________________
रुचिराख्यया व्याख्या समेतः
३४७ प्रवेशकोऽनुदात्तोक्त्या नीचपात्रैः प्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥ ३५३ ॥
अङ्कद्वयस्यान्तरिति प्रथमेऽङ्केऽन्त्ये चास्य प्रतिषेधः । यथा वेणीसंहारेऽश्वत्थामाङ्के राक्षस
परिच्छेदः ]
अथ प्रवेशक:
मिथुनम् ।
अथ चूलिका
३४८ अन्तर्जवनिका संस्थैः सूचनाऽर्थस्य चूलिका ।
यथा महावीरचरिते चतुर्थाऽङ्कस्यादौ " ( नेपथ्ये ) भोभो वैमानिकाः । प्रवर्त्तन्तां रङ्गमङ्गलानि ” इत्यादिमा रामेण परशुरामो जितः इति नेपथ्ये पात्रैः सूचितम् ।
अथाङ्कावतारः
३४९ अङ्कान् सूचितः पात्रैस्तदङ्कस्याविभागतः ॥ ३५४ ॥ यत्राऽङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः ।
४४७
क्षपणक कापालिकौ । ताभ्यां मध्यमजघन्यपात्राभ्यां प्रयोजित इति शेषः । यथा वा महावीरचरिते द्वितीयाकादौ माल्यवता शूर्पणखया च कल्पित इति दिक् ।
एवं सप्रभेदकं विष्कम्भकं लक्ष्यलक्षणाभ्यां निरूप्य प्रवेशकं लक्षयितुमाह- अथेत्यादि ।
अथ विष्कम्भको दाहरणानन्तरम् । प्रवेशकः 'लक्ष्यते इति शेषः । ३४७ प्रवेशक इत्यादिना ।
३४७ अनुदात्तोक्त्याऽनुदात्ता संस्कृतेतरेति भावः असावुक्तिस्तया तद्द्द्वारा । नीचपात्रैः । प्रयोजितः । अङ्कद्वयान्तः द्वयोरङ्कयोर्मध्ये इति भावः । अत एवाद्यन्ताभ्यामन्यत्र सम्भवतीति भावः । प्रवेशकः । विज्ञेयः । अत्र च शेषम् । यथा । विष्कम्भके 'तथा कथांशानां निदर्शनम्' इति शेषः ॥ ३५३ ॥
अन्तः पदार्थ विवृणोति अन्तरित्यादिना । स्पष्टम् ।
एवं प्रवेशक्रमुदाहृत्य चूलिकां लक्षयितुमुपक्रमते - अथेत्यादिना ।
अथ । चूलिका लक्ष्यते - ३४८ अन्तरित्यादिना ।
३४८ अन्तर्जवनिका संस्थैर्जवनिकायाःपटक्षेपस्याऽन्तरित्यन्तर्जवनिका तत्र सन्तिष्ठन्तीति तथोक्तैः । आहिताऽभ्यादित्वात् परनिपातः । पात्रैरिति भावः । अर्थस्य । सूचना । चूलिका । अत्र काव्येन्दुप्रकाशकाराः - " अनिर्गताप्रविष्टैश्च नेपथ्यान्तर्गतैस्तथा । प्रयोजिता मध्यपात्रैः सूचिका चूलिका भवेत् ॥ कर्तव्याऽऽद्येतराङ्केषु स्यादादौ मध्य एव वा । सा खण्डाखण्डभेदेन द्विविधा परिकीर्तिता ॥ आद्यान्तः स्याद् द्वितीया तु सप्रवेशविनिर्गमा ।" इति । तथा चचूलिका द्विप्रभेदा खण्डाऽखण्डा चेति, तत्राद्या पात्रप्रवेशरहिता, द्वितीया पुनः पात्रप्रवेशनिर्गमसहितेति तत्त्वार्थः ।
उदाहरति-यथेत्यादिना ।
यथा । महावीरचरिते । चतुर्थाङ्कस्य । आदावारम्भे । " ( नेपथ्ये अन्तर्नटानां वेषपरिवर्तनस्थाने जवनिकायाम् ) भोभोः (सम्भ्रमे द्विरुक्तिः) । वैमानिका विमानसञ्चारिणः । 'येन चरति । ४१४१८ इति ठक् । रङ्गमङ्गलानि रङ्गस्य मङ्गलानीति तानि । प्रवर्तन्ताम् ।” इत्यादिना । रामेण रामभद्रेण । परशुरामो जमदग्निनन्दनः । जितः पराजितः । इति । नैपथ्ये । पात्रैः । सूचितम् । अयम्भावः तत्र हि प्रवर्तन्तां मङ्गलानीत्युद्घोषणानन्तरम् - 'कृशाश्वान्तेवासी जयति भगवान्कौशिकमुनिः सहस्रांशोर्वशे जयति जगति क्षत्रमधुना । विनेता क्षत्रारेर्जगदभयदानत्रतधनः शरण्य लोकानां दिनकर कुलेन्दुर्विजयते । 'इति पात्रैः पठित्वा 'रामेण परशुरामो जित:' इति सूचितं नतूक्तम् । इति ।
एवं चूलिकामुदाहृत्याङ्कावतारं लक्षयति- अथेत्यादिना ।
अथ चूलिकायाः लक्ष्यलक्षणनिर्देशानन्तरम् । अङ्कावतारः 'लक्ष्यते' इति शेषः । ३४९ अङ्कान्ते इत्यादिना । ३४९ यत्र यस्मिन् । अङ्कान्तेऽङ्कसमाप्तौ सत्याम् । पात्रैः । सूचितस्तात्पर्येण निर्दिष्टखरूपः । तदङ्कस्य