________________
૪૮ साहित्यदर्पणेः। .
[षष्ठःयथा अभिज्ञानशाकुन्तले पश्चमाऽङ्के पात्रैः सूचितः षष्ठाङ्कस्तदङ्कस्याङ्गविशेष इवावतीर्णः । अथाङ्कमुखम्३५० यत्र स्यादङ्क एकस्मिन्नानां सूचनाऽखिला ॥ ३५५ ॥
तदङ्कमुखमित्याहु/जाऽर्थख्यापकं च यत् । यथा मालतीमाधवे प्रथमाङ्कादौ कामन्दक्यवलोकिते भूरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्सन्निवेशं सूचितवत्यौ ।
तस्याङ्कस्य । अविभागतो विभागमन्तरा इति भावः । यः-अङ्कः। अवतरति। एष स इत्यर्थः । अङ्कावतारः। इति । स्मृतः । यथाह वा भरतः-अङ्कान्तरेऽथवाऽङ्के निपतति यस्मिन् प्रयोगमासाद्य । बीजाऽर्थयुक्तियुक्तो ज्ञेयो मङ्कावतारोऽसौ ।'इति ॥ ३५४ ॥
उदाहरति-यथेत्यादिना ।
यथा। अभिज्ञानशाकुन्तले। पश्चमाझे लक्षणया तदन्ते । पात्रैर्नागारकादिनामधेयैः । सूचितः। षष्ठाङ्कः । तदस्य पञ्चमाङ्कस्य । अङ्कविशेष इव । अवतीर्णः। अयम्भावः-अभिज्ञानशाकुन्तले पञ्चमाङ्के समाप्ते महाराजस्य दुष्यन्तस्याङ्गुलीयकविक्रेतारं मत्स्याजी विनं निबध्यानुगाभ्यां सहितस्य नागरिकस्य राजश्यालस्य प्रवेशः, तदनन्तरं ताडनभर्त्सनादि महाराज प्रति च तस्य सर्वस्य तथा निवेदनम् , अङ्गुलीयकदर्शनेन शकुन्तलापरिणयस्मरणं, मोचनपुरःसरं च तस्य मत्स्याजीविनः 'धीवर' ! महत्तरो तुमं पिअवअस्सअ दाणिं मे संवुत्तो। कादंबरीसिक्खअं अह्मणं पठमसोहिदं इच्छीअदि ता सोडिआपणं एव्व गच्छामो"इति नागरिकेणानुनयनम् । ( ततः प्रविशति आकाशयानेन सानुमती नामाप्सरसः) इत्यारभ्यमाणस्य षष्टाङ्कस्यादौ बीजभूतमुदन्तमनुभावयन्नकोऽवतीर्णः । अतोऽस्याकाऽवतार इत्यार्थिकी सञ्ज्ञा । सुधाकरकारास्तु-'यनीचैः केवलं पात्रै विभूताऽर्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञयः प्रवेशकः ॥' इति प्रवेशकाऽपरपर्य्यायमेनमाहुरिति ।
एवमकावतारमुदाहृत्य अङ्कमुखं लक्षयितुमुपक्रमते-अथेत्यादिना । अथाङ्कावतारोदाहरणानन्तरम् । अङ्कमुखं 'लक्ष्यते' इति शेषः । ३५० यत्रेत्यादिना ।
३५० यत्र यस्मिन् । एकस्मिन् । अङ्के। अङ्कानामन्येषामिति शेषः । अखिला । सूचना। तत् । अङमखम । इत्याहः। 'आचा-' इति शेषः । यत् । च बीजार्थख्यापकं बीजार्थस्य मूलभूतविषयस्य ख्यापकमिति तथोक्तम् । 'आहुः' इति पूर्वतोऽन्वेति । यथाह भरत:-'विश्लिष्टमुखमङ्कस्य स्त्रिया वा पुरुषस्य वा । यदुपक्षिप्यते पूर्वं तदङ्कमुखमुच्यते ॥' इति ।
उदाहरति-यथेत्यादिना।
यथा। मालतीमाधवे तदाख्ये प्रकरणे । प्रथमातादौ । कामन्दक्यवलोकिते कामन्दकी अवलोकिता चेत्यर्थः। भूरिवसुप्रभृतीनाम् । च । भाविभूमिकानाम् । परिक्षिप्तकथाप्रबन्धस्य । प्रसङ्गात् । सन्निवेशम । सुचितवत्यौ । अयम्भाव:-भाविनीनां वेषरचनानामपि नाम तयोः कल्याणिनोभूरिवसुदेवरातापत्ययोर्मालती. माधवयोरभिमतः पाणिग्रहः स्यात् । “अयि किन वेत्सि यदेकत्र नो विद्यापरिग्रहाय नानादिगन्तवासिनां साहचर्यमासीत त्तदैव चास्मत्सौदामिनीसमक्षमनयो रिवसुदेवरातयोवृत्तेयं प्रतिज्ञा । अवश्यमावाभ्यामपत्यसम्बन्धः कर्तव्य इति तदिदानी विदर्भराजमन्त्रेणासता देवराजेन माधवं पुत्रमान्वीक्षिकिश्रवणाय कुण्डनपुरादिमां पद्मावतीं प्रहिण्वता सुविहितमित्यादिमा कामन्दक्या भूरिवसुदेवरातमालतीमाधवादीनां तत्तचरितानां च" अज्ज माहदो वि कोदूहलमुप्पादिअ मए
१ "हे धीवर! महत्तरत्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसखित्वमस्माकं प्रथमशोभितमिष्यते । इच्छौण्डिकापणमेव गच्छामः" इति संस्कृतम् ।