________________
परिच्छेद
रुचिराख्यया ज्याण्यया समेतः। अङ्केष्वदर्शनीया कथा युद्धादिकथा।
३४३ वर्षादूर्ध्वं तु यद्वस्तु तत्स्यावर्षादधोभवम् ॥ ३४८॥ उक्तं हि मुनिना'अङ्कच्छेदे कार्य मासकृतं वर्षकृतं वापि । तत्सर्व कर्तव्यं वर्षादूर्ध्व न तु कदाचित् ॥' इति ।
एवं च चतुर्दशवर्षव्यापिनि अपि वनवासे ये ये विराधवधादयः कथांशास्तेते वर्षवर्षावयवदिनयुग्मादीनामेकतमेन सूचनीया न विरुद्धाः।
३४४ दिनावसाने कार्य यदिने नैवोपपद्यते ।
अाँपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत् ।। ३४९ ॥
शेषः । स्यात् । सा ।दिनद्धयादिजा । द्वाभ्यां दिनाम्यां त्रिभ्यश्चतुर्यो वा दिनैः सम्पादिता दर्शनीयेति भावः । अन्या नायकस्वभावानुकूला रसानुगुणा एकदिनसम्पादितेति भावः । च । सा । कथा । बुधैः। विस्तरात् । अर्थोपक्षेपेकैर्वक्ष्यमाणलक्षणैर्वाक्यैस्तद्वारेति यावत् । सूच्या । अर्थोपक्षेपकाश्च विष्कम्मकप्रभृतयः पञ्च वक्ष्यन्ते । इदमुक्तम्-युद्धादि साक्षाददर्शयित्वा केवलं वाचा दर्शयेत् वार्षिकं च कार्य दिनाभ्यां दिनैर्वा त्रिभिनिवर्तयेत् । दैनिक रसस्य नायकस्य कार्य चानुगतं यथावत् विष्कम्भकादिना प्रदर्शयेत् इति ॥ ३४८॥
अङ्केषु किमदर्शनीयमित्याशङ्कयाह-अङ्कण्वित्यादिना । स्पष्टम् ।
ननु वर्षादधिककाले एव यन्निवत्यै तत्कथं सम्पादनीयमित्याशङ्कयाह-३४३ वर्षादित्यादिना । ३४३ वर्षावमूलभवम् । तु । यत् । वस्तु। तत् । वर्षांत । अधोभवं कर्तव्य'मिति शेषः । स्यात् ॥३४८॥
उक्तमर्थ मुनिसम्मत्या द्रढयितुमाह उक्तं हीत्यादिना
हि यतः । मुनिना भरतमुनिना । उक्तम् । किमिति तदाह-'मासकृतं मासभवम् । वर्षकृतमेकवर्षमात्र. भवम् । अपि । वा । अङ्कच्छेदे । विष्कम्भादौ अङ्कसमाप्तौ वा । कार्य्यमभिनेयम् । वर्षात् । ऊर्ध्वम् । तु । तत् । सर्व । 'कृतमपी' ति शेषः । न । कदाचित । अपि कर्त्तव्यम अभिनेयम् । किन्तु वर्षान्तर्गतमिव प्रयुञ्जीतेत्यर्थः । यदि अनेकवर्षेपि कृतं तदाऽपि तत्सर्वे मासिकम्, अन्ततः वार्षिकं कृत्वाऽभिनयेत् । एतदपि. यस्मिन्विष्कम्भकाद्यन्यतमे दर्शयितुमारब्धं तस्मिन्नेव तस्य वा अङ्कस्य समाप्तो अवश्यमभिनेयम् । तात्कालिकं हि . यथा चमत्कुरुते न तथा कालान्तरसाध्यमिति भावः ।
फलमवगमयति-एवं चेत्यादिना।
एवं निरूपितनयेन । च पुनः । चतुर्दशवर्षव्यापिनि चतुर्दशवर्षकालं यावत् सम्पादिते इति भावः । अपि । किं पुनस्ततो न्यूनेन कालेन निर्वर्तिते इति भावः । वनवासे । ये ये । विराधवधादयः । आदिना वालिनिग्रहणादीनां ग्रहणम् । कथांशाः कथाया अंशा विभागाः । तेते । सर्व इति शेषः । वर्षवर्षावयवदिनयुग्मादीनां वर्ष च वर्षावयवः (मासादिरूपः) दिनयुग्मं चेति तानि आदौ येषां (दिनत्रयादीनां ) तेषाम् । एकतमेन । सूचनीयाः। ननु तर्हि प्रसिद्धेर्विरोध इत्याशङ्कयाह-न विरुद्धाः। 'नाटके तथैवाऽभिनयत्वा' दिति शेषः ।। ___ यच्चरितमभिनीय प्रदर्शयितुमारब्धोऽङ्कस्तञ्चेदत्र न सर्व तथोपपद्यत तर्हि किं कार्य्यमित्याह-३४४ दिनावसान इत्यादिना ।
३४४ यत । दिने । 'निर्वृत्त' मिति शेषः । कार्य'सर्व'मिति शेषः। दिनावसाने दिनमवसानमन्तोऽन्त्यावधिर्यस्य तस्मिन् तथाभूतेऽङ्के इत्यर्थः । न । एव । उपपद्यते । तत् । अर्थोपक्षेपकैस्तदभिन्नमिति भावः । अभेदे तृतीया। अङ्कच्छेदम् । विधाय । वाच्यम् । अयम्भावः-एकस्मिन्दिने यन्नायकेन कृतं चरितं तदेकस्मिन्नेवाके दर्शनी यम् । अथ यदि तदतिविस्तृतं स्यात्तेन चाङ्कस्य भूयस्त्वं सम्भावयेत्तदा किञ्चित्तस्याऽऽदौ विष्कम्भकादि विधाय वाच्यं