________________
पारच्छेदः) रुचिराख्यया व्याख्यया समेतः।
१३७ यथोदात्तराघवे
"रामो मूर्ध्नि निधाय काननमगान्मालामिवाज्ञां गुरोस्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम् । तौ सुग्रीवविभीषणावनुगतौ नीतौ परामुन्नति
प्रोत्सित्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥ २२५ ॥" वीज यथा रत्नावल्याम्
"द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
___ आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ २२६ ॥"इति । अत्र हि समुद्रे प्रवहण (वहित) भग्नमग्नोत्थिताया रत्नावल्या अनुकूलदैवलालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावलीप्राप्तौ बीजम् ।
___ उदाहरति-यथा । उदात्तराघवे तदाख्ये नाटके इत्यर्थः । “रामो मूर्धिन...' इत्यादी। . "रामः । गुरोः पितुर्दशरथस्थेत्यर्थः । 'गुरुस्त्रिलिङ्गयां महति..पित्रादौ सुरमन्त्रिणि ॥' इति मेदिनी। आज्ञा "वने चतुर्दशसमा निवस, भरतश्च राज्यं प्रशास्तु' इत्यनुज्ञाम् । माला पुष्पादिमालामित्यर्थः । इव । मूर्धिन मस्तके । निधाय स्थापयित्वा । काननं वनम् । “गहनं काननं वनम्" इत्यमरः । अगात गतवान् । तद्भक्त्या तस्य तथा प्रथितयशसो रामस्य ज्येष्ठधातुरित्यर्थः, भक्तिस्तया । भरतेन रामानुजेनेत्यर्थः । मात्रा कैकय्याख्यया जनन्या । सह । एव । अखिलमप्रतिहतचक्र समस्तं वेत्यर्थः । राज्यम 'मात्राग्रहात् पित्रा दीयमान' मिति शेषः । उज्झितं परित्यक्तम् । प्राप्तमपि न खखामित्वं तत्राभिमतमिति भावः । अनुगतौ शरणागतौ। तौ बन्धुबहिष्कृतावित्यर्थः । सुग्रीवविभीषणौ ( कर्मपदमिदम् )। पराम् । उन्नतिम् । नीतौ प्रापितौ 'रामेणे' ति शेषः । ‘णीज्' इति द्विकर्मको धातुः । प्रोत्सित्ता अत्यन्तं दुर्मदाः । दशकन्धरप्रभृतयो दश कन्धरा ग्रीवा उपचारान्मस्तकानि यस्य स तथोक्तः, प्रभृतिर्येषां (वाल्यादीनाम्) ते तथोक्ताः। रावणादय इत्यर्थः । समस्ताः । द्विषः शत्रवः । ध्वस्ताः विनाशिताः । 'रामेणे' ति शेषः । शार्दूलविक्रीडितं वृत्तम् , तल्लक्षणं च यथा-"शार्दूलविक्रीडितं म्सौ ज्सौ तौ दि. त्यऋषयः ।" इति ॥ २२५ ॥
इदम्बोध्यम्-अत्र रामस्य चरितं सर्वमेव प्रायः सड़क्षेपेण बोधितम्, तथाहि-'मात्रे'त्यनेन कैकेय्या यद्यद्धटितं तेन तस्या दुष्टत्वं भरतस्य च तत्रासम्पर्कित्वम्, 'ध्वस्ताः' इत्यनेम उज्झितम्' इत्यनेन च दशाननादिनिहननपूर्वकं पुना राज्यग्रहणादि च । इति दिक् ।
बीजमुदाहरति-बीजम् । यथा । रत्नावल्य तदाख्यायां नाटिकायाम् । “दीपात्.." इत्यादौ।
"अभिमुखीभूतोऽनुकूलतां प्राप्त इति भावः । विधिदैवमित्यर्थः । “विधिविधाने देवेऽपि"इत्यमरः । अन्यस्मात् स्वसन्निहितद्वीपतो भिन्नादित्यर्थः । अपि “किं पुनस्तस्मादेव"इति शेषः । द्वीपात् । यथा-जम्बुद्वीपाद्भिन्नः शाककुशक्रौञ्चशाल्मलिप्लक्षपुष्करान्यतमः, शाकद्वीपात्पुनर्जम्बुकुशाद्यन्यतम इति दिक् । जलनिधेः समुद्रस्य । मध्यात् । अपि"किं पुनस्तन्निक्टात्" इति शेषः । दिशः पूर्वाद्यन्यतमायाः काष्टाया उपचारात्तदुपलक्षितस्य दविष्ठदेशस्येत्यर्थः । अन्तात । अपि"किम्पुनर्निकटात्" इति शेषः । आनीय प्रापय्य। झटिति विना विलम्बम् । अभिमतं वाञ्छितमर्थमिति भावः । घटयति सङ्गमयति । अत्रा-छन्दः “यस्याः प्रथमे पादे द्वादशमात्रास्तथ तृतीयेऽपि । अष्टादश द्वितीये चतुर्थक पञ्चदश साSSऱ्या ॥"इति च तलक्षणम् । इति ॥ २२६ ॥"
लक्ष्यं स्फुटयति-हि यतः । अत्रास्मिन्नुदाहृते"द्वीपादन्यस्मात् इति पद्ये इति भावः । समुद्रे । प्रवहणभङ्गमग्नोत्थितायाः प्रवहणं प्रवाहो जलौघस्य जवात्सञ्चार इति यावत् तस्य भङ्गस्तरङ्गस्तेन मनोत्थिता पूर्व मना पश्चादुत्थिता तस्यास्तथोक्तायाः । 'प्रवहणे'त्यस्य स्थाने 'वहिनेति पाठान्तरे तु वहित्रस्य जलयानस्य नौकादेरिति भावः, भङ्गो भेदस्तेन मनोत्थिता तस्या इत्यर्थः । “भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छिन्त्योः"