________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। ३५१ अङ्कान्तपात्रैर्वाऽङ्कास्यं भिन्नास्याऽर्थसूचनात् ॥ ३५६ ॥ अङ्कान्तपात्रैरकान्ते प्रविष्टैः। पात्रैः। यथा महावीरचरिते द्वितीयाङ्कान्ते (प्रविश्य) सुमन्त्रः-भगवन्तौ वशिष्ठविश्वामित्रौ भवतःसभार्गवानाह्वयतः । इतरे-क भगवन्तौ। सुमन्त्रः-महाराजदशरथस्यान्तिके। इतरे-तत्तत्रैव गच्छामः । 'इत्यङ्कसमाप्तौ (ततः प्रविशत उपविष्टौ वशिष्ठविश्वामित्रौ जामदग्न्यशतानन्दौ च) इत्यत्र-पूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्रपात्रेण शतानन्दजनककथाविच्छेदे उत्तराङ्कमुखसूचनादङ्कमुखम् इति । एतच्च धनञ्जयमतानुसारेणोक्तम् । अन्ये तु अङ्कावतरणेनैवेदं गतार्थमित्याहुः ।
पउत्तमअणमहसवं मअदणोजाणं पभादि अणुप्पसिदो तहिं किल मालदी गमिस्सदि तदो अण्णोण्णसंदसणं भोडत्ति । तदो किं ति मालदी अमच्चो माहवस्स अप्पणा ण पडिवादेहि जेण चोरिआविआहे भअवदी तुवरावेदि:॥" इत्यादिनाऽ. वलोकितया च मदनोद्यानादीनां पारणयरहस्यादेश्च सूचना विहिता । तस्मात् स्फुटमेतस्याङ्कमुखत्वमिति ।
दशरूपकारमतेनास्य लक्षणान्तरं दर्शयति-३५१अङ्कान्तपात्ररित्यादिना ।
३५१ वायद्वा । अान्तपात्रैरकान्ते पात्राणि तैः । अङ्कान्ते प्रविष्टैः पात्रैरिति भावः । भित्राइस्य । यत्रामुख स्यात्ततो भिन्नस्याङ्कस्येत्यर्थः । छिन्नाङ्कस्येति पाठान्तरेऽप्ययमेवाऽर्थः । अर्थसूचनात् । अङ्कास्यमकमुखं 'कथ्यते' इति शेषः ॥ ३५६॥
कारिका सुगमयितुमकान्तपात्रैरिति पदं व्याचष्टे-अङ्कान्तपात्ररित्यादिना ।
अङ्कान्तपात्ररित्यस्येतिशेषः । अान्ते । प्रविष्टैः । पात्रैः एवं च-शाकपार्थिवादित्वान्मध्यमपदलोपस्तथा च भकान्ते प्रविष्टानि पात्राणि तैरित्येव विग्रहः ।
उदाहरति-यथेत्यादिना। यथा । महावीरचरिते। द्वितीयाङ्कान्ते । "(प्रविश्य ) । सुमन्त्रः। भगवन्तौ । वशिष्टविश्वामित्रो अतिशयेन वशी जितेन्द्रिय इति वशिष्ठः स च, विश्वं मित्रमस्येति स चेति तथोक्तौ । 'मित्रे चर्षों । ६ ।३.१३० इति दीर्घः। भवतो युष्मान् । सभार्गवान्परशुरामजनकशतानन्दानिति भावः । आह्वयतः । इतरे परशुरामादयः । कभगवन्तौ वशिष्ठविश्वामित्रावित्यर्थः । सुमन्त्रः । महाराजदशरथस्य । अन्तिके समीपे । 'अन्तिकं निकटे वाच्यलिङ्ग'मिति विश्वमेदिन्यो । इतरे। तत् । तस्मात् तत्र दशरथस्यान्तिके । एव । गुरुवचनादिति पाठान्तरम् । गच्छाम । इति । अङ्कसमाप्तौ सत्यामिति शेषः । तृतीयाङ्कारम्भे इति भावः। “(ततः । उपविष्टौ। वसिष्ठविश्वामित्रौ । जामदग्न्यशतानन्दौ । च । प्रविशतः)" इत्यत्र । पूर्वाङ्कान्ते । तृतीयापेक्षया पूर्वोऽङ्को द्वितीयः तदन्ते । एव । प्रविष्टेन । सुमन्त्रपात्रेण । शतानन्दजनककथाविच्छेदे 'जायमाने' इत्ति । उत्तरामुखसुचनादुत्तराङ्कस्तृतीयाङ्कस्तन्मुखस्य तदवारस्य सूचनात् । अइमख इति 'ज्ञेयमितिशेषः । अत्र स्वारुचिं दर्शयति-एतच्चेत्यादिना ।
एतदङ्कमुखलक्षणमित्यर्थः । च । धनञ्जयमतानुसारेण । दशरूपककारमतमनुसृत्येति भावः । उक्तम् । यथाह धनञ्जयः-“अङ्कास्यपात्रैरङ्कास्यं भिन्नाङ्कस्यार्थसूचना"दिति ।
अथ-वाभिमतं मतं प्रकाशयति-अन्येत्वित्यादिना ।
अन्येऽस्मदादय इत्यर्थः । तु । अङ्कावतरणेन । एव । इदम् पूर्वोक्तलक्षणमास्यमित्यर्थः । गतार्थम् । इति । आहुः।
"अद्य माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सव मदनोद्यानं प्रभातेऽ नुप्रेषितस्तत्र किल मालती गभिष्यति तत्रान्योऽन्यसन्दर्शनं भवत्विति । २ ततः किमिति मालतीममात्यो माधवस्यात्मना न प्रतिपादयति येन चौरिकाविवाहे भगवती त्वरयति ।" इति संस्कृतम् ।