________________
४४२
साहित्यदर्पणः।
.
[षष्ठ:
३३९ अर्थापक्षेपकं यच्च लीनं सविनयं भवेत् । ।
श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदमुच्यते ॥ ३४४ ॥ लीनमव्यक्तार्थम् , शिष्टेन सम्बन्धयोग्येनाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोपेतम् , सविनयं विशेषनिश्चयप्राप्त्या सहितं सम्पाद्यते यत्ततृतीयं पताकास्थानकम् । . . यथा वेणीसंहारे द्वितीयेऽङ्के “कचुकी-देव ! भग्नम् ( सर्वे साकृतं पश्यन्ति ) । राजा-केन ? कञ्चुकी-भीमेन । राजा-कस्य? कञ्चुकी-भवतः। राजा-आः! किं प्रलपसि? भानुमती-'अज ! किं अणिढें मत्तेर्सि' राजा-धिक प्रलापिन् ! वृद्धापसद ! कोऽयमद्य ते व्यामोहः ? कञ्चुकी-देव ! न खलु कश्चिद्ध्यामोहः। सत्यमेव ब्रवीमि-'भने भीमेन भवतो मरुता रथकेतनम् । पतितं किङ्किणीकाणबद्धाक्रन्दमिव क्षितौ ॥३३९॥"
तृतीय भेदं लक्षयति-३३९ अर्थोपक्षेपकमित्यादिना।
१३९ यत् । च । 'त्वि'ति पाठान्तरम् । अर्थोपक्षेपकं प्रयोजनसूचकम् (ईदं च वक्ष्यमाणविष्कम्भकाद्यन्यतम. मिति बोध्यम् ) । लीनमव्यक्तार्थतया गूढम् । सविनयं विनयेन विशिष्टेन नयेन प्राप्या सह वर्तते इति तथोतम् । विशिष्टो मयश्च विशेषेण निश्चितो लाभः । भवेत । इदम् । 'त'दिति शेषः । श्लिष्टप्रत्युत्तरोपेतं श्लिष्टं यत्प्रत्युत्तरं तेनोपेतम् । तृतीयम् । पताकास्थानकम् । उच्यते । इदमुक्तम्-यत् प्रयोजनं सूचयत् अवश्यम्भावि श्लिष्टप्रत्युत्तरशालितया गूढं वचः स्यात्तत्तृतीयं पताकास्थानकम् । इति ॥ ३४४ ॥
कारिकां सुगमयितुं तत्तत्काठिन्यं परिहरति-लीनमित्यादिना । स्पष्टम् । उदाहरति-यथेत्यादिना ।
यथा-वेणीसंहारे। द्वितीये । अङ्के “राजा तत्किमिति अनास्तीर्ण कठिनं शिलातलमध्यास्ते देवी । यतः-'लोलांशुकस्य पवनाकुलितांशुकान्तं त्वदृष्टिहारि मम लोचनबान्धवस्य । अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरुयुग्मम् ॥' (प्रविश्यापटाक्षेपेण सम्भ्रान्तः )" इत्यन्तरमिति शेषः । “कञ्चुकी "अन्त:परचरो वृद्धो विप्रो गुणगणान्वितः । सर्वकार्य्यार्थकुशल: कञ्चुकीत्यभिधीयते ॥” इत्युक्तलक्षणः पुरुषविशेषः । 'राजानं प्रत्याहेति शेषः । देव! राजनिति भावः । 'देवो मेघे सुरे राज्ञि स्यान्नपुंसकमिन्द्रिये ।' इति मेदिनी । भग्नम् ('जरावैकुव्ययक्तेन विषद्गात्रेण कञ्चुकी ।' इत्युक्त्याऽस्य सपदि समस्तं वाक्यमुच्चरितुमशक्ततया तावत् उच्चारणमिति बोध्यम् ) । (सर्वेऽन्तः पुरजनाः । साकूतमभिप्रायजिज्ञासामुद्रयेति भावः । पश्यन्ति) । राजा। केन! 'मन मिति शेषः । कचुकी । भीमेन भयङ्करेण । 'भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे ।' इति मेदिनी । राजा । कस्य ? 'भग्न'मिति पूर्वतोऽनुप्रसक्तम् । 'ऊरुयुग'मिति तु स्मृतिमारूढम् । कचुकी। भवतः ('कि'मिति राज्ञः प्रश्नानुदयात् 'रथकेतन'मिति विवक्षितमपि नोक्तवान् )। राजा। आः। किम् । प्रलपसि अनर्थकं ब्रवीषि? भानुमती । 'अज्ज आर्य । कि किम् । अणि, अनिष्टम् । मंतेसि मन्त्रयसे?' । राजा। वृद्धापसद ! अत एव-पलापिन् ! धिक् 'त्या'मिति शेषः । कः किनामा किंस्वरूपो वेति भावः । अयम् । भन्नं भीमेन भवत इत्युच्चारणरूप इत्यर्थः । अद्य । ते । व्यामोहः । कञ्चुकी । देव! न खलु। कश्चित् । ध्यामोहः। सत्यम् । एव । ब्रवीमि-तथाहि-"भीमेन । मरुता वायुना । भवतः। रथकेतनं रथस्य पताका 'केतनं ध्वजमस्त्रियाम् ।' इत्यमरः । भग्नम् । तच्च-किङ्किणीकाणबद्धाक्रन्दमिव किङ्किणीनां क्षुद्रघण्टिकानां क्वाणः शब्दविशेषस्तेन बद्धो य आक्रन्दो भञ्जनपतनयोः शब्दो यस्य तदिव । क्षितौ । पतितम् । अत्रेदम्बोध्यम्-'भग्नं भीमेन महता भवतो रथकेतनम् ।' इत्यभिधित्सुः कञ्चुकी यावत् 'भग्नम्' इत्यभिहितवान् , तावत्-ऊरुयुगमध्यासितुं भानुमतीमभिदधानः-अत एव-'ऊरुयुग'भिति स्मरन् , तदेव श्रुतवान् , अत एव-'किमि'त्यपृष्ट्वैव राजा 'केन कस्ये'ति
१ "आर्य! किमनिष्टं मन्नयसे" इति संस्कृतम् ।