________________
४३०
साहित्यदर्पण: ।
३२१ तस्याः प्ररोचना वीथी तथा प्रहसनामुखे । अङ्गानि --
३२२ अत्रोन्मुखीकारः प्रशंसातः प्ररोचना ॥ ३२७ ॥
[ षष्ट:
प्रस्तुताभिनयेषु प्रशंसातः श्रोतॄणां प्रवृत्त्युन्मुखीकरणं प्ररोचना । यथा रत्नावल्याम्“श्रीहर्षो निपुणः कविः, परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्सराजचरितं नाटये च दक्षा वयम् । ardhaमपीह वाञ्छितफलप्राप्तेः पदं किं पुनगाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ १२९ ॥ " वीथी प्रहसने वक्ष्येते ।
अस्या अङ्गान्याह - ३२१ तस्या इत्यादिना ।
३२१ तस्याभारत्या वृत्तेरित्यर्थः । प्ररोचनः । वीथी । तथा । प्रहसनामुखे प्रहसनं चामुखं चेरि तोक्ते । अङ्गानि मतानीति शेषः ।
तत्र तावत्प्ररोचनामाह - ३२२ अत्रेत्यादिना ।
३२२ अत्रैषु प्ररोचनाssदिष्वङ्गेष्वित्यर्थः । प्रशंसातः । उन्मुखीकारः 'सभ्याना' मिति शेषः प्ररोचना ॥ ३२७ ॥
तदेव विणोति - प्रस्तुताभिनयेष्वित्यादिना ।
प्रशंसातः “प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेतनास्तु कथानाथकविसभ्यनटाः स्मृताः ॥ प्रचेतनै देशकालौ कालो मधुशरन्मुखः ॥" इत्यादिना सुधाकरकारादिनाऽऽनाद्वैविध्यात् प्रशंसनादिति भावः । श्रोतॄणाम् प्रस्तुताभिनयेषु । विषये सप्तमीयम् । प्रवृत्त्युन्मुखीकरणं प्रवृत्तौ उन्मुखीकरणम् उत्कण्टीकरणम् । प्ररोचन 'नाम भारत्या वृत्तेरङ्ग' मिति शेषः ।
उदाहर्तुमुपक्रमते - यथेत्यादिना ।
यथा । 'प्ररोचने 'ति प्रसङ्गानुप्रसक्तम् । रत्नावल्यां तदाख्यायां नाटिकायामित्यर्थः । " श्री हर्ष" इत्यादौ । “श्रीहर्षस्तन्नामा नृपतिरिति भावः निपुणश्चतुरः । कविः । ' प्रयोगस्यैतस्य रचयिते 'ति शेषः । एषा 'श्रीहर्षकृतिं च द्रष्टुमुपस्थिते 'ति शेषः । परिषत्सभा । 'समज्या परिषगोष्टी सभासमितिसंसदः । इत्यमरः । अपि पुनः । गुणग्राहिणी । वत्सराजचरितं वत्सराजस्योदयनापरनामधेयस्य रत्नावलीनायकस्य नृपतेरिति भावः, चरितं रत्नाव त्यामभिनेयत्वेन प्रतिपादितं चरित्रमिति तथोक्तम् । च । लोके जगति । 'लोकस्तु भुवने जने ।' इत्यमरः । हारि मनोहरं चेतसि प्रसादसम्पादकमिति यावत् । नाट्ये नृत्यगीतवाद्यत्रयविषये इति भावः । ' तौर्य्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् । इत्यमरः । च । दक्षा निपुणाः । वयं 'नटा' इति शेषः । इहास्मिन् स्थाने । एकैकमेकमेकमित्यर्थः । अपि । वस्तु । वाञ्छितफलप्राप्तेः । पदं स्थानभूतम् । किम् । पुनः । मद्भाग्योपचयात् मम ( सूत्रधारस्य ) भाग्यं सुफलोन्मुखं प्रारब्धं कर्म्यं तस्योपचय उदयस्तस्मात् । अयम् । सर्वः । गुणानाम् । गणः समुदायः । समुदितः । सूत्रधारस्येयमुक्तिः । शार्दूलविक्रीडितं वृत्तम्, तलक्ष्म यथोक्तम्, “शार्दूलविक्रीडितं भूसौ सौ तौ गादित्यऋषयः ॥” इति ॥ अद स्फुटम् श्रीहर्षादीनां नैपुण्याद्यभिधानेन सर्वेषामुन्मुखीकरणात्प्ररोचना नाम भारत्या वृत्तेरङ्गम् । इति ॥ २२९ ॥
अङ्गान्तरविषये प्राह- वीथी.. इत्यादिना ।
arrer वीथी प्रहसनं चेत्यर्थः । ' भारत्या अङ्गभूते' इति शेषः । वक्ष्येते । अत्रेदम्बोद्धव्यम्- यद्यपि वीथीं प्रहसनं च रूपकविशेषरूपेणैव निरूपयिष्यति, न तु प्ररोचनामित्र स्वातन्त्र्येण, तथाऽपि तत्र तत्र प्रतिपाद्यमेवास्या ! अङ्गं विभावनीयम्, अत एवोक्तं कविराजः - वीथी प्रहसने वक्ष्येते इति, दशरूपकृता " वीथी प्रहसनं वाऽपि स्वप्रस