________________
४४०
साहित्यदर्पणः ।
३३६ यत्रार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत् ॥ ३४९ ॥
तद्भेदानाह ।
३३७ सहसैवार्थसम्पत्तिर्गुणवत्युषचारतः ।
पताकास्थानकमिदं प्रथमं परिकीर्तितम् ॥ ३४२ ॥
[ षष्टः
यथा - रत्नावल्याम्, “वासवदत्तेयम्" इति राजा यदा तत्कण्ठपाशं मोचयति, तदा तदुक्या " सागरिकेयम्” इति प्रत्यभिज्ञाय " कथं मे प्रिया सागरिका" ( इति कण्ठात् पाशमाक्षिप्य )"अलमलमतिमात्रं साहसेनामुना ते, त्वरितमयि विमुञ्च त्वं लतापाशमेतम् ।
चलितमपि निरोद्धुं जीवितं जीवितेशे ! क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥ २३७ ॥"
पताकास्थानकं लक्षयति-३३६ यत्रार्थे इत्यादिना ।
३३६ यत्र यस्मिन् । अन्यस्मिन् । अर्थे । चिन्तिते 'सती' ति शेषः । तल्लिङ्गचिन्तितसदृशः । अन्यः । 'अर्थ' इति शेषः । आगन्तुके ना नियमितोपस्थितिकेन । भावेन तात्पर्येण । सहार्थेयं तृतीया । प्रयुज्यते । तत् । तु । पताकास्थानकम् । 'मत' मिति शेषः ॥ ३४१ ॥
तद्भेदान् वक्तुमुपक्रममाण आह-तद्भेदानित्यादिना । स्पष्टम् । ३३७ सहसेत्यादिना ।
३३७ सहसा । एव । उपचारतोऽभेदाध्यवसायात् । गुणवती प्रशस्तगुणा । अर्थसम्पत्तिर्मनोरथसिद्धिः । इदम् (अत्र - 'सर्वनानामुद्देश्य विधेयलिङ्गभाक्त्वं पर्यायेण भवति' इति नयेन क्लीबत्वम् ) । प्रथमं मुख्यमेकं वेति भावः । पताकास्थानकम् । परिकीर्त्तितम् ॥ ३४२ ॥
उदाहरति-यथेत्यादिना ।
यथा । रत्नावल्यां । 'तृतीयेऽङ्के' इति शेषः । " वासवदत्ता वत्सराजस्य देवी । इयम् ।" इति 'उक्त्वे' ति शेषः । राजा । यदा । तत्कण्ठपाशं तस्या वासवदत्तावेषधारिण्याः सागरिकायाः कण्ठस्तत्र पातितः पाशस्तम् । मोचयति । तदा । तदुक्तया वासवदत्तात्वेनाध्यवसिताया रत्नावल्या उक्तिस्तया इत्यर्थः ( "मुंचदु मुंचदु मं भा पराहिणो क्खु अअं जणो ण पुणो ईदिशं अबसरं मरिदुं पावेदि, तुमं वि देबीए मा अप्पाणं अवराहिणं करेसि" इति च तदुक्ति: ) । “इयं वासवदत्ता वेषधारिणीत्यर्थः । सागरिका ।" इति । प्रत्यभिज्ञाय । "कथम् 'मत्र्त्तुमुपस्थिते' ति शेषः । मे प्रिया । सागरिका रत्नावली ।" ( इति । कण्ठात् । पाशम् । आक्षिप्य 'स्वकण्ठे तद्वाहुपाशं निदध' दिति शेषः ) ।
"अतिमात्रम् | अमुनोद्बन्धनद्वारा प्राणत्यागार्थेन उद्यमरूपेणेति भावः । साहसेन कर्मणा । ' गम्यमानाऽपि क्रिया कारकविभक्तौ प्रयोजिके' ति नयेन तृतीया । ते। अलमलम् । ( सम्भ्रमे द्विरुक्ति: ) । अयि ( इदं कोमलालापे ) त्वरितम् | त्वम् । एतम् । लतापाशम् । विमुञ्च । हे जीवितेशे प्राणेश्वरि ! चलितं ' स्थानं त्यक्त्वा ' इति शेषः । अपि । मम । जीवितम् । निरोद्धुम् । इह । कण्ठे । बाहुपाशम् । क्षणं 'यावत् पुनः प्रत्यागतं न स्यात्' इति शेषः । निधेहि । निर्गच्छतोऽवरोधाय यथा पाशो निक्षिप्यते, तथा मम जीवितस्यावरोधाय तव बाहुपाश एवालमिति भावः । मालिनीवृत्तम् । “मालिनी नौ म्यौ य् ।” इति ( पि. सू. ) “यदाऽष्टभिः सप्तभिश्व यतिः" इति ( . ) ॥ २३७ ॥"
१ " मुञ्चतुमुचतु मां भर्त्ता, पराधीनः खल्वयं जनो न पुनरीदृशमवसरं मर्तु प्राप्नोति त्वमपि देष्वा माssत्मानमपराधिनं करोषि । " इति संस्कृतम् ।