________________
परिच्छेदः ]
रुचिराख्यया भ्याख्यया समेतः। तत्रेति नाटके। ३१५ यं नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ ३१९ ॥ ३१६ प्रत्याहारादिकान्यङ्गान्यस्य भूयांसि यद्याप ।
तथाऽप्यवश्यं कर्त्तव्य। नान्दी विघ्नोपशान्तये ॥ ३२० ॥
सनमिति तथोक्ता । 'विधातव्येति शेषः । तत्पुनः-कवेः नाटकप्रणेतुः । सज्ञाऽदिकथनं सज्ञाऽऽदेर्नामादेः कथनं वर्णनम् । आदिना सत्यभिप्राये गोत्रादेः कथनमप्युपयुक्तमिति सचितम् । सत्यभिप्राये एतेनाभिज्ञानशाकुन्तलादौ गोत्रादेरकथनमपि सगच्छते । एवम्-नाटकस्य । अपि 'सज्ञाऽऽदिकथन मिति पूर्वतोऽन्वेति । 'कथनं कविसज्ञाऽऽदे रिति पाठान्तरं तु न साधु, नाटकस्येत्यनेन तदेकांशस्य सञ्ज्ञाऽऽदेरन्वयानुपपत्तेः। अथ । आमुखं वक्ष्यमाणलक्षणा प्रस्तावनेत्यर्थः । 'विधातव्य'मिति शेषः ॥३१८॥
सन्देहापनोदायाह-तत्रेति । 'अस्येति शेषः । नाटके 'इत्यर्थ'इति शेषः । अथ तत्र तावत् पूर्वरङ्गं लक्षयति ३१५ यदित्यादिना ।
३१५ नास्यवस्तुनो नाट्यस्य नाटकस्य वस्तु प्रतिपाद्योऽर्थस्तस्येत्यर्थः । पूर्वम् । रङ्गविघ्नोपशान्तये रङ्गे नृत्यस्थाने विना जायमाना नटादिदुरदृष्टविलसितरूपा उपद्रवास्तेषामुपशान्तिरुपशमनं तस्यै तथोक्तायै । कुशीलवाः सूत्रधारप्रभृतयो नटाः । “कुशीलवस्तु वाल्मीको नटयाचकयोरपि ।" इति मेदिनी। यम् । प्रकुर्वन्ति प्रस्तुवन्ति आचरन्तीति यावत् । सः । पूर्वरङ्गः । उच्यते । “यद्यपि-पूर्व रज्यतेऽस्मिन्निति पूर्वरङ्गः, नाटशालेत्येवार्थों मुख्यः तथाऽपि उपचारात् तत्स्थं कर्मापि तथा व्यपदिश्यते।" इति केचित्, अन्ये वाहुः "पूर्वो रङ्गः पूर्व क्रियमाणो गानादिनिष्पाद्यः कर्मविशेष इति पूर्वरङ्गः, “रङ्गो । नृत्ये रणभुवि गाने नृत्याङ्गणेऽपि च । वङ्गे मल्लनियुद्धो तद्भूमौ च" इति गोपालः । तदेवं पूर्वरङ्गशब्दोऽत्र न लाक्षणिकः ।" इति ॥ ३१९ ॥
नन्वत्र किमवश्यं विधेयमित्याह ३१६ प्रत्याहारादिकानीत्यादि ।
३१६ अस्य पूर्वरङ्गस्थेत्यर्थः । यद्यपि। प्रत्याहारादिकानि । भूयांसि बहूनि । अद्धानि । 'सन्ती'ति शेषः । तथाऽपि । विघ्नोपशान्तये । अवश्यम् । नान्दी। कर्तव्या । अत्रेदं बोध्यम्-"प्रत्याहारोऽवतरणं तथा ह्यारम्भ एव च । आश्रावणा वक्रपाणिस्तथा च परिघटना । संखदना ततः कार्य्या मार्गसारित एव च । ज्येष्ठमध्यकनिष्ठानि तथैवासारितानि च ॥ ततः सर्वैस्तु कुतुपैः संयुक्तानीह कारयेत् । एतानि तु बहियोगान्यन्तर्जवनिकागतैः ॥ प्रयोक्तृभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च। ततः सर्वैस्तु कुतुपैः संयुक्तानीह कारयेत् ॥ विद्यादन्तर्जवनिकां वृत्त. पाठयकृतानि च । गीतानां भद्रकादीनां योज्यमेकं तु गीतकम् । वर्धमानमथापीह ताण्डवं यत्र युज्यते। ततश्चोत्थापन कायं परिवर्तनमेव च ॥ नान्दीशुष्कावकृष्टे च रङ्गद्वारं तथैव च । चारी चैव ततः कार्यां महाचारी तथैव च ॥ प्ररोचना च त्रिगतं पूर्वरङ्गे भवन्ति हि । एतान्यङ्गानि कार्याणि पूर्वरङ्गविधौ द्विजाः ॥ एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः । कुतुपस्य सविन्यासः प्रत्याहार इति स्मृतः ॥ तथाऽवतरण प्रोक्तं गायकानां निवेशनम् । परिगीतक्रिया. ऽऽरम्भ आरम्भ इति कीर्तितः ॥ आतोघरञ्जनाऽर्थ च भवेदाश्रावणाविधिः । वाद्यवृत्तिविभागार्थ वक्रपाणिर्विधीयते ॥ तन्त्रीयकरणार्थं तु भवेच्च परिघटनम् ॥ तथा पाणिविभागार्थे भवेत्संखदनाविधिः॥ तन्त्रीभाण्डसमायोगान् मार्गसारितमिध्यते । कालपातविभागार्थ भवेदासारितक्रिया॥ कीर्तनाद्देवतानां च ज्ञेया गीतविधिक्रिया ॥...यस्मादुत्थापयन्त्यत्र प्रयोग नान्दि (न्दी) पाठकाः । पूर्वमेव तु रङ्गेऽस्मिन् तस्मादुत्थापनं स्मृतम् ॥ यस्माच लोकपालानां परिवृत्त्य चतुर्दिशम् । वन्दनानि प्रकुर्वन्ति तस्माच परिकीर्तनम् ॥” इत्येवं भरतादिभिरभिहितानि यद्यपि बहूनि पूर्वरङ्गे विधेयानि प्रत्याहारादीन्यङ्गानि, तथाऽपि न तेषां तथाऽऽवश्यकी स्थितिः प्रार्थनीया, यथा नान्द्याः । इति ॥ ३३०॥