________________
परिच्छेदः ।
रुचिराख्यया ध्याख्यया समेतः । कालिदासादिमहाकविप्रबन्धेषु च
"वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी, यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथाऽर्थाक्षरः। अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मुग्यते,
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ २२४ ॥" एवमादिषु नान्दीलक्षणायोगात् :। उक्तं च "रङ्गद्धारमारभ्य कविः कुर्यात्' इत्यादि । अत एव प्राक्तनपुस्तकेषु “नान्द्यते सूत्रधारः" इत्यनन्तरमेव “वेदान्तेषु" इत्यादिश्लोकलेखनं दृश्यते, यच्च पश्चात् “नान्द्यन्ते सूत्रधार" इति लेखनं तस्यायमभिप्रायः, “नान्द्यन्ते सूत्रधार इदं प्रयोजितवान्' "इतःप्रभृति मया नाटकमुपादीयते” इति च कवेरभिप्रायः ।
परमवकृष्टाङ्गं, ततोऽप्यनन्तरं रणद्वार' मित्यायुक्तदिशा पूर्वमेव नटैः क्रियते न तस्याः प्रयोग: प्रत्याय्यते, अत एव रत्नावल्यादौ न निरुक्ता नान्दी लभ्यते, नान्दीलक्षणानुकान्ततया प्रतीयमानत्वं तु अनर्घराघवादौ रङ्गद्वाराङ्गभूतं मङ्गलम्, न पुनर्वस्तुतो नान्दी । इति । । तदेव स्थूणानिखननन्यायेन द्रष्टयति-कालिदासादिमहाकविप्रबन्धेषु । आदिना श्रीहर्षादेर्ग्रहणम् । च
"रोदसी स्वर्ग पृथिवीं चेत्यर्थः । “भूद्यावौ रोदस्यौ रोदसी च ते ।" इत्यमरः । व्याप्य । स्थितम् । यम् । वेदान्तेषु वेदसिद्धान्तेषु । एकपुरुषमद्वितीयमात्मानमिति भावः । आहुः 'तत्त्वज्ञा'इति शेषः । यस्मिन् । ईश्वर ईशितुं शीलमस्यास्तीति तथोक्तः । 'स्थेशभासपिसकसो वरन् ।' ३।२।१७५ इति वरच । इति एवम्भूतः । यथाऽर्थाक्षरोऽर्थमनतिक्रम्य वर्तमानान्यक्षराणि पदघटका वर्णा यस्य तथोक्तः । शब्दः। अनन्यविषयो नान्यो विषयो यस्य तादृशः । य एवेश्वर इति भावः । नियमितप्राणादिभिर्नियमिता वशीकृताः प्राणादयो यस्तैस्तथोक्तैः । आदिनेन्द्रियमनोग्रहणम् । मुमुक्षुभिः 'संसारकारागारा'दिति शेषः । यः। च । अन्तरात्मनि, नतु परत्र । मृग्यतेऽन्विष्यते चिन्त्यते इति यावत् । सः। स्थिरभक्तियोगसुलभः स्थिररोऽनन्यविषयतया परमां काष्ठां प्राप्त इति वा सुदृढो यो भक्तियोगो भक्तिरेव योग इति तथाभूतः तेन सुलभः । यः केवल भक्त्या लभ्य इति भावः । स्थाणुरविक्रियमाणखरूपतया स्थायी शङ्कर इति यावत् । 'स्थो णुः (उ०)।' इतिणुः । वो युष्माकम् । निःश्रेयसाय कल्याणाय तत्सिद्धये इति यावत् । 'निःश्रेयस तु कल्याणमोक्षयोः शङ्करे पुमान् ।' इति मेदिनी। अस्तु। विक्रमोर्वशीय पयमेतत् । अत्र शार्दूलविक्रीडितं वृत्तम् “सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम् ।" इति च तल्लक्षणम् ॥ २२४ ॥"
एवमादिषु 'इत्येवमादिषु'इति पाठान्तरम् । नान्दीलक्षणायोगानान्या लक्षणं तस्या योगोऽसम्बन्धस्तस्मात् । 'रङ्गद्वाराभिधानमेवेदमङ्गम् , न तु नान्दीय'मिति शेषः ।। ____ ननु माभूदियं नान्दी, किन्तु कथमेतदारभ्य केन नाटकं प्रयोज्यते इत्याशङ्कायामाह-उक्तम् । चापीत्ययः "रङ्गद्वारम् । आरभ्य । कविः। कुर्यात् मङ्गलमाचरेत् इति भावः ।" इत्यादि। ___ननु 'निष्प्रत्यूहमुपास्महे" इत्यादिर्न वस्तुतो नान्दी तत् कथं तत् पुरस्तात् 'नाद्यन्ते'इत्यादिग्रन्थः सङ्गच्छते ? इत्यत आह-अतः। एव । प्राक्तनपुस्तकेषु । 'नान्द्यन्ते। सूत्रधारो नटेषु मुख्यः ।' इत्यनन्तरम् । एव नतु ततः पूर्वमित्यर्थः । “वेदान्तेषु..." इत्यादिश्लोकलेखनम् । आदिना “निष्प्रत्यूहमुपास्महे" इत्यादीनां
ग्रहणम् । 'लिखन'मिति पाठान्तरं तु पाणिनीयाननुगत्वादसाधु । नहि कुटादिष्वेतस्य पाठः । दृश्यते । अतः-आपाततो . यत्र नान्दीलक्षणं प्रतीयतेऽपि न तत्र नान्दी, किन्तु रङ्गद्वाराङ्गभूतं मङ्गलाचरणमेवेति निष्कृष्टोऽर्थः ।
ननु कथं पुनरर्वाचीना एवं लिखन्ति कथं वा साम्प्रतं तथा पाठ उपयुज्यते श्याह-यत् । च । पश्चात 'निष्प्रत्यूहमुपास्महे..'इत्याद्यनन्तरमित्यर्थः । “नान्द्यन्ते । सूत्रधारः।" इति। लेखनम् । 'दृश्यते'इति शेषः । तस्य तथा लेखस्येति भावः । अयम् । अभिप्रायः। “नान्द्यन्ते। सुबधारः सूत्रं प्रयोगानुष्ठानं धारयति खतन्त्रतया सञ्चालयतीति तथोक्तः प्रधानभूतो नटः । तथोक्तम्-"नाटयोपकरणादीनि सूत्रमित्यभिधीयते।