________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । अत्रान्यार्थान्यपि पदानि हृदयस्थार्थगत्या अर्थान्तरे सङ्क्रमय्य पात्रप्रवेशः। ३२६ सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा ।
भवेत् पात्रप्रवेशश्चेत् कथोद्धातः स उच्यते ॥ ३३२॥ वाक्यं यथा, रत्नावल्याम्
"" द्वीपादन्यस्मादपि मध्यादपि जलनिर्दिशोऽप्यन्तात् ।
__ आनीय झटिति घटयति, विधिरभिमतमभिमुखीभूतः॥२३०॥" केतुर्लक्षणया राहरित्यर्थः । पूर्णमण्डलं सर्वाभिः कलाभिः परिपूर्णमित्यर्थः । चन्द्रमसं चन्द्रम् । बलात् । अभि. भवितुं तिरस्कर्ते ग्रसितुमिति यावत् । इच्छति ।[इति ‘एवम्' इति शेषः । अोक्त अर्द्धमसम्पूर्णमुक्तं तत्र तथाभते सतीत्यर्थः । असम्पूर्णत्वं च "रक्षत्येनं तु बुधयोगः ॥” इत्यवशिष्टत्वादिति बोध्यम् ] मेपथ्ये वेषोपकल्पनगृहे । 'केनापि उद्धोष्यते' इति शेषः । आः! कष्टं चित्रं वेत्यर्थः । 'आः स्मरणेऽपाकरणे कष्टे कोपविकासने ।' इति गोपालः । कः । एषः 'सकेतुः क्रूरग्रह' इति शेषः । मयि वक्तरि श्रोतरि वा (चाणक्ये) इति भावः । जीवति 'सती'ति शेषः । चन्द्रगुप्तम् । अभिभवितुं तिरस्कर्तुं राज्यात् पुनः प्रच्योतयितुमिति यावत् । इच्छति कामयते । अत्रा
:: । तुर्यपादोऽस्य "रक्षत्येनं तु बुधयोगः ॥” इति।" इति । इदमुक्तम्-चन्द्रोपरागनिमित्तं ब्राह्मणान् भोजयितुं पाकः सम्पाद्यत इति नट्याऽभिहितमाकर्ण्य साङ्गे ज्योतिश्शास्त्रे निष्णातोऽस्मि नाद्योपरागः, तत् केनापि प्रतारिताऽसि । इत्युक्त्वा सूत्रधारः-"आःसाम्प्रतं चन्द्रमसंपूर्णमण्डलं सकेतुः क्रूरग्रहोऽभिभवितुं बलात् कामयते, न पुनः प्रभविष्यति ।" इत्युक्तम् । अत्र "रक्षत्येनं तु बुधयोगः ॥” इत्यंशावशेषः । इति । [इति 'एव'मिति शेषः । अोक्तेऽर्द्ध लक्षणयाs. सम्पूर्णमुक्त तथाभूते 'सती'ति शेषः ] नेपथ्ये वेषे उपचारात् भूमौ तत्स्थाने । 'नेपथ्यं तु प्रसाधने। रङ्गभूमौ वेषभूमौ' इति हैमः । आः ! कः । एषः । मयि (चाणक्ये)। जीवति सतिसप्तमीयम् । चन्द्रगुप्तं तदाख्यं प्रकृतनन्दात्सुरानामन्यां दास्यामुद्भतं चाणक्यसाहाय्येन योगानन्दं निहत्य तद्राज्येऽभिषिक्तं राजानमिति भावः । अभिभवितुं राज्याझंशयितम् । इच्छतीति । अयम्भाव:-'क्रूरग्रहः..बलात्' इत्येव निशम्य तस्य च सकेतु: केतुना मलयकेतुना सह वर्त्तते इति तथोक्तः । क्रूरग्रहः क्रूरे कूटव्यवहारे ग्रह आग्रहो यस्येति तथोक्तः । “अमात्यपदप्रतिष्टितो राक्षसाख्यः पण्डित" इति शेषः । इदानीमभिषेकतः क.लात्यन्तानत्ययावसरे इति भावः । अत एव-असम्पूर्णमण्डलं न सम्पूर्ण दस्युपद्रवशान्त्यादिना पूर्णाधिकारं मण्डलं देशो राज्यमिति यावत् यस्य तथोक्तम् । 'मण्डलं परिधौ कोष्टे देशे द्वादशराजसु । क्लीबेऽथ निवहे बिम्बे त्रिषु पुंसि तु कुक्कुरे ॥'इति मेदिनी। चन्द्रं चन्द्रगुप्तम् । अभिभवितुं राज्याझं. शयितुम् । बलादलं मित्रादिसाहाय्यं प्राप्येत्यर्थः । ल्यब्लोपे पञ्चमी इच्छति ।"इत्यर्थ चानुसन्धाय (नेपथ्यगृहे स्थितेन) चाणक्यनाभिहितम "आः ! क एषः ! मयि जीवति चन्द्रगुप्तमभिभवितुमिच्छती"ति । एवं च-तथाऽमर्षोंदये चाणक्यस्य प्रादुर्भावः स्थाने । इति ।।
अत्र तात्पर्य्य निर्दिशति-अत्रेत्यादिना।
अत्रास्मिन्नुदाहृतेऽशे इत्यर्थः । अन्यार्थानि अन्यश्चन्द्रोपरागसम्भवानवगमकतापरोऽर्थस्तात्पर्य्य येषां तानि तथोक्तानि । अपि । पदानि । हदयस्थार्थगत्या हृदये स्वमनसि तिष्ठतीति सोऽसावर्थस्तस्य गत्या सङ्गत्याss. नुकूल्येनेत्यर्थः । अर्थान्तरे द्वितीयेऽर्थे । सङ्क्रमय्य परिणमय्य । पात्रप्रवेशः पात्रस्य चाणक्यरूपस्य पुरुषस्य (नाटकीयात्मनाऽवस्थितस्य)प्रवेशः । अयम्भाव:-"क्रूरग्रहः..."इत्यादेः सूत्रधारेणोक्तस्य स्थानुकूल्येन तात्पर्य निर्दिशन चाणक्यः प्रविष्टः । अतः-अत्रास्फुटार्थानां क्रूरग्रहादिपदानामन्यथायोजनादुद्धात्यको नाम प्रस्तावना । इति । . ३२६ चेद् यदि । सूत्रधारस्य । वाक्यम् । वा । अस्य वाक्यस्येत्यर्थः । अर्थम् । समादाय गृहीत्वा । वा (इदं च वाक्यालङ्कारे) । पात्रप्रवेशः । भवेत् । 'ती' ति शेषः । सः प्रसिद्ध इति भावः । कथोद्धातः तदभिधया प्रस्तावनेति भावः। उच्यते ॥ ३३२॥
उदाहरति-वाक्यमित्यादिना।। वाक्यं । यथा । रत्नावल्यां तदाख्यायां श्रीहर्षनृपतिकृतायां नाटिकायामिति भावः । "दीपा"दित्यादौ ।