________________
साहित्यदर्पणः।
[पञ्चयः"शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिगिरीन्द्रपुत्री।
अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः ॥२३३॥" इति । एवमन्यत्र । एषा नान्दीति कस्यचिन्मतानुसारेणोक्तम्,वस्तुतस्तु-पूर्वरङ्गस्य रङ्गद्वाराऽभिधानमङ्गम् । यदुक्तम्
“यस्मादभिनयो पत्र प्राथम्यादवतार्यते ।
रङ्गद्धारमतो ज्ञेयं वागङ्गाभिनयात्मकम् ॥” इति । उक्तप्रकारायाश्च नान्द्या रङ्गद्धारात्प्रथमं नटैरेव कर्त्तव्यतया महर्षिणा निर्देशः कृतः। तदाख्ये रूपके इत्यर्थः । "शिरसि मस्तके। धृतसुरापगे धृता सुरापगा देवनदी गङ्गेति यावत् येन तादृशे । सतिसप्तमीयम् । स्मरारौ कामान्तके महेश्वरे इति यावत् । अरुणमुखेन्दुरुचिररुणा मुखमिन्दुरिवेति तस्य रुचिः कान्तियस्यास्तथोक्ता (सुरापगायाः सपत्नीत्वादू कान्तकर्तृकं शिरसा लालनमक्षममित्युक्तम्)। अथ सपदि तथा प्रियाप्रणयमानावगमानन्तरमिति भावः । स्वकान्ते स्वप्रेयसि तस्मिन् स्मरारावित्यर्थः । चरणयुगानते चरणयोयुगं द्वन्द्वमानतस्तथाभूते । 'क्षन्तव्योऽयं ममापराध'इति चरणोपान्ते प्रणते सतीति भावः । स्मितसरसा स्मितेन मन्दहासेन सरसा प्रकटितप्रणयेति तथोक्ता। गिरीन्द्रपुत्री गिरीन्द्रस्य पर्वताधिराजस्य हिमालयस्येति यावत् पुत्रीति तथोक्ता, पार्वतीत्यर्थः । भवतः तव सभ्यजनस्येति यावत् । भूतिहेतुभूतीनां सम्पदा हेतुः तत्स्वरूपेति भावः । अस्तु भवतु । आशिषि लोट। द्वितीयेयं नान्दी। अत्र च भगवतः स्मरारेरपि वशीकरणमहिम्ना देव्या अलौकिकसौन्दर्य्यद्योतनानुपदं सौभाग्यातिशयो ध्वनितः, तथा सति तस्याः खभावतोऽपि महनीयैश्वर्यायाः सम्पदर्थमाशीराशंसनं नितान्तमुपयुक्तम् । पुष्पिताग्रावृत्तम्, तथोक्तम् "पुष्पितामा नौ यौँ, नजौ जोग।" इति पिङ्गलाचाय्यैः ॥” इति ॥२२३॥
उदाहरणान्तरविषये प्राह-एवमित्यादि।
एवं यथाऽत्रोदाहृता तथेत्यर्थः । अन्यत्र 'मुद्राराक्षसादावपि नान्द्युदाहृता बोध्येति शेषः । __ - ननु रत्नावलीमालविकाग्निमित्रादौ इतोऽधिकपदा न्यूनपदा च नान्युपलभ्यते तत् कथमयं नियमः सङ्गच्छते इत्याशय व्यवस्थां दर्शयति-एषेत्यादिना ।
एषा "निष्प्रत्यूहमुपास्महे" इत्यादिनोदाहृतेत्यर्थः । 'एत' दिति पाठान्तरे तु "निष्प्रत्यूहमुपास्महे" इत्यादिपठनमित्यर्थः । नान्दी । इति । कस्यचित् नाट्यप्रदीपकाराद्यन्यतमस्येत्यर्थः । मतानुसारेण सिद्धान्तानुसारेण । उक्तम् । वस्तुतस्तु । पूर्वरङ्गस्य । रङ्गद्धाराभिधानं रङ्गद्वारं नाम । अछामवयवः । अयम्भाव:-"निष्प्रत्यूहमुपास्महे' इत्यादौ नान्दीलक्षणं सङ्गच्छते इत्येषैव नान्दीति न सर्ववादिसम्मतं मतम्, पूर्वरङ्गस्य रङ्गद्वारनाम्नोऽङ्गस्यात्र वस्तुतया सद्भावात् । अत एव-"एकैश्चर्ये स्थितोऽपि प्रणतबहुफले य: खयं कृत्तिवासाः, कान्तासम्मिश्रदेहोऽप्यविषय उदितो यः परस्ताद् यतीनाम् । अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस्तामसी वृत्तिमीशः ॥” इत्यादौ अष्टपदाद्वादशपदान्यतमायाः नान्या लक्षणासद्भावेऽपि न क्षतिः । इति । इत्यन्ये, ( इत्युच्यते) इति पाठाधिक्यं तु चिन्त्यम् ।
तदेव प्राचां संवादेन सिद्धान्तयति-यदित्यादिना । यत् यतः । उक्तम् । किमित्याह-“यस्मात् 'कारणादि' ति शेषः । अत्रास्मिन्नाटके इति यावत् । 'सूत्रधारेण क्रियमाणे मङ्गले' इत्यन्ये । प्राथम्यात् प्रथमत इत्यर्थः । अभिनयः । अवतार्यते विधीयते । अतः तस्मात् । वागाभिनयात्मकं वागङ्गाभ्यां निष्पाद्योऽभिनय इति, स आत्मा खरूपं यस्य तथोक्तम् । मयूरव्यंसकादित्वान्मध्यमपदलोपः । रङ्गद्धारं रङ्गारम्भः । ज्ञेयम् ॥” इति ।
ननु किमर्थ दर्शितं नान्दीलक्षणमित्याशङ्कयाह-उक्तत्यादिना ।
उक्तप्रकारायाः। च । नान्द्याः । रङ्गद्धारात् रङ्गारम्भात् । प्रथमम् । नटैः 'सूत्रधारादिभिः' इति शेषः । एव । कर्त्तव्यतया । महर्षिणा भरताचार्येणेत्यर्थः । निर्देशः । कृतः। “नान्दी शुष्काऽवकृष्टा च रणद्वारं तथैव च।" इत्यादिनेति शेषः । इदं तत्त्वम्-अष्टपदा द्वादशपदा वा या नान्दी सा तु 'नान्युत्तरं शुष्काझं ततः