________________
४३४ खाहित्यदर्पणः।
[ षष्ठःइति सूत्रधारेण पठिते ( नेपथ्ये ) "साधु भरतपुत्र ! साधु ! ! एवमेतत् ! ! ! कः सन्देहः ?' "दीपादन्यस्मादपि..."इति पठित्वा यौगन्धरायणस्य प्रवेशः। वाक्यार्थों यथा वेणीसंहारे
“निर्वाणवैरदहनाःप्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसादितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ २३१॥" इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा "नेपथ्ये । आः पाप! दुरात्मन् ! वृथामङ्गलपाठक ! शैलूषापसद!
"अभिमुखीभूतः अनुकूलता आप्त इति भावः । विधिवम् । “विधिविधाने दैवेऽपि'इत्यमरः । अन्यस्मात स्वसन्निहितद्वीपतो भिन्नादिस्यर्थः । अपि “किं पुनस्तस्मादेवे'ति शेषः । द्वीपात् । यथा स्वसन्निहितो द्वीपो जम्बूनामा. तस्मात् भिन्नः प्लक्षाद्यन्यतम इति बोध्यम् । जलनिधेः समुद्रस्य । मध्यात् । अपि 'किं पुनस्तन्निकटादिति शेषः । दिशः पूर्वाचन्यतमायाः काष्ठाया उपचारात्तदुपलक्षितस्य दविष्ठस्य देशस्येत्यर्थः । अन्तात् । अपि 'किं पुनर्निकटात' इति शेषः । आनीय प्रापय्य । झटिति विना विलम्बम् । अभिमतं वाञ्छितमर्थमिति भावः । घटयति सहामयति । अत्रााछन्दः, “यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चसुर्थके पञ्चदश साऽऽा ।" इति ॥ २३० ॥"
इति । सूत्रधारेण सूत्रधारकेण स्थापकेन नटेनेति यावत् । पठिते तत्कृतपाठानन्तरमिति भावः। “नेपथ्ये) साधु भरतपुत्र ! साधु सम्यक् !! एवं यथा भवानाह-"द्वीपादन्यस्मादपि' इत्यादि तथेति भावः । एतत 'विधिप्रसादवलक्षण्यमिति शेषः !!! कः । सन्देहः संशयः । “दीपादन्यस्मादपि..' इति । पठित्वा ।
यौगन्धरायणस्य तदाख्यस्य नगररक्षकस्य श्रीवत्सराज-राजामात्यस्येति यावत् । प्रवेशः । इदमुक्तम्-देशान्तरे दातुं . प्रतिज्ञातायाः पुत्र्याः कथं परिणयो भविष्यतीत्यावेगनिवृत्तये नटी प्रति सूत्रधारकेण तथाऽऽश्वासितम् । अत्र यौगन्ध. रायणस्य सूत्रधारवाक्यमादाय प्रवेश इति वाक्यात् पात्रप्रवेशो नाम कथोद्धातः । इति ।
वाक्याथै समादाय पात्रप्रवेशमुदाहरति-वाक्यार्थ इत्यादिना । वाक्यार्थी। यथा । वेणीसंहारे तदाख्ये नारायणभट्टकृते नाटक इति भावः । वेण्यामिति पाठान्तरम।
"अरीणां शत्रूणां कौरवाणामिति यावत् । प्रशमात् कंसाररुपदेशात् वैरमपहायावस्थानादिति भावः । र्वाणवैरदहना निर्वाणः प्रशान्तो वैरदहनो दहनोपमितं वैरं येषां तथोक्ताः । वैरं दहन इवेति वैरदहनः । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।' २।१।५६ इत्युपमितसमासः। माधवेन माया रमाया मायाया वाधवः स्वामी तेन । 'मा मायायां रमायां च' इति गोपालः । 'धवः पुमानटे धूर्ते पत्यौ वृक्षान्तरेऽपि च।" इति मेदिनी । सह। पाण् तनयाः पाण्डोस्तनयाः पुत्रा युधिष्ठिराद्या इति भावः । नन्दन्तु राज्यांशं प्राप्य भीष्मादिभीतिशून्याः सन्तः सुखमनभवन्विति भावः । कुरुराजसुताः कुरुराजस्य धृतराष्ट्रस्य सुताः पुत्रा दुर्योधनादय इति भावः । च। सभत्याः भृत्यैरुपलक्षणेनानुयायिभिश्च सह वर्तन्त इति तथोक्ता इति भावः । रक्तप्रसाधितभुवो रक्तेन रागेणानुरागेणेति यावत् प्रसाधिता अलङ्कृता अनुरञ्जिता इति यावत् भुवः भूविभागा भूर्वा यैस्तथोक्ताः । 'नपुंसके भावे क्तः ।।।। ११४ इति क्तः । क्षतविग्रहाः क्षतो विनष्टो निवृत्त इति यावद् विग्रहो युद्धं येषां तथाभूताः । 'विग्रहः कायविस्तारविभाने मा रणेऽस्त्रियाम् ।' इति मेदिनी । “सन्त" इति शेषः । स्वस्था अनुद्विग्नाः । भवन्तु । अत्र वसन्ततिलकं वृत्तम् , तल्लक्षणं च यथोक्तम् "वसन्ततिलकं त्भौ ज्गौ ग।" इति ॥ २३२॥"
इति एव' मिति शेषः । सूत्रधारेण सूत्रधारकेणेत्यर्थः । पठितस्य। वाक्यस्य । अर्थ तात्पर्य्यम् । गृहीत्वा "नेपथ्ये । आः। पाप ! दुरात्मन् ! वृथामङ्गलपाठक ! शैलूषापसद शैलूषेषु नटेष्वपसदोऽधमः इति तत्सम्बुद्धी तथोक्त ! 'नटे बिल्वे च शैलूषः' इति रभसः।
नि