________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । लाक्षागृहानल-विषान-सभाप्रवेशैःप्राणेषु वित्तनिचयेषु च नः प्रहस्य ।
आकृष्य पाण्डववधूपरिधानकेशान् स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ॥२३२॥ इति निशम्य पारिपार्धिकसूत्रधारौ निष्क्रान्तौ, भीमसेनस्य च प्रवेशः । ३२७ यदि प्रयोग एकस्मिन् प्रयोगोऽन्यः प्रयुज्यते ।
तेन पात्रप्रवेशश्च प्रयोगातिशयस्तदा ॥ ३३३ ॥
लाक्षागृहानल-विषान-सभाप्रवेशैलाक्षाया गृहा लाक्षया निम्मितं स्थानं तत्र दत्तोऽनलोऽग्निरिति सच, विषानं विषस्यान्न विषेण सम्प्रतमन्नमिति तच्च, सभायां द्यतस्थाने प्रवेशः साभिनिवेशमाहय प्रवेशनं चेति तैस्तथीतैः । नोऽस्माकम् । प्राणेषु जीवितेषु । वित्तनिचयेषु वित्तानां खणादीनां निचयास्तेषु तथोक्तेषु । च(इदं समुश्चयार्थम्)। प्रहत्य प्रहारं कृत्वेत्यर्थः । पाण्डववधूपरिधानकेशान पाण्डवानां युधिष्ठिरादीनां वधूस्तस्या द्रौपद्या इत्यथैः । परिधानमुत्तरीयं च केशाश्चेति तान् तथोक्तान् । आकृष्य । मयि भीमसेमे' इति शेषः । जीवति । सतिसप्तमीयम् । धार्तराष्टा धृतराष्ट्रस्यापत्यानि पुमांस इति तथोक्ता दुर्योधनादय इति भावः । स्वस्थाः (अत्र काकुः) । भवन्तु कथं भवन्त्विति भावः । यद्वा-खः खर्गे तिष्ठ
यद्वा-खः खर्गे तिष्ठन्तीति स्वस्था मृता इत्यर्थः । “खपरे शरि वा विसर्गलोपो वक्तव्यः इति विसर्गलोपः । भवन्तु । अत्र वसन्ततिलकं छन्दः,तल्लक्षणं च यथोक्तम्-'उक्तं वसन्ततिलकं सभजा जगौ गः। इति॥२३२॥
इति। निशम्य श्रुत्वा । पारिपाश्विकसूत्रधारी पारिपाश्विकस्थापको। निष्क्रान्तौ भीमसेनस्य।च। प्रवेशः । अत्रेदम्बोध्यम्-वेणीसंहारे "सूत्रधारकः । मारिष! ननु प्रतिहतं सर्वममङ्गलम् । स्वयं प्रतिपन्नदौत्येन कंसारिणा । तथा हि-निर्वाणवैरदहनाः...॥ (नेपथ्ये) साधिक्षेपम् । आः पाप! दुरात्मन् ! शैलूषापसंद ! लाक्षागृहानल...॥ सूत्र.... (आकर्ण्य सभयम्-नेपथ्याभिमुखमवलोकयति)। पारि..। आः कुत एतत् । सूत्र...। (पृटतोऽवलोक्य ) अये कथमय वासुदेवगमनात् कुरुसन्धानममृष्यमाणः पृथुलललाटतटघटितभ्रंकुटिना दृष्टिपातेन आपिवन्निव नः सर्वान् सहदेवेनानुगम्यमानः कुद्धो भीम इत एवाभिवर्त्तते । तन्न युक्तमस्य पुरतः स्थातुम् । इति निष्कान्तौ।" इति पूर्वापरः सन्दर्भः । अस्य च-"सूत्रधारकः पारिपाश्चिकं प्रत्याह, हे मारिष ! आर्य्य ! 'आर्यस्तु मारषः ।' इत्यमरः । ननु सर्वम् अमङ्गल कौरवपाण्डवानां परस्परविमर्दमलं लोकक्षयरूपं पापं स्वयं प्रतिपन्नदौत्येन दौत्यं प्रतिपन्नस्तेन 'वाऽऽहिताग्न्यादिषु ।' २॥२॥३७ इति प्रतिपन्नशब्दस्य पूर्वा देशः । सन्धि कारयतीति तादृशेन कंसारिणा प्रतिहत विनाशितम् ,....।" इत्यर्थः। "हे मारिष । ननु स्वयं साक्षात् 'सत्यां सन्धित्सायां किन्न कलहः प्रशमयितुं शक्यते इति साभिनिवेश प्रतिपन्नदौत्येन सन्धिकारिणा कंसारिणा कंसस्य तदाख्यस्य स्वमातुलस्यारिणा भगवता श्रीकृष्णचन्द्रेण (एतेन पक्षपातशून्यतया दुजनविनाशकत्वं सज्जनरक्षकत्वं च सचितम्) सर्व किंवदन्तीमूलं कथमपि वा भीष्मादिसाहाय्येन कौरवाणां जयसम्भावनामूल चामङ्गलं प्रतिहतम् । अयम्भावः-भगवता स्वयं सन्धित्सया दौत्यं स्वीकृत्य 'न केनापि कौरवपाण्डवानां कलहनिमित्तं लोकक्षयो निवर्तित'इत्येकं किंवदन्तीमूलम् , 'तदानी च श्रीमदान्धैः कौरवैः कृतमपकारं प्राप्य' भीष्मादिसाहाय्येन कौरवाः पाण्डवान् जेष्यन्तीति दुराशामात्रमूलं कौरवजीवितावशेषाशंसनरूपं द्वितीयम् अमङ्गलं प्रशमितम् । इति । तथाहिअरीणां कौरवाणाम् प्रशमाद्विनाशं विधाय (ल्यबर्थेयं पञ्चमी) निर्वाण: प्रशान्तो वैरदहनो दहनोपमितं वैर येषां तथोक्ताः । 'मरणान्तानि वैराणी'त्यभियुक्तोक्त्या शान्तद्वेषा इति भावः । माधवेन सह पाण्डुतनथाः नन्दन्तु राज्यसुखमनुभवन्तु । सभृत्याः कुरुराजमुतास्तु रक्तेन नानाशस्त्रास्त्रक्षताङ्गतया निःसरता रुधिरेण प्रसाधिता भूयेस्तथाभूताः क्षता विग्रहाः शरीराणि येषां तथोक्ताः सन्तः स्वः स्वर्गे तिष्ठन्तीति तथोक्ता मृता इति भावः । ('खपरे शार वा विसर्गलोपः' इति विसर्गलोपः ) भवन्तु ।...' इति तु ३३७ "वचः सातिशयक्लिष्ट.." इति वक्ष्यमाणदिशा पताकारूप इति विभाव्यम् । अत्र च प्रायः "वृथामङ्गलपाठक ?" इत्यनन्तरं "शैलूषापसद !' इत्यारभ्य सूत्रधारौ'इति पाठो नोपलभ्यते, तत्स्थाने पुन: 'कथं खस्था भवन्तु मयि जीवति धार्तराष्ाः । ततः सूत्रधारनिष्क्रान्तौ भीमसेनस्य प्रवेशः'इति पाठः । एवं पाठेऽपि अत्र सूत्रधारस्य वाक्यार्थमादाय भीमसेनस्य प्रवेश इति वाक्यार्थादानमूलोऽयं कथोद्धातः । इति बोध्यम् । ___ ३२७ यदि । एकस्मिन् । प्रयोगे । अन्यः । प्रयोगः । प्रयुज्यते प्रवर्त्यते । तेनान्येन प्रयोगेणेत्यर्थः ।