________________
४२६
साहित्यदर्पणः । ३१८ पूर्वरङ्गं विधायैव मूत्रधारो निवर्त्तते ।
प्रविश्य स्थापकस्तद्वत् काव्यमास्थापयेत्ततः ॥ ३२३ ॥ दिव्यमत्यै स तद्रूपो मिश्रमन्यतरस्तयोः।
सूचयेद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥ ३२४ ॥ काव्यार्थस्य स्थापनात् स्थापकः । तदिति, सूत्रधारसदृशगुणाकारः। इदानी पूर्वरङ्गस्य सम्यक् प्रयोगाभावात् एक एव सूत्रधारः सर्व प्रयोजयतीति व्यवहारः। स स्थापको दिव्यं वस्तु दिव्यो भूत्वा, मत्यै मत्यों भूत्वा, मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् । वस्वितिवृत्तम् । सूत्रं धारयतीत्यस्मात्सूत्रधारो निगद्यते ॥” इति । इदं पूर्वरङ्गाङ्गभूतं मङ्गलाचरणमिति भावः । प्रयोजितवान् ।' इतीति शेषः । "इतःप्रभृति । मया। नाटकम् । उपादीयते सम्पाद्यते।" इति । च पुनः । कवेः। अभिप्रायः। 'सूचित' इति तु पाठाधिक्यमनर्थम् । अत्र तर्कवागीशाः प्राहु:-"तथा च यत्र नान्द्यस्ति, रङ्गद्वार नास्ति तत्र तन्त्रेण सैव रङ्गद्वारम् । यत्र रङ्गद्वारमेवास्ति, नतु नान्दी; तत्र सा फलानुमेया। यत्र वारम्भे बहवः श्लोकास्तत्र श्लोकद्वयं (श्लोकत्रयं वा ) नान्दी, अपरे रङ्गद्वारम् ; इत्यवधेयम् ।" इति । वयं त्वेवं प्रतीमः-नान्दीलक्षणं सम्भ. वतु, न वा सम्भवतु; "निष्प्रत्यूहमुपास्महे" इत्यादि, "वेदान्तेषु' इत्यादि “पादारस्थितया” इत्यादि च सर्वमेव रङ्गद्वारम् । नान्दी तु ततः पूर्वमेवानुष्ठिताऽनुमेयेति ।
अथ नान्द्या अनन्तरं कर्तव्य निर्दिशति-३१८ पूर्वरङ्गमित्यादिना।
३१८ पूर्वरईनिरुक्तलक्षणं कर्मविशेषम् । विधाय । एव । सूत्रधारो नटराजः । निवर्त्तते नेपथ्यान्तः प्रविशति । ततस्तदनन्तरम् । तद्वत् सूत्रधारवत् 'कोऽपि नट' इति शेषः । प्रविश्य सभायामुपस्थायेत्यर्थः । स्थापकः स्थापयति कार्यमिति तथोक्त: सन्निति भावः । यद्वा-'तद्वत् स्थापकः प्रविश्ये त्यन्वयो बो काव्यं दृश्यकाव्यमुपचारात्तदीयं वस्तु इत्यर्थः । आस्थापयेत् सभापूजादिपुरःसरं प्रवर्तयेत् । कथमित्याह-सः स्थापकः सत्रधारानुकारी नट इत्यर्थः । दिव्यमत्ये दिव्यं लोकोत्तरं च मत्त्यै लौकिक चेत्यर्थः । 'वस्तुनी, बीजे, मुखे, पात्रे, चेति शेषः। तद्रूपो दिव्यरूपो मर्त्यश्चेत्यर्थः । ‘सूचये' दिति पुरस्तात् । तयोदिव्यमययोरित्यर्थः । मिश्रम । वस्तु इतिवृत्तम् । वा । बीजं कारणविशेषम् । अथापि । मुखम् । वा । पात्रम् । अन्यतरो भिन्नोन दिव्यो न वा मर्त्यः, किन्तु तदुभयात्मेति भावः । 'भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ।' इत्यमरः । 'भूत्वे ति शेषः । सूचयेत् ॥ ३२३ ॥ ३२४ ॥
कारिकोऽथ सुगमयति-काव्यार्थस्येत्यादिना ।
काव्यार्थस्य काव्यस्य रूपकस्यार्थः प्रतिपादनीयं वस्तु तस्य । स्थापनात् स्थापकत्वादिति भावः। स्थापकः । तद्धत् । इत्यस्येति शेषः । सूत्रधारसदृशगुणाकारः सूत्रधारेण सदृशा गुणाकारा यस्य तथोक्तः । गुणैराकारेण च सत्रधारायमाण इत्यर्थः । गुणाश्च यथोक्ताः-"चतुरातोद्यनिष्णातोऽनेकभाषाविचक्षणः । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थतत्त्ववित् ॥ नानागतिप्रचारज्ञो रसभावविशारदः । नाट्यप्रयोगनिपुणो नानाशिल्पकलाऽन्वितः ॥ छन्दोविधानतत्त्वज्ञः सर्वशास्त्रविचक्षणः । तत्तद्गीतानुगलयकलातालावधारणः ॥ अवधाय प्रयोक्ता च योक्तणामुपदेशकः । एवं गुणगणोपतः सत्रधारोऽभिधीयते ॥” इति मातृगुप्ताचाय्यः । (“पूर्वसदृश..."२१।३१ इति तृतीयासमासः । ) इत्यर्थ' इति शेषः । नन सत्रधारः सूत्रधारायमाणश्चेति व्यवहारः कथं न तर्हि साम्प्रतमुपलभ्यते ? इत्याशङ्कयाह-इदानीमस्मिन् समये इत्यर्थः । पूर्वरङ्गस्य मित्तलक्षणस्य कार्य्यस्येत्यर्थः । सम्यक निरुक्तलक्षणानुगततयेति भावः । प्रयोगाभावात प्रयोगाननुष्ठानात् । एकः। एव 'नतु पृथग्भूतोऽपी' ति शेषः । सूत्रधारः ।- सर्व खकर्त्तव्यं स्वानुकारिकर्त्तव्यं वेत्यर्थः । प्रयोजयति । इति व्यवहारः । तत्पदं व्याचष्टे-सः । स्थापकः । दिव्यः । भूत्वा । दिव्यम् । वस्तु । एतद्वीजादीनामुपलक्षणम् । मर्त्यः । भूत्वा । मर्त्यम् । 'वस्त्वादि' इति शेषः । दिव्यमर्त्ययोः । भन्यतः। भूत्वा । च । मिश्रम् 'वस्त्वादि' इति शेषः । सूचयेत् । वस्तुपदं व्याचष्टे-वस्तु । इतिवृत्तम् ।