________________
परिच्छेदः ]
अत्र- दुर्योधनोरुभङ्गरूपप्रस्तुत सङ्कान्तमर्थोपक्षेपणम् ।
विराख्यया व्याख्यया समेतः ।
३४० इयर्थी वचनविन्यासः सुश्लिष्टः काव्ययोजितः । प्रधानार्थान्तराक्षेपी पताकास्थानकं परम् || ३४५ ॥
यथा रत्नावल्याम्
४४३
"उदामोत्कलिकाविपाण्डुररुचं प्रारब्धजृम्भां क्षणादायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यान लतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन् कोपविपाटलद्युतिमुखं देव्याः करिष्याम्यहम् ॥ ३४० ॥' अथ भाव्यर्थः सूचितः
एतानि चत्वारि पताकास्थानकानि क्वचिन्मङ्गलार्थ क्वचिदमङ्गलार्थमपि सर्वसन्धिसु भवन्ति ।
पप्रच्छ, सोऽपि तथैवोत्तरितवान् राजा च ' ऊरुयुग' मिति स्मरन् चुकोप, कुञ्चुकी च 'सर्वमश्रुत्वैव भवान् कुप्यती 'ति 'न मे कश्चिद् व्यामोह' इति निवेदयाञ्चक्रे ।" इति ॥ ३३९ ॥
उदाहरणं सङ्गमयति-अत्रेत्यादिना । स्पष्टम् । अयम्भावः - ' रथकेतनं भग्नम्' इति निवेदनरूपस्य अर्थस्योपक्षे पण 'दुर्योधनोरुयुगं भग्नम्' इत्यत्र पर्यवसितम्, एवं च भग्नमित्यन्यक्तार्थम् कर्त्रादीनामनुष्चरितत्वात् । भीमेन भवत इति च ऊरुभङ्गेऽन्वयोपयोगि, तदेवाभिप्रायान्तरप्रयुक्तेन प्रत्युत्तरेणोपेतम् । मरुता रथकेतनमिति च विशेषनिश्चय - प्राप्तिरूपम् । इति ।
चतुर्थ लक्षयति- ३४० द्वयर्थ इत्यादिना ।
३४० द्वयर्थः । अतएव - सुष्टिः । काव्ययोजितः काव्ये पद्यमयप्रबन्धे इति भावः । एतेन - गद्यस्य निरास: । अत एव - 'भन' मिति प्रागुदाहृतादेतस्य भेद इति बोध्यम् । प्रधानार्थान्तराक्षेपी प्रधानं फलमेवार्थान्तर मिति तदाक्षिपतीत्येवंशीलः । वचनविन्यासः । परमन्यत् पताकास्थानकम् ॥ ३४५॥
उदाहरति-यथा - रत्नावल्याम् - "उद्दामोत्कलिके" त्यादौ ।
“अद्य । उद्दामोत्कलिकाविपाण्डुररुच मुद्दामात्यन्तमुद्गता याः कलिकास्ताभिः, अन्यत्र - उद्दामात्यन्तं योकलिकोत्कण्ठा तया विपाण्डुरा रुच् कान्तिर्यस्यास्ताम् । 'उत्कण्ठोत्कलिके समे' इत्यमरः । प्रारब्धजृम्भां प्रारब्धा जृम्भा विकासः, अन्यत्र विरहाधिना कार्येषु विरतिसूचकं मुखव्यादानलक्षणं चेष्टितं यस्यास्ताम् । क्षणात् । अविरलैः । श्वसनोगमैः श्वसनस्य वायोः, अन्यत्र श्वासस्योद्गमास्तैः । आत्मनः । आय सं कम्पारूपं खेदम् । आतन्वतीम् । समदनां मदनेन वृक्षविशेषेण, अन्यत्र कामदेवेन सह वर्त्तते इति तां तथाविधाम् । इमाम् । उद्यानलताम् । अन्या मपराम् । नारीम् । इव । पश्यन् । अहम् । ध्रुवम् । देव्या वासवदत्तायाः । कोपविपाटलद्युति कोपेन विपाटला विशेषेण पाटला श्वेतरक्ता द्युतिर्यस्य तत्तथाविधम् । मुखम् । करिष्यामि । नायिकायाः सपत्नीदर्शनम सत्यमिति तथोक्तमिति बोध्यम् । अत्र शार्दूलविक्रीडितं वृत्तम्, तलक्षणं चोक्तं प्राक् ॥ ३४० ॥"
उदाहरणफलमाह - अत्रेत्यादिना ।
अत्राsस्मिन्नुदाहृते पद्ये । भावी भविष्यः । सागरिकायामनुनयं निदधानं राजानं विलोक्य वासवदत्ताया: कोप इति शेषः । अर्थः । सूचितः । तथा चाऽत्र प्रधानं वासवदत्तायाः कुतूहलेन प्रणयकोपोद्भावनम् अर्थान्तरं पुनः साक्षादेतदिति बोध्यम् ।
ननु कुत्र कविना किमर्थमेतानि निवेशनीयानि इत्याशङ्कयाह - एतानीत्यादिना ।
एतानि निर्दिष्टानि । चत्वारि । पताकास्थानकानि । क्वचित कस्मिंश्चित् रूपके इत्यर्थः । मङ्गलार्थम् । क्वचिद् । अमङ्गलार्थम् । अपि । सर्वसन्धिषु सर्वे वक्ष्यमाणाः पञ्चविधाः सन्धयो विभागास्तेषु । भवन्ति ' इति बोध्य' मिति शेषः ।