________________
परिच्छेदः ]
रुचिराख्यया ज्याम्पमा समेतः । तत्र पताकेति पताका नायकफलं निर्वहणपर्यन्तमपि पताकाया वृत्तिदर्शनादिति व्याख्यातमभिनवगुप्तपादैः।
३६१ प्रासङ्गिकं प्रदेशस्थं चरितं प्रकरी मता ॥ ३६४ ॥ यथा कुलपत्यङ्के रावणजटायुसंवादः
___३६२ प्रकरीनायकस्य स्यान्न स्वकीयं फलान्तरम् । यथा जटायोर्मोक्षप्राप्तिः।। ३६३ अपेक्षितं तु यत्साध्यमारम्भो यन्निबन्धनः ॥ ३६५ ॥
समापनं च यत्सिद्धबै तत्कार्यमिति सम्मतम् । यथा महावीरचरिते रावणवधः।
द्विमर्शसन्धेः । अथवा इदं समुच्चयार्थम् । 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुचये' इति विश्वः । पताका। विनिवर्तते निवृत्तव्यापारा भवति । कुत इत्यत आह-यस्मात्कस्मादपि हेतो'रिति शेषः । अस्याः पताकायाः । निवन्धः सन्निवेशः समाप्तिरिति यावत् । पदार्थः । परिकीर्त्यते ॥'
इति । मुनिना भरतेन । उक्तम् । तत्र तस्मिन्विषये । “पताकेति 'प्रतीकं कृत्वे'ति शेषः ।नायकफलं पताकानायकफलमिति भावः । पताका । 'अत्रोच्यत'इति शेषः । कुत इत्याह-निर्वहणपर्यन्तं निर्वहणसन्ध्यन्तम् । अपि यथेष्टम् । 'अपि सम्भावनाप्रश्नशङ्कागर्दासमुच्चये । तथा युक्तपदार्थ च कामचारिक्रयासु चेति विश्वः । पता. काया वास्तविक्याः पताकाया इत्यर्थः । प्रवृत्तिदर्शनात् । इति ।' अभिनवगुप्तपादैर्भरतमुनिकृतनाटयशास्त्रव्याख्यातृभिः । व्याख्यातम । तथा च-यन्मुनिना पताकापदं व्यवहृतम्, तलाक्षणिकं नतु वाचकम; अन्यथा मूलव्याख्याग्रन्थयोर्विरोधापत्तरिति निर्गलितोऽर्थः ।
प्रकरौं लक्षयति-३६१ प्रासङ्गिकमित्यादिना । ३६१ प्रासद्दिकम् । प्रदेशस्थमेकदेशवर्तीत्यर्थः । चरितम् । प्रकरी तत्पदवाच्यम् । मता । अत्र भावप्रकाशिकाकाराः 'शोभायै वैदिकादीनां यथा पुष्पाक्षतादयः । अथर्तुवर्णनादिस्तु प्रसङ्गे प्रकरी भवेत् । यथाऽभिज्ञाने शाकुन्तले षष्ठेऽके-'ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी-अपरा च पृछतस्तस्याः ।' इत्यादिना 'नेपथ्ये' इत्यन्तेन ।'इत्याहुः ।
उदाहरति-यथेत्यादिना । यथा। कुलपत्य तदाख्ये रूपकविशेषे । रावणजटायुसंवादः। - प्रासङ्गिकमिति पदेन व्यवच्छेद्यं लक्षयति-३६२ प्रकरीनायकस्येत्यादिना । ... ३६२ प्रकरीनायकस्य यवुत्तं प्रकरीत्यभिधीयते तस्येति भावः । स्वकीयं स्खमात्रोपकारीत्यर्थः । फलान्तरमन्यत्फलम् । न 'प्रकरीति'पूर्वतोऽन्वेति । स्यात ।
उदाहरति-यथेत्यादिना।
यथा। जटायोः। मोक्षप्राप्तिः। अयम्भावः-जटायोमेक्षिप्राप्तिर्वर्ण्यमाना न प्रकृतोपयोगिनी किन्तु तस्यैव श्रेयस्करीति तदिदं वृत्तं न पताका। यः पुना रावणेन संवादः स प्रकृतोपयोगीत्यस्य प्रासङ्गिकत्वात्प्रकरीत्वम् । तदेकदेशवर्तित्वमात्रम् । इति ।
कार्यमाह-३६३ अपेक्षितमित्यादिना ।
३६३ अपेक्षितं न तु प्रासङ्गिकम् । तु । यत् । साध्यं साधनीयम् । यन्निवन्धनो यन्निबन्धनमुद्देशो यस्य तादृशः । यदृच्छाप्रयोज्य इत्यर्थः । आरम्भः प्रथमा प्रवृत्तिः । यत्यैि यस्य सिद्धये । च । समापनं समस्तानां सामग्रीणां समासादनम् । तत् । कार्यम् । इति । सम्मतम् ॥ ३६५ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् । रामचरिते इति पाठे तु तत्प्रधाने बालरामायणादावित्यर्थः ।