________________
१२८ साहित्यदर्पणः।
[षष्ठःमुखं श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वागविशेषः । यथा"आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः । उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव सम्भृतबन्धुजीवः ॥ २२७ ॥” इति ।
पात्रं यथा, शाकुन्तले'तवास्मि गीतरागेण हारिणा प्रसभं हतः । एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥२२८॥" इति ।
इति हैमः । रत्नावल्यास्तदाख्याया नायिकाया इत्यर्थः । अनुकूलदैवलालितोऽनुकूलं प्रतिकूलतापरित्यागपुरःसरं सहायकतां प्राप्तं यत दैवं भाग्यं तेन लालितोऽनुमोदित इति तथोक्तः । वत्सराजगृहप्रवेशो वत्सराजस्य तदाख्य. स्थोदयनोपनामकस्य गृहं तत्र प्रवेशः । यौगन्धरायणव्यापारं यौगन्धरायणस्य सूत्रधारस्य कनीयसा भ्रात्रा गृहीतनेपथ्यविशेषस्य तथा कल्पितनाम्नः कस्यचिद्रत्नावल्या वृत्तान्ताभिज्ञस्य व्यापारो यत्नस्तम् । आरभ्य । रत्नावली. प्राप्तौ। बीजम् । 'सूचित मिति शेषः । अयम्भावः-रत्नावल्यां हि एवं दृश्यते-नट्या-खदुहितुर्दूर स्थितेन नायकेन कथं पाणिग्रहणं भविष्यतीत्युद्वेगावेदनानन्तरं सूत्रधारेण"द्वीपादन्यस्मा"दित्यादिनाऽऽश्वासनम् । अनन्तरं पुनः "नेपथ्ये । साधु एवमेतत् कः सन्देहः" इत्यनुमोदनं तदनु यौगन्धरायणस्य प्रवेशः । तेन च तदनुमोदनपुरःसरं रत्नवल्याः प्राप्तौ विध्यनुकूलताया बीजत्वमुद्घोषितम् । तथा च-तत्प्रभृति यद्यदनुष्टितं तत्सर्वं तद्वीजाकुरभूतमिति विदितं विदुषाम् । इति ।
मुखमुदाहत्तुं प्रवृत्तस्तल्लक्षयति-मुखमित्यादिना ।
मुखम् । 'नामेति शेषः । श्लेषादिना । आदिना समासोक्त्यप्रस्तुतप्रशंसादेहणम् । प्रस्तुतवृत्तान्तप्रतिपादकः प्रस्तुतः प्रकरणप्राप्तोऽसौ वृत्तान्तस्तस्य प्रतिपादक इति तथोक्तः । वाग्विशेषः । यथा-"आसादित..." इत्यादौ ।
प्रासादितप्रकटनिर्मलचन्द्रहास आसादितः सम्पादितः प्रकटं प्रत्यक्षं निर्मल (:) चन्द्र (स्य) हासो विकाशो) येन (रामपक्षे तु आसादितो बलादपहृत्य गृहीतः, प्रकटं निर्मलः (शाणोल्लिखितः ) चन्द्रहासो रावणखगो येन) तथोक्तः । "चन्द्रहासोऽसिमात्रके । दशग्रीवकृपाणे चे"ति हैमः । विशुद्धकान्तिः विशुद्धा खच्छा घनापायेनानावृतेति यावत् अन्यत्र तु पवित्रा कान्तिनक्षत्रादिज्योतिः (अन्यत्र शोभा) यत्र (अन्यत्र यस्य) इति तथोक्तः । सम्भृतबन्धुजीवः सम्भृता पुष्टिं (विकाशं) नीता बन्धुजीवा बन्धूका उपचारात्तत्पुष्पाणि ( अन्यत्र तु सम्भृतो देवेन्द्रद्वाराऽमृत वर्षणेन बन्धुषु : सङ्ग्रामे हतेषु वानरभलेषु मित्रेषु जीवो जीवितं येन ) तथोक्तः । एषः । शत्समयः। रामो रामचन्द्रः । दशास्यं रावणम् । इव । गाढतमसं गाढं निबिडं तमो ध्वान्तम् (अन्यत्र तमोगुणो ज्ञानं वा ) यत्र ( अन्यत्र यस्य तं) तथोक्तम् । 'राहो ध्वान्ते गुणभिदि मौढये शोके तमो मतम् । इति गोपालः । अत एव-उग्रं पङ्काद्युत्पादनेन (अन्यत्र दुर्जेयतया भयङ्करम् )। घनकालं वर्षाकालम् । उत्खाय परिहृत्य (निहत्य वा) । प्राप्तः। वसन्ततिलकं वृत्तम् । तल्लक्षणं चोक्तं यथा-"उक्तं वसन्ततिलकं तभजा जगौ गः।" इति । अत्र श्लेषोत्थापितयोपमया नाटकीयस्यार्थस्य सूचनम् ॥ २२७ ॥” इति ।
पात्रमुदाहरन्नाह-पात्रमित्यादि। पात्रं नायकरूपो योग्यः पुरुष इति भावः । यथा । शाकुन्तलेऽभिज्ञानशाकुन्तले-"तवास्मि.."इत्यादौ ।
"अतिरंहसाऽतिवेगवता । हारिणा दूरमाकृष्य प्रापकेण । सारड्रेण मृगेण । 'सारङ्गः पुंसि हरिणे चातक च मतङ्गजे।' इति मेदिनी। एषः । दुष्यन्तस्तदाख्य इत्यर्थः । प्रसभं बलात् । हतः। राजा । इव । हारिणा मनोहारिणा तव नव्या इत्यर्थः । गीतरागण गीतखरेण । अतिरंहसाऽतित्वरयाः प्रसभम् । हतः । अस्मि । 'अह'मित्यर्थेऽव्ययमिदम् । सूत्रधारस्येयमुक्तिः । पथ्यावकं वृत्तम्, तलक्षणं यथोक्तम्-“यचतुर्थात् । पथ्या युजोज् ।" इति। उपमानतया दुष्यन्तस्य राजर्षेः प्रस्तवानुपदं तथैवोपस्थितिरिति स्फुटमुपमानव्याजेन पात्रस्य वर्णनम्॥२२८॥"इति।