________________
- साहित्यदर्पणः। ... ३५२ अपेक्षित परिच्छिद्य नीरसं वस्तु विस्तरम् । ___ यदा सन्दर्शयेच्छेषमामुखानन्तरं तदा ॥ ३५७ ॥
कार्यो विष्कम्भको नाट्ये आमुखाक्षिप्तपात्रकः। यथा-रत्नावल्यां यौगन्धरायणप्रयोजितः। ३५३ यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥ ३५८॥
आदावेव तदाको स्यादामुखाक्षेपसंश्रयः । यथाऽभिज्ञानशाकुन्तले।
३५४ विष्कम्भकाचैरपि नो वधो वाच्योऽधिकारिणः ॥ ३५९ ॥
३५५. अन्योऽन्येन तिरोधानं न कार्य रसवस्तुनोः । रसः शृङ्गारादिः यदुक्तं धनञ्जयेन
'न चापि रसतो वस्तु दूरं विच्छिन्नतां नयेत् ।
रसं वा न तिरोदध्याद्रस्त्वलङ्कारलक्षणः ॥' इति । अथ सिंहनिरीक्षणनयेन विष्कम्भकादेर्व्यवस्थामाह-५३२ अपेक्षितमित्यादिना । ३५२ यदा। अपेक्षितमाकाक्षितम् । नीरसं चमत्कारशून्यम्। विस्तरं वाक्यम् । स च शब्दस्य विस्तर' इत्यमरः । वस्तु इतिवृत्तमिति भावः । परिच्छिद्य विच्छिद्य समाप्येति यावत् । शेष शिष्टं सरसमल्पमितिवृत्तमिति भावः । सन्दर्शयेत् । तदा । नाटये रूपके । आमुखानन्तरम् आमुखस्य प्रस्तावनाया अनन्तरम् । आमुखाक्षिप्तपा. नक भामुखेनाक्षिप्तं सूचितप्रवेशं पात्रं यत्र तादृशः । विष्कम्भकः । कार्यः ।
उदाहरति यथेत्यादिना। यथा । रत्नावल्यां नाटिकायाम् । यौगन्धरायणपयोजितः। 'विष्कम्भक' इति शेषः । मनु प्रस्तावनान्ते एव यत्रास्तस्य का गतिरित्याह ३५३ यदात्वित्यादिना ।
३५३ यदा। तु । मूलादारम्भात् । एव । सरसं । वस्तु । प्रवर्तते । तदा । आदौ प्रारम्भे । एव । भामुखाक्षेपसंश्रयः-आमुखेन प्रस्तावनया कृताक्षेपः संश्रयः पात्रप्रवेशेरूपो यत्र तथोक्तः । अङ्कास्यात् ॥ ३५८ ॥
उदाहरति यथेत्यादिना। यथा। अभिज्ञानशाकुन्तले 'प्रस्तावनानन्तरम' इति शेषः । अधिकारिणो वधः सर्वथैव रूपके वय॑ इत्याह-३५४ विष्कम्भकाचैरित्यादिना।
३५४ अधिकारिणः प्रधाननायकस्येति भावः । वधः। विष्कम्भकाचैविष्कम्भकप्रवेशकादिद्वारेति भावः । अपि किं पुनरङ्केनेति शेषः । नो । वाच्यः किन्तु प्रवेशकादिद्वारा केवल सूचनीय इति भावः ॥ ३५९ ॥
रसवस्तुनोरुद्भावनं योग्यतया कार्यमित्याशयेनाह-३५५ अन्योऽन्येनेत्यादिना।
३५५ रसवस्तुनो रसः शृङ्गाराद्यन्यतमः स च, वस्तु इतिवृत्तादि च तयोः । अन्योऽन्येन रसस्य वस्तुना वस्तनश्च रसेनेत्यर्थः । तिरोधानम् । न । कार्यम् । कुर्यादिति पाठान्तरम् ।
रसपदवाच्यं निर्दिशति-रस इत्यादिना । स्पष्टम् । - उक्तमर्थ स्पष्टयितुं प्राचां संवादं निर्दिशति-यदक्तमित्यादिना ।
यत् यतः । धनञ्जयेन धनिकेनेति पाठान्तरम् । दशरूपककृतेत्यर्थः । उक्तम् । “रसतो रसात् । वस्तु इतिवृत्तादि। अपि। दूरमत्यन्तम्। विच्छिन्नतां विच्छेदम् । न च । नयेत्। वस्त्वलङ्कारलक्षणे : मलकारानुप्रासाद्याश्चेति तेषां लक्षणानि समुद्भावनानि तैस्तद्वारेति यावत् । वा । रसम् । न। तिरोदध्यात् । यथा स्थानं हि रसवस्तुनोरुद्रावन स्थाने इति भावः ॥' इति ।
दशमकतेवयंत वस्वलारखक्षण वास्ववित्त