________________
.. साहित्यदर्पणः । .
[ षष्ठ:- - सूत्रधारसदृशत्वात्स्थापकोऽपि सूत्रधार उच्यते, तस्यानुचरः पारिपाश्चिकः, तस्मात किश्चिदूनो नटः। ... ३२४:उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा।
प्रवर्तकावलगिते पञ्च प्रस्तावनाभिदाः॥ ३३० ॥ तत्र३२५ पदानामगतार्थानां तान्यर्थगतये नटाः ।
योजयन्ति पदैरन्यैः स उद्घातक उच्यते ॥ ३३१ ॥ यथा, मुद्राराक्षसे । “सूत्रधारः..
"कूरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् । अभिभवितुमिच्छति बलात्" [इत्योक्ते ] "नेपथ्ये-आः! क एषः ! मयि जीवति चन्द्रगुप्तमभिभवितुमिच्छति ?” इति ।
कारिकाया दुर्बोधांश स्पष्टयति-सूत्रधारसदृशत्वात् सूत्रधारेण सदृशः समानः सूत्रधारवत् कार्यकर्ता तस्य भावस्तत्त्वं तस्मात् तथोक्तात् कारणादित्यर्थः ( ३२२ पूर्वरङ्गं विधायैव सूत्रधारो निवर्तते । प्रविश्य स्थापकस्तद्वत् काव्यमास्थापये-दित्युक्तदिशा प्रकृते साक्षात् सूत्रधारस्यासम्भवादिदमुक्तम् )।स्थापकः । अपि । सूत्रधारः। उच्यते 'उपचारादि' ति शेषः ।तस्य स्थापकनटस्येत्यर्थः । अनुचरः। पारिपाश्विकः परिपाचे वर्तते इति तथोक्तः । सहायकतया पाश्र्ववर्ती नट इति भावः [ 'परिमुखं च ।' ४।४।२८ इति ठक् ] इदं च बोध्यम्-अस्यानुचरत्वेपि मारिष इति पदेन सम्बोध्यत्वम् । इति । तस्मात् पारिपार्श्वकादित्यर्थ :। किश्चित् । ऊनो हीनगुण इत्यर्थः । नटः । यद्वातस्मात् स्थापकात् किश्चिदून इत्यर्थः। अत:-स्थापकनटस्य गृहिणी एव नटी, साऽपि नटवत्किञ्चिदूना भवतीति निगदव्याख्यातम् । विदूषकः पुनर्यथाऽर्थनामैवेति बोध्यम् ।
___ अथामुखापरपर्सायायाः प्रस्तावनाया भेदानाह,-३२४ उद्घात्यक उद्धाते आरम्भे साधुरित्युद्धात्यः, स एवेति तथोक्तः । तत्र साधः।' ४४९८ इति यति कृते स्वार्थ कः ("स्यादन्यादानमुद्धात आरम्भः" इत्यमरः) कथा
घातः कथाया उद्धात आरम्मइति तथोक्तः।प्रयोगातिशयःप्रयोगस्यातिशयो भावव्यजकत्वेनोत्कर्षों यत्रेति तथोक्तः। तथा। प्रवर्तकावलगिते प्रवर्तकं चावलगितं चेति तथोक्ते । प्रवर्तयतीति प्रवर्तकम् । अवलग्यते स्म संसज्यते स्मेति अवलगितम् । इति-पश्च । प्रस्तावनाभिदाः प्रस्तावनाया भिदा भेदाः [भिद्-किप-टाप् ] ॥ ३३० ॥ . अथोद्धात्यकादीनां लक्षणं प्रदर्शयितुमाह-तत्र सेचूद्धात्यकादिषु मध्ये इति भावः । ३२५ अगतार्थानां न गतोऽवगतोऽर्थो येषां तेषां तथाभूतानाम् । पदानाम् । अर्थगतयेऽर्थावगमाय । तानि अगतार्थानि अनवगतार्थानि पदानि इत्यर्थः। यत्रे' ति शेषः । अन्यैः प्रस्तुतोपयुक्तार्थप्रत्यायकैरिति भावः । पदैः (सहाथैय तृतीया)। नटाः ( नरा इति पाटान्तरम् )।योजयन्ति सन्निधापयन्ति अभिप्रेतप्रस्तुतार्थतया समर्थयन्ते इति यावत् । सः। उदघातकः उच्यते। अयम्भावः कथमपि केनापि श्लिष्टार्थानि पदान्युच्चरितानि, तानि च निशम्य तदन्ये पुनः यत्र प्रकृतोप युक्तता प्रदर्शयन्ति, स उद्घात्यको नाम प्रस्तावना । नटा इति वहुवचनं त्वविवक्षितम् । इति ॥ ३३१ ॥
उदाहरति-यथा। मद्राराक्षसे । तदाख्ये विशाखदत्तविरचिते नाटके इत्यर्थः । “सत्रधारः। 'नटों प्रत्याहे ति शेषः"इदानीमस्मिन् समयो सकेतुः केतुनोत्पातग्रहेण सह वर्तते इति तथोक्तः।ऋग्प्रहः क्रूरो ग्रासकर्ततयोत्पात. केतूदयकालिकतया भयङ्करोऽसौ ग्रहो राहुरिति तथोक्तः । यद्वा-स प्रसिद्धः । कूरग्रहो भयङ्करात्मा ग्रहविशेषः ।