________________
૪૬
hdsaiपक्षेपका इत्याह
साहित्यदर्पणः ।
[ षष्ठ:
३४५ अर्थोपक्षेपकाः पञ्च विष्कम्भकप्रवेशको । चूलिकाऽङ्काऽवतारोऽथ स्यादङ्गमुखमित्यपि ॥ ३५० ॥ ३४६ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥ ३५१ ॥ मध्यंन मध्यमाभ्यां वा पात्राभ्यां वा प्रयोजितः । शुद्धः स्यात्स तु सङ्कीर्णो नीचमध्यमकल्पितः ॥ ३५२ ॥
तत्र शुद्धो यथा-मालतीमाधवे श्मशाने कपालकुण्डला । सङ्कीर्णो यथा - रामाऽभिनन्दे क्षपणककापालिकौ
तथाऽऽह भरतः‘एकदिवसप्रवृत्तः कार्यस्त्वङ्कोऽथ बीजमाश्रित्य । आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ दिवसावसा - नकार्यं यद्य नोपपद्यते सर्वम् । अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधेयं हि ॥' इति ॥ ३४९ ॥
कारिकार्थ समवगमयितुं स्वयमाह - क इत्यादि ।
भूयस्त्वनिवृत्त कार्य वाच्यमिति । के । अर्थोपक्षेपका अर्थमभिनेयं कार्यमुपक्षिपन्ति सूचयन्ति इति ते तथोक्ताः । इत्याशङ्कायाम् । आह-३४५ अर्थोपक्षेपका इत्यादिना ।
३४५ विष्कम्भकप्रवेशको विष्कम्भकः प्रवेशकश्चेति द्वावित्यर्थः । विष्कम्नाति रुणद्धीति विष्कम्भः 'कर्मण्यण् । " ३।२।१७० इत्यण् सञ्ज्ञायां कन् । प्रवेशयति निदधाति स्वान्तर्वाच्य विशेषमिति प्रवेशकः । चूलिका चूल्यते समुन्नीयतेऽनयेति तथोक्ता । तदाख्य एकः 'सञ्ज्ञायाम् ।' ३।३।१०९ इति ण्वुल् । अङ्काऽवतारोऽङ्केऽवतारो यस्य तथोक्तः । इत्येकः । अथ । अङ्कमुखमङ्कस्य मुखं द्वारमिति तथोक्तम् । स्यात् । इत्येकः । एवं पञ्च-अपि । अर्थोपक्षेपकाः । 'भवन्ती 'ति शेषः ॥ ३५० ॥
एवं नामतो निर्दिश्य स्वरूपतो निर्देष्टुमाह - ३४६ वृत्ते इत्यादि ।
१४६ अङ्कस्य । आदावारम्भे । वृत्तवर्तिष्यमाणानां वत्ता अतीता वर्तिष्यमाणा आगमिष्यन्तश्चेति तेषाम् । कथांशानाम् । निदर्शको निर्देशकारी । सङ्क्षिप्तार्थः सङ्क्षिप्तोऽर्थो यत्र तथोक्तः । तु । विष्कम्भः । दर्शितः । उपादेयत्वेन प्रतिपादितः । अस्योपादेयत्वं वदति यथा भरतः - 'यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् । विष्कम्भसौ स्वल्पः प्रवेशकैः सोऽभिधातव्यः ॥ ' इति । स च मध्येन' पात्रेणे 'ति शेषः । अस्य वाऽथवा । मध्यमाभ्याम् । पात्राभ्याम् । प्रयोजितः । शुद्धः । स्यात् । नीचमध्यमकल्पितो नीचमध्यमाभ्यां विसदृशाभ्यां पात्रविशेषाभ्यां कल्पित इति तथोक्तः । सः । तु सङ्कीर्णः । तथा चायं द्विविधः शुद्धसङ्कीर्णभेदात्तत्र शुद्ध एकेन मध्यमेन पत्रिण द्वाभ्यां वा मध्यमाभ्यां पात्राभ्यां सम्प्रयोजितः सम्यक्त्वं च संस्कृतप्राकृतात्मकत्वान्नीचमध्यभोभयविधपात्राभ्यां कल्पितः सङ्कीर्णः अत एवाऽत्र संस्कृतप्राकृतोभयभाषाप्राधान्यमिति निष्कृष्टोऽर्थः । यथाऽह भरतः - 'शुद्धः सङ्कीर्णो वा द्विविधो विष्कम्भकोऽपि विज्ञेयः । मध्यमपात्रः शुद्धः सङ्कीर्णो नीचमध्यकृतः ॥ मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽपि तत्त्वज्ञैः । संस्कृतवचनानुगतः सङ्क्षिप्तार्थः प्रवेशकवत् ॥ ३५१ ॥ ३५२ ॥
उदाहरति-तत्रेत्यादिना ।
तत्र तयोः शुद्धसङ्कीर्णयोर्मध्ये । शुद्धः । यथा - मालतीमाधवे प्रकरणरूपके । श्मशाने । कपालकुण्डला अघोरघण्टस्य कापालिकाऽन्तेवासिनी तया प्रयोजित इति शेषः । अयम्भावः - मालतीमाधवे तृतीयेऽङ्के " (ततः प्रविशति आकाशयानेन भीषणोज्ज्वलवेषा कपालकुण्डला ) कपालकुण्डला - ( परिक्रम्यावलोक्य च गन्धमाघ्राय ) इदं तावत्पुराणनिम्बतैलाक्तपरिभृज्यमानरसोनगन्धिभिश्रिताधूमैः पुरस्ताद्विभावितस्य महतः स्मशानवटस्य नेदीयः करालायतनम्... ( परिक्रम्य निष्क्रान्ता ' इत्येवं कपालकुण्डलाया मध्यमपात्रत्वाच्छुद्धो विष्कम्भः । सङ्कीर्णः । यथा । रामाभिनन्दे ।