________________
रुचिराख्यया व्याख्या समेतः ।
इत्यादिफलरूपाऽर्थसम्पतिः पूर्वापेक्षयोपचारातिशयागुणवती उत्कृष्टा । ३३८ वचः सातिशयं श्लिष्टं नानाबन्धसमाश्रयम् । पताकास्थानकमिदं द्वितीयं परिकीर्तितम् || ३४३ ॥
परिच्छेद: 1
૪૨
यथा-वेणीसंहारे
“निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ३३८ ॥" अव रक्तादीनां रुधिरशरीराद्यर्थहेतुकश्लेषवशेन बीजार्थप्रतिपादनानेतुमङ्गलप्रतिपत्तौ सत्यां द्वितीयं पताकास्थानकम् ।
उदाहारणं सङ्गमयति- इत्यादीत्यादिना ।
इत्यादिफलरूपेत्यादिफलं वासवदत्तोद्बन्धनधिया तन्मोचनार्थ प्रवृत्तौ सागरिकाला भरूपं प्रयोजनं तदेव रूपं यस्यास्तथोक्ता । अर्थसम्पत्तिः । पूर्वापेक्षया वासवदत्ताऽपेक्षया । उपचारातिशयात् सादृश्यातिशयात् । गुणवती उत्कृष्टा । अयम्भावः - वासवदत्ताया वेषं धृत्वा तस्याः सङ्केतस्थले मदनार्त्ता सागारिका राजानमुपगम्यापि वासवदत्ताभयेन पाशं कण्ठे श्रुत्वा जीवितं त्यक्तुमैच्छत्, राजा च वासवदत्तयाऽवहेलितस्तां मदनार्त्तोऽन्विच्छन् तथा सागरिकां दृष्ट्वा पाशमपनयन् तस्याः ( सागरिकायाः ) उक्त्या तां सागरिकामे वावगम्य 'क्षणमिह..' इत्युक्तवान् तच्च तद्रक्षणं तत्सुरतार्थे वा चेष्टितमतर्कितो वासवदत्ताया लाभापेक्षया रत्नावलीलाभोऽतिशयित इति पताकास्थानकाधिकृतमिदम् । इति ।
द्वितीय भेदं लक्षयति- ३३८ वच इत्यादिना ।
३३८ सातिशयम् । श्लिष्टं नानाऽर्थप्रत्यायकतया सम्बद्धम् । नानाबन्धसमाश्रयम् नानाबन्धेन अनेकविधरचनाविशेषेण सम आश्रय उपजीव्यपदं यस्य तथोक्तम्, विविधविशेषणानुयोगिविशेष्यार्थप्रतिपादनानुकूलरचनाशालीति भावः । वचः । इदम् । द्वितीयम् । पताकास्थानकम् । परिकीर्तितम् ॥ ३४३ ॥
उदाहरति यथेत्यादिना ।
यथा वेणीसंहारे 'प्रथमेऽङ्के' इति शेषः ।
"अरीणां शत्रूणाम् । प्रशमात् शान्तत्वात् । निर्वाणवैरदहमो निर्वाणः प्रशान्तो वैरदहनो वैराग्निर्येषां तथोक्ताः । पाण्डुतनया युधिष्ठिरादयः । माधवेन श्रीकृष्णेन । सह । नन्दन्तु । कुरुराजसुताः कुरुराजो धृतराष्ट्रस्तस्य सुताः, दुर्योधनादय इत्यर्थः । च । सभृत्याः । रक्तप्रसाधितभुवो रक्तेनानुरागेण रुधिरेण वा प्रसाधिता भूर्यैर्येषां वेति तथोक्ताः । क्षतविग्रहाः क्षता नष्टा विग्रहा युद्धानि शरीराणि वा येषां तथोक्ताः । स्वस्था अनुद्विनाः स्वर्गस्था वेति भावः । भवन्तु ॥ ३३८ ॥"
उदाहरणं सङ्गमयति-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्ये इति भावः । रक्तादीनां रक्तविग्रह स्व ( : ) शब्दानाम् । दधिरशरीराद्यर्थहेतुक - श्लेषवशेन रुधिरशरीरस्वर्गार्थहेतुकश्लेषपारतन्त्र्येणेति भावः । बीजार्थप्रतिपादनाद्वीजं वेणीसंहाररूपस्य कार्यस्य कारणविशेषस्तदेवार्थस्तस्य प्रतिपादनं तस्मात् । नेतृमङ्गलप्रतिपत्तौ नेतुर्नायकस्य युधिष्ठिरस्येति यावन्मङ्गलं प्रतिनायकदुर्योधनाद्यमङ्गलप्रतिपत्तिपूर्वकमाह्लादनं तस्य प्रतिपत्तिस्तस्याम् । सत्याम् । द्वितीयम् । पताकास्थानकम् । अयम्भावः–“निर्वाणवैरदहनाः..." इत्यादेः " रक्तप्रसाधितभुवः..." इत्यादौ रक्तादीनां पदानामनुरागाद्यर्थश्चिन्तितः, अथापि तेषामनेकार्थकतया “आ: ! दुरात्मन् ! वृथामङ्गलपाठक ! शैलूषाधम !" इत्याद्युक्तदिशा भीमसेनक्रोधोपचितस्य प्रधानाय युधिष्ठिरोत्साहस्य वेणीसंहारसन्दर्भकारणस्य सूचनान्नेतुर्म्मङ्गलं प्रतिनायकस्य चामङ्गलं प्रतिभासते । एवं च दुर्योधनादीनां मङ्गले चिन्त्यमाने युधि रादीनां मङ्गलं दुर्योधनादीनां चामङ्गलं प्रतिभासते । इतीदं द्वितीयम् । इति ।
५६