________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । ३१९ रङ्ग प्रसाद्य, मधुरैः श्लोकैः काव्यार्थसूचकैः ।
रूपकस्य कवेराख्यां गोत्राद्यपि स कीर्तयेत् ॥ ३२५ ॥
ऋतुं च कश्चित् प्रायेण भारती वृत्तिमाश्रितः । स स्थापकः । प्रायेणेति क्वचिदतोरकीर्तनमपि, यया रत्नावल्याम् । भारती वृत्तिस्तु
२३० भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ॥ ३२६ ॥ संकृतबहुलो वाक्प्रधानो व्यापारो भारती।
अथान्यदपि कर्त्तव्यं निर्दिशति-३१९ रङमित्यादिना ।
३१९ भारती भरतस्येयमिति तां तथोक्ताम् , भरतेन प्रवर्तितामत एव तथाख्यातामिति भावः । वृत्तिं रचनाविशेषशैलीम् । आश्रितोऽनुसृतः । सः स्थापकः सूत्रधारस्थानापन्नो नट इति यावत् । रङ्गं सभास्थानं तत्स्थाजनानिति यावत् । प्रसाद्यानुमोद्य प्रशंस्येति यावत् । काव्यार्थसूचकैः काव्यस्य रूपकस्य नाटकाद्यन्यतमस्येति भावोऽर्थः प्रतिपाद्यं वस्तु तं सूचयन्तीति, तस्य सूचका इति वा तैस्तथोक्तैः । मधुरैर्मृदुलपदरमणीयतया श्रुतिरमणीयरिति भावः । श्लोकः उपचारात् क्वचिद्गद्यः क्वचिद्वा गद्यश्लोकैश्चेत्यर्थः । बहुवचनमविवक्षितम् । रूपकस्य । कवेः रूपकप्रणेतुः । आख्यां नाम । गोत्रादि। आदिना पित्रादिनामविद्याविशेषाभिज्ञत्वादि गृह्यते। अपि (एतत्स्वारस्येन गोत्रादेः प्रायिकत्वं सूच्यते)। कश्चित् कमपि । च । ऋतुं वसन्ताद्यन्यतममेकं तदानीन्तनं समयमिति भावः । प्रायेणाधिक्येन । कीर्तयेत् ॥ ३२५॥
कारिकाकठिनाशं सुगमयति-स इत्यादिना ।
सः 'इत्यस्येति शेषः । स्थापकः। 'इत्यर्थ' इति शेषः । प्रायेण । इति 'अभिहितेने'ति शेषः । क्वचित कस्मिंश्चिद्रूपके इत्यर्थः । ऋतोः । अकीर्तनम् । अपि 'न दोषावह मिति शेषः । उदाहरति-यथा । रत्नावल्याम्।
इदम्बोध्यम्- सभायाः प्रशंसनमल्पं महद्वा प्रथमं विधेयम्, अनन्तरं रूपकस्य नाम पद्येन गद्येन तदुभयेन वा काव्यार्थसूचकेन कीर्तनीयम्, एवं च रूपकस्य तन्नामैव तथाविधं विधातव्यं, येन यथा तत्प्रतिपाद्य वस्तु सहृदयहृदयगोचरतां प्रतिपद्यतेति लब्धम् । तच रूपकं येन विहितं तस्य कवेर्नाम तदानीमप्रसिद्धौ गोत्रादि अन्यथा यथाकामं सूचनीयम् । अत एव-अभिज्ञानशाकुन्तलादौ कविगोत्रादेरकीर्तनम् ,उत्तररामचरितादौ च कीर्तनं सङ्गच्छेते इति हृदयम् । अथ-ऋतो: कीर्तनं प्रायिकमिति तु स्फुटमभिहितमेव ग्रन्थकृता, अत एव नोत्तररामचरिते । अथापि तस्य सूचनमद्यत्यादिना प्रायः सर्वत्र । यथा रत्नावल्यामपि 'अद्याहं वसन्तोत्सवे सबहुमानमाहृय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः' इति, उत्तररामचरिते 'अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्य मिश्रान् विज्ञापयामि'इति, प्रबोधचन्द्रोदये च-'तदद्य राज्ञः श्रीकीर्तिवर्मणः पुरस्तादभिनेतव्यं भवता ।' इति । एवमन्यत्रापि । इति दिक् । ' अथ भारती वृत्तिं लक्षयितुमुपक्रमते-भारतीत्यादिना ।
भारती भरतसम्बन्धिनी भरतेन प्रवर्तितेति यावत् । वृत्तिापारः । तु पुनः 'उच्यते'इति शेषः । ३२. भारतीत्यादिना।
३२० नटाश्रयः 'नराश्रय'इति जनाश्रय'इति वा पाठान्तरे नरजनशब्दाभ्यां नटस्यैव ग्रहणम् । संस्कृतप्रायः प्रायेण बाहुल्येन संस्कृतः। आहिताग्न्यादित्वात् विभाषया परनिपातात् साधु । संस्कृतेन वा प्रायः सदृशः एतेन विदूपकाद्याश्रयत्वे क्वचित् प्राकृतस्याप्युपयोगः सूचितः । वाग्व्यापारो'न त्वङ्गव्यापारो न वा मनोव्यापारः'इति शेषः । भारती 'वृत्ति'रिति शेषः ॥ ३२६ ॥
तदेव समवगमयति-संस्कृतबहुल इत्यादिना । संस्कृतबहुलः संस्कृतेन बहुलः । वाक्प्रधानः । व्यापारः । भारती'नाम वृत्ति'रिति शेषः ।