं स्पष्टयति-अर्थप्रकृतय इत्यादिना ।
अर्थप्रकृतय इत्यस्येति शेषः । प्रयोजनसिद्धिहेतवः प्रयोजनस्य सिद्धिनिष्पत्तिस्तस्य हेतवः कारणानीति भावः।
बीजादीन् स्वरूपतो निर्देष्टुमाह-तवेत्यादि । तत्र तेषु बीजादिषु मध्ये। बीजं "लक्ष्यत" इति शेषः । ३५७ । अल्पमात्रमित्यादिना ।
३५७ यत् । अल्पमात्रम् । समुद्दिष्टं सूचितम् । बहुधा। विसर्पति फलोद्भावने साहाय्यायोपयुज्यते । तत् । फलस्य । प्रथम आरम्भिक इत्यर्थः । हेतुः । बीजम् । अभिधीयते ॥ ३६१ ॥
उदाहरति-यथेत्यादिना।
यथा रत्नावल्यां रत्नावलीनाटिकायाम् । वत्सराजस्योदयनापरनामधेयस्य नृपतेः। रत्नावलीमाप्तिहेतुः। दैवानुकूल्यलालितो दैवस्यानुकूल्यं प्रसादोन्मुखत्वं तेन लालितः । यौगन्धरायणण्यापारः । बीजमिति तु प्रसङ्गानुप्रसक्तम् । यथा वा । वेणीसंहारे । द्रौपदीकेशसंयमनहेतुः दौपद्याः केशास्तेषां संयमनं बन्धनं तस्य हेतुः । भीमसेनक्रोधोपचितो भीमसेनस्य क्रोधेनोपचितः सनातो वृद्धो वा । युधिष्ठिरोत्साहो युधिष्ठिर स्वोत्साहो युद्धार्थमभ्यनुज्ञानं बीजमिति भावः ।
बिन्दुं लक्षयति-३५८ अवान्तरार्थविच्छेद इत्यादिना ।
३५८ अवान्तरार्थविच्छेदेऽवान्तरो मुख्यातिरिक्तः प्रसङ्गानुप्रसक्तेभ्योन्यतिरिक्तोऽर्थस्तस्य विच्छेदः समाप्तिस्तस्मिन्सतीत्यर्थः । अच्छेदकारणम् । 'तस्य'ति शेषः । बिन्दुः ॥ ३६२ ॥
उदाहरति-यथेत्यादिना । यथा रत्नावल्यां । 'प्रथमेऽके 'ति शेषः । अनङ्गपूजापरिसमाप्ती अनङ्गस्य कामस्य पूजा वासवदत्तया कृतमर्चनं तस्याः परितः समाप्तिस्तस्यां सत्याम् । कथाऽर्थविच्छेदे कथार्थस्यावान्तरार्थस्य विच्छेदस्तस्मिन् जायमाने इत्यर्थः ।