________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। -
३२३ नटी विदूषको वाऽपि पारिपाश्विक एव वा ।
सूत्रधारेण सहिताः सल्लापं यत्र कुर्वते ॥ ३२८ ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिमिथः।
आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनाऽपि सा ॥ ३२९॥ ङ्गेऽभिधास्यते।' इति च । तत्र यथोक्ता वीथी 'आकाशभाषितरुक्कैश्चित्रां प्रत्युक्तिमाश्रितः ।' इति, प्रहसनं पुनः 'भवेत् प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ।...' इति । तथा च-'चित्रे यत्रोक्तिप्रत्युक्ती स्यातामाकाशभाषितैः । कथञ्चिद्वाऽप्यनेकार्थसूचनं वीथिका च सा ॥ भवेत् प्रहसनं यत्र हास्याधानाय धृष्टता । विरुदैवषवाकेलिचेष्टितैर्वा प्रसाद- . नम् ॥' इति तयोर्लक्षणे विविक्ते बोद्धव्ये । वीथी तावद् यथा बालरामायणे-" ( आकाशे कर्ण दत्त्वा) किं ब्रूथ ? विलक्षणेन सता कर्णाटनटेन तेन निर्मव्दमिदमुदितम् । यदुताखण्डप्रसरा हि पुरुषकाराः कर्णाटानाम् । तथाहि'अहमेष हरिष्यामि परिणेतुः पुरोऽपि ताम् । नारीपरिभवं सोढुं दाक्षिणात्या न शिक्षिताः ॥' ( अञ्जलिं बद्धा ) . तदिदं मयाऽपि निवेद्यते यदि हि परिणयामि-'अपि द्वीपान्तरादेष हृतां प्रत्याहरामि ताम् । कलत्रहरणे पुंसां कियदर्ण. वलङ्घनम् ॥ इति ।...( सहर्षम् ) अनुकूलं हि दैवं सर्वस्मै स्वस्ति करोति, यत् प्रस्तुतसंवादी देवादेशः ।...' इति । . यथा वाऽनर्घराघवे-(आकाशे कर्ण दत्त्वा ) किं ब्रूथ ? वैदेशिको भवान् असमग्रपात्रः कथमीदृशे कर्मणि प्रगल्भते? (विहस्य सप्रश्रयमञ्जलिं बद्धा) हन्त भोः ! किमेवमुदीर्य्यते ? भवद्विधानामाराधनी. वृत्तिरेव मे पात्राणि समप्रयिध्यति । यत:-'यान्ति न्याय प्रवृत्तस्य तिर्य्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोपि विमुञ्चति ॥ (पुनराकाशे कर्ण दत्त्वा) किं ब्रथ ? तर्हि प्रहितेयमस्माभिः पत्रिका । इति (प्रविश्य नटः पत्रिकां ददाति । सूत्रधारी गृहीत्वा वाचयति)...' इति । प्रहसनं यथा मृच्छकटिके-'अविदअविद भो! चिरसंगीदोवासणेण सुक्खपोक्खरणालाई विअ मे बुभुक्खाए मिलाणाई अंगाई ता जाब गेहं गदुअ जाणामि । अस्थि किं पि कुटुंबिणीए उबबादिदं ण वेत्ति । (१ 'कष्टंकष्टं भोः ! चिरसङ्गीतोपासनेन शुष्कपुष्करनालानीव मे बुभुक्षया म्लानान्यङ्गानि, तद् यावद्हं गत्वा जानामि । अस्ति किमपि कुटुम्बिन्या उपपादितं न वेति ।' इति संस्कृतम् )। ...इति दिक् ।
___ अथामुख लक्षयति-३२३ यत्र यस्मिन् प्रस्तावे इत्यर्थः। नटौ नटी च नटश्चेति तथोक्तौ ["पुमान् स्त्रिया ।" १।२।६७ इत्येकशेषः] वाऽथवा । यद्वा नटीत्येव पाठः साधीयान् , नटी विदूषको वाऽपि पारिपाश्चिक एव वा "इति भरतोक्तेः । एतेन 'नटः' इति पाठः साधुः, तस्मात् किञ्चिदूनो नटः इति वृत्तिदर्शनात इति वदन्तः परास्ताः, वृत्ति. प्रन्थस्य च "स्त्री चेन्नटी" इत्यध्याहृत्यापि योजनोपपत्तेः, न चैतस्मात् "किञ्चिदूना नटी" इत्येव वृत्तिः कुतो नेति चोद्यम्, नटसामान्यलक्षणस्यावश्यं वक्तव्यत्वात्, नटीलक्षणस्य च साक्षादनभिधानेऽपि तथाऽभिधानात् । विदूषकः । अपि । (समुच्चयार्थमिदम् ) एतेन नटी नटो विदूषकश्चेति त्रय इति सूचितम् । वाऽथवा । यदि तेष्वेकतमो न स्यात् तदेति भावः । पारिपार्श्विकः । एव । एतेन तेष्वेकतमस्थानापन्नत्वमेतस्य सूचितम् । सूत्रधारेणोपचारेण तादृशेन स्थापकेन नटेनेति भावः । सहिताः। यद्वा-अत्र लिङ्गवचननिर्देशोन विवक्षितः । तथा सति,सहिता सहितः सहिते सहितौ सहिता वा, सूत्रधारेण सहितो नटो विदूषकः परिपाश्विको वा, सहिता वा नटी, सहिते नटनटी वा, सहितौ नटविदुषको नटपारिपार्श्विको नटीविदूषको नटीपारिपाश्विको विदुषकपारिपाश्विको वा, सहिता नटनटीविदूषका नटीविदूषकपारिपाश्विका नटविदूषकपारिपाश्विका नटनटीविदूषकपारिपार्विकाश्चति निर्गलितोऽर्थः । अत एवोक्तम्-'नटो विदूषको वाऽपि नटी वा पारिपार्विकः । एषु द्वौ वा त्रयो यत्र सर्व वा स्थापकान्विताः । आमुखं तद्विजानीयानाम्ना प्रस्तावनां च ताम् ।' इति । चित्ररनेकविधैः । स्वकार्योत्थः स्वस्य स्वस्या वा कार्यकर्त्तव्यं कर्म तस्मादुत्थानि तस्यानुकूलतयोपस्थितानि तैस्तथोक्तैः । अत एव-प्रस्तुताक्षेपिभिः प्रस्तुतं स्वस्वप्रवेशाईतया प्रसङ्गानुप्रसक्तमाक्षिपन्तीति तथोक्तैः । वाक्यः। मिथः परस्परम् । सल्लापं सम्भाषणम् । कुर्वते । तत् । तु 'चेति पाठान्तरम् । आमुख प्रारम्भद्वारमिति भावः । विज्ञेयम् । नाना प्रसिद्धया । सा यच्छब्देन निर्दिष्टेति भावः । प्रस्तावना । अपि । “मता' इति शेषः ॥ ३२८ ॥ ३२९ ॥